摩诃婆罗多 · 章 3.20
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.20.1
आनर्तनगरं मुक्तं ततोऽहमगमं तदा ।
महाक्रतौ राजसूये निवृत्ते नृपते तव ॥ ३.२०.१ ॥
君王啊,当你的大王祭(拉嘉苏耶祭)结束之时,我便离开了阿难多城。
3.20.2
अपश्यं द्वारकां चाहं महाराज हतत्विषम् ।
निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम् ॥ ३.२०.२ ॥
大王啊,我看见德瓦拉卡失去了光彩,没有诵吠陀,没有瓦沙特卡拉祭语,其中优秀的女子也失去了饰物。
3.20.3
अनभिज्ञेयरूपाणि द्वारकोपवनानि च ।
दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम् ॥ ३.२०.३ ॥
德瓦拉卡的园林已呈现难以辨认的景象;我见此心生疑惧,便去问希利迪迦之子。
3.20.4
अस्वस्थनरनारीकमिदं वृष्णिकुलं भृशम् ।
किमिदं नरशार्दूल श्रोतुमिच्छामि तत्त्वतः ॥ ३.२०.४ ॥
这个伐尔施尼家族,其男女都极为病弱——这是怎么回事,人中之虎啊?我想听其真相。
3.20.5
एवमुक्तः स तु मया विस्तरेणेदमब्रवीत् ।
रोधं मोक्षं च साल्वेन हार्दिक्यो राजसत्तम ॥ ३.२०.५ ॥
我如此相问,他便详细讲述此事:萨尔瓦的围困及脱困之事,诸王中最杰出者啊。
3.20.6
ततोऽहं भरतश्रेष्ठ श्रुत्वा सर्वमशेषतः ।
विनाशे साल्वराजस्य तदैवाकरवं मतिम् ॥ ३.२०.६ ॥
于是,婆罗多族中最杰出者啊,我听完全部详情,便当即下定决心,要毁灭萨尔瓦王。
3.20.7
ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम् ।
राजानमाहुकं चैव तथैवाकनदुन्दुभिम् ॥ ३.२०.७ ॥
于是,婆罗多族最优秀的人啊,我安抚了城中的百姓,以及国王阿呼伽,同样也安抚了阿坎南敦敦都毗(伐苏提婆)。
3.20.8
सर्वान्वृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा ।
अप्रमादः सदा कार्यो नगरे यादवर्षभाः ॥ ३.२०.८ ॥
我使所有渥里施尼的勇士们欢欣,于是说道:耶达瓦族的雄牛们啊,城中必须始终保持警惕。
3.20.9
साल्वराजविनाशाय प्रयातं मां निबोधत ।
नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति ॥ ३.२०.९ ॥
要知道,我已出发去消灭萨尔瓦王;不杀死他,我不会返回德瓦拉瓦蒂城。
3.20.10
ससाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः ।
त्रिःसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणा ॥ ३.२०.१० ॥
杀死萨尔瓦和绍跋城之后,我将再次与你们相见。让这面三次作响、令敌人恐惧的鼓敲响吧。
3.20.11
ते मयाऽऽश्वासिता वीरा यथावद्भरतर्षभ ।
सर्वे मामब्रुवन्हृष्टाः प्रयाहि जहिशात्रवान् ॥ ३.२०.११ ॥
那些英雄们经我妥善安慰,婆罗多族的雄牛啊,他们都欢欣地对我说:去吧,杀死敌人。
3.20.12
तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः ।
वाचयित्वा द्विजश्रेष्ठान्प्रणम्य शिरसा भवम् ॥ ३.२०.१२ ॥
在那些心怀喜悦的英雄们的祝福中,我让最优秀的再生者诵读吉祥祝词,低头向婆婆(湿婆)致敬。
3.20.13
शैब्यसुग्रीवयुक्तेन रथेनानादयन्दिशः ।
प्रध्माय शङ्खप्रवरं पाञ्चजन्यमहं नृप ॥ ३.२०.१३ ॥
我以沙伊布亚与苏格里瓦两匹马所驾的战车,震响四方,王啊,吹响了最殊胜的海螺潘查详尼亚。
3.20.14
प्रयातोस्मि नरव्याघ्र बलेन महता वृतः ।
क्लृप्तेन चतुरङ्गेण यत्तेन जितकाशिना ॥ ३.२०.१४ ॥
人中之虎啊,我已率领庞大军队出发,以整饬的四军,准备就绪,渴望胜利。
3.20.15
समतीत्य बहून्देशान्गिरींश्च बहुपादपान् ।
सरांसि सरितश्चैव मार्तिकावतमासदम् ॥ ३.२०.१५ ॥
经过许多国土、林木繁茂的山岭、湖泊与河流,我抵达了马提卡瓦塔。
3.20.16
तत्राश्रौषं नरव्याघ्र साल्वं सागरमन्तिकात् ।
प्रयान्तं सौभमास्थाय तमहं पृष्ठतोऽन्वगाम् ॥ ३.२०.१६ ॥
人中之虎啊,我在那里听说沙尔瓦乘坐索巴飞行器从海边出发,于是我从后面追赶他。
3.20.17
दृष्टवानस्मि राजेन्द्र साल्वराजमथान्तिके ।
ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः।
समुद्रनाभ्यां साल्वोऽभूत्सौभमास्थाय शत्रुहन् ॥ ३.२०.१७ ॥
王中之王啊,我近前看到了沙尔瓦王。随后,我到达大海,在它巨浪翻涌的海湾里,灭敌者啊,沙尔瓦乘坐索巴飞行器与海之脐一同显现。
3.20.18
स मामालोक्य सहसा सेनां स्वां प्राहिणोन्मृधे ।
मद्बाहुना च सेनायां शिष्टायां किंचिदेव च ॥ ३.२०.१८ ॥
他一见到我,便立刻派出自己的军队投入战斗;而那支军队中,经我臂力之后所剩的少许,也是如此。
3.20.19
स समालोक्य सहसा स्मयन्निव युधिष्ठिर ।
आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः ॥ ३.२०.१९ ॥
他突然看见我,युधिष्ठिर啊,仿佛微笑着,这个心怀恶念的人一次又一次地向我挑战交战。
3.20.20
तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः ।
पुरं नासाद्यत शरैस्ततो मां रोष आविशत् ॥ ३.२०.२० ॥
他从沙尔迦弓射出的许多刺入要害的箭,未能到达我的城(身体);于是愤怒涌上我心。
3.20.21
स चापि पापप्रकृतिर्दैतेयापशदो नृप ।
मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः ॥ ३.२०.२१ ॥
那恶性之徒、达伊提亚的卑劣之子,啊国王,不可战胜,向我倾泻了成千上万道箭雨。
3.20.22
सैनिकान्मम सूतं च हयांश्च स समाकिरत् ।
अचिन्तयन्तस्तु शरान्वयं युध्याम भारत ॥ ३.२०.२२ ॥
他遮蔽了我的士兵、我的御者和马匹;然而我们不顾箭矢,继续作战,婆罗多啊。
3.20.23
ततः शतसहस्राणि शराणां नतपर्वणाम् ।
चिक्षिपुः समरे वीरा मयि साल्वपदानुगाः ॥ ३.२०.२३ ॥
于是沙尔瓦的追随者们在战斗中向我射出了数十万支带弯曲节的箭。
3.20.24
ते हयांश्च रथं चैव ध्वजं दारुकमेव च ।
छादयामासुरसुरास्तैर्बाणैर्मर्मभेदिभिः ॥ ३.२०.२४ ॥
那些阿修罗用那些刺入要害的箭遮蔽了我的马匹、战车、旗帜,也遮蔽了达鲁迦。
3.20.25
न हया न रथो वीर न ध्वजो न च दारुकः ।
अदृश्यन्त शरैश्छन्नास्तथाऽहं सैनिकाश्च मे ॥ ३.२०.२५ ॥
英雄啊,马、车、旗、御者达卢迦都看不见了,被箭矢遮蔽;我和我的士兵也是如此。
3.20.26
ततोऽहमपि कौन्तेय शराणामयुतान्बहून् ।
आमन्त्रितानां धनुषा दिव्येन विधिनाऽक्षिपम् ॥ ३.२०.२६ ॥
于是,贡蒂之子啊,我也依神圣仪轨以弓召唤,射出了数以万计的箭。
3.20.27
न तत्रविषयस्त्वासीन्मम सैन्यस्य भारत ।
खे विषक्तं हि तत्सौभं क्रोशमात्र इवाभवत् ॥ ३.२०.२७ ॥
婆罗多啊,那里我军已无视力所及的范围,因为悬于空中的那座索跋城仿佛只有一克罗舍之遥。
3.20.28
ततस्ते प्रेक्षकाः सर्वे देवा वै दिवमास्थिताः ।
हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः ॥ ३.२०.२८ ॥
于是,那些立于天上的观看诸神,以狮吼和拍掌之声,大声地使我欢喜。
3.20.29
मत्कार्मुकविनिर्मुक्ता दानवानां महारणे ।
अङ्गेषु रुधिराक्तास्ते विविशुः शलभा इव ॥ ३.२०.२९ ॥
在大战中从我弓上射出的那些箭,沾满鲜血,像蝗虫一样钻入达那婆的肢体。
3.20.30
ततो हलहलाशब्दः सौभमध्ये व्यवर्धत ।
वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे ॥ ३.२०.३० ॥
于是在索跋城中,响起了巨大的喧嚣——那些被锐利箭矢击中、坠入大海者的哀号。
3.20.31
ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः ।
नदन्तो भैरवान्नादान्निपतन्ति स्म दानवाः।
पतितास्तेऽपि भक्ष्यन्ते समुद्रांभोनिवासिभिः ॥ ३.२०.३१ ॥
那些断臂折肩、显出无头躯干之形的檀那婆,发出可怕的吼叫而倒下。倒下者也被栖息于大海水中的生物吞食。
3.20.32
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम् ।
जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम् ॥ ३.२०.३२ ॥
于是我以气息吹满了般遮JANYA法螺,其光如牛奶、茉莉、月亮、莲藕与白银。
3.20.33
तान्दृष्ट्वा पतितांस्तत्र साल्वः सौभपतिस्ततः ।
मायायुद्धेन महता योधयामास मां युधि ॥ ३.२०.३३ ॥
见彼等倒于彼处,娑婆城之主沙尔瓦便以大幻术之战与我在战场上交锋。
3.20.34
ततो गदा हलाः प्रासाः शूलशक्तिपरश्चथाः ।
असयः शक्तिकुलिशपाशर्ष्टिकनपाः शराः।
पट्टसाश्च भुशुण्ड्यश्च प्रपतन्त्यनिशं मयि ॥ ३.२०.३४ ॥
于是棍棒、犁、矛、三叉戟、枪与战斧、剑、枪、雷杵、套索、投枪与木棒、箭、宽刃剑及布申迪箭,不断向我倾泻而下。
3.20.35
तामहं माययैवाशु प्रतिगृह्य व्यनाशयम् ।
तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत् ॥ ३.२०.३५ ॥
我即刻以幻术对其幻术,将之摧毁。彼幻术被毁后,他便以山峰与我交战。
3.20.36
ततोऽभवत्तम इव प्रकाश इव चाभवत् ।
दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत ॥ ३.२०.३६ ॥
于是忽如黑暗,又如光明;雨天与晴日、寒与热,并同时而现,婆罗多之子啊。
3.20.37
अङ्गारपांसुवर्षं च शस्त्रवर्षं च भारत ।
एवं मायां प्रकुर्वाणो योधयामास मां रिपुः ॥ ३.२०.३७ ॥
婆罗多啊,他降下炽炭与尘土之雨,又降下兵器之雨;这样施展幻术,敌人使我与他交战。
3.20.38
विज्ञाय तदहं सर्वं माययैव व्यनाशयम् ।
यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः ॥ ३.२०.३८ ॥
我明白了这一切,便以幻术毁灭了幻术;随后在适当的时候,在战斗中,我从四面以箭将他驱散。
3.20.39
ततो हतायां च मया मायायां युधि दानवः ।
मायामन्यां महाराज चकार मतिमोहिनीम् ॥ ३.२०.३९ ॥
此后,当那幻术在战斗中被我毁灭时,大王啊,那位檀那婆又制造了另一种迷乱心智的幻术。
3.20.40
ततो व्योम महाराज शतसूर्यमिवाभवत् ।
शतचन्द्रं च कौन्तेय सहस्रायुततारकम् ॥ ३.२०.४० ॥
此后,大王啊,天空仿佛有了百个太阳;贡蒂之子啊,又有百个月亮,以及成千上万的星辰。
3.20.41
ततो नाज्ञायत तदा दिवारात्रं तथा दिशः ।
ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समयोजयम् ॥ ३.२०.४१ ॥
那时,昼与夜、方向都无法分辨;于是我陷入迷惑,便施放了智慧之箭。
3.20.42
तदस्त्रमस्तमस्त्रेण विधूतं शरतूलवत् ।
तथा तदभवद्युद्धं तुमुलं रोमहर्षणम्।
लब्धालोकस्तु राजेन्द्र पुनः शत्रुमयोधयम् ॥ ३.२०.४२ ॥
那武器被另一武器摧毁,如箭上的棉絮般散去;于是那场战斗变得喧嚣而令人毛骨悚然。王中之王啊,我重获光明,便再次与敌人交战。