Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.200

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.200.1

देवानां कथा संजाता महीतलं गत्वा महीपतिं शिबिमौशीनरं साध्वेनं शिबिं जिज्ञास्याम इति ॥ एवं भो इत्युक्त्वा अग्नीन्द्रावुपतिष्ठेताम् ॥ ३.२००.१ ॥

诸神之间议论起来:我们去大地上考验乌until那罗之子国王尸毗。阿耆尼与因陀罗说:"好吧,先生。"随即便来到他身边。

3.200.2

अग्निः कपोतरूपेण तमभ्यधावदामिषार्थमिन्द्रः श्येनरूपेण ॥ ३.२००.२ ॥

阿耆尼化作鸽子向他扑去,因陀罗则化作鹰隼,为了寻求肉食。

3.200.3

अथ कपोतो राज्ञो दिव्यासनासीनस्योत्सङ्गं न्यपतत् ॥ ३.२००.३ ॥

此时鸽子落入了坐在神圣宝座上的国王怀中。

3.200.4

अथ पुरोहितो राजानमब्रवीत् ॥ प्राणरक्षार्थं श्येनाद्भीतो भवन्तं प्राणार्थी प्रपद्यते ॥ ३.२००.४ ॥

这时祭司对国王说:它因惧怕鹰隼,为求活命,前来投奔您。

3.200.5

वसु ददातु अन्तवान्पार्थिवोऽस्य निष्कृतिं कुर्यात् घोरं कपोतस्य निपातमाहुः ॥ ३.२००.५ ॥

让他布施财物吧;这位有死的国王应当为此赎罪。人们说,这是鸽子可怕的坠落。

3.200.6

अथ कपोतो राजानमब्रवीत् ॥ प्राणरक्षणार्थं श्येनाद्भीतो भवन्तं प्राणार्थी प्रपद्ये अङ्गैरङ्गानि प्राप्यार्थी मुनिर्भूत्वा प्राणांस्त्वां प्रपद्ये ॥ ३.२००.६ ॥

这时鸽子对国王说:我因惧怕鹰隼,为求活命,前来投奔您。我想以肢体换取肢体,化作苦行的贤人,为了我的性命投奔您。

3.200.7

स्वाध्यायेन कर्शितं ब्रह्मचारिणं मां विद्धि ॥ तपसा दमेन युक्तमाचार्यस्याप्रतिकूलभाषिणम् ॥ एवंयुक्तमपापं मां विद्धि ॥ ३.२००.७ ॥

请知我为梵行学徒,因诵习吠陀而消瘦;请知我具备苦行与克制,从不违逆师长之言。如此具足者,请知我为无罪。

3.200.8

गदामि वेदानविचिनोमि छन्दः ।
सर्वेवेदा अक्षरशो मे अधीताः।
न साधु दानं श्रोत्रियस्य प्रदानं ।
मा प्रादाः श्येनाय न कपोतोऽस्मि ॥ ३.२००.८ ॥

我诵读吠陀,考察韵律;所有吠陀我都逐字学过。将布施给博学婆罗门并非善举。不要给鹰;我不是鸽子。

3.200.9

अथ श्येनो राजानमब्रवीत् ॥ ३.२००.९ ॥

于是鹰对国王说。

3.200.10

पर्यायेण वसतिर्वा भवेषु ।
सर्गे जातः पूर्वमस्मात्कपोतात्।
त्वमाददानोऽथ कपोतमेनं ।
मा त्वं राजन्विघ्नकर्ता भवेथाः ॥ ३.२००.१० ॥

轮回中的居所是轮流的;在创造中我比这只鸽子先出生。大王,取此鸽子时,请勿成为障碍。

3.200.11

केनेदृशी जातु परा हि दृष्टा ।
वागुच्यमाना शकनेन संस्कृता।
यां वै कपोतो वदते यां च श्येन ।
उभौ विदित्वा कथमस्तु साधु ॥ ३.२००.११ ॥

谁曾见过如此至上的言语,由鸟儿以雅正的方式说出?知晓鸽子与鹰所说之言,如何才能行其正道?

3.200.12

नास्य वर्षं वर्षति वर्षकाले ।
नास्य बीजं रोहति काल उप्तम्।
भीतं प्रपन्नं यो हि ददाति शत्रवे ।
न त्राणं लभेत्राणमिच्छन्स काले ॥ ३.२००.१२ ॥

对他而言,雨季不下雨;对他而言,按时播种的种子也不发芽。把惊恐前来投靠的人交给敌人的人,在他想要庇护的时候,也得不到庇护。

3.200.13

जाता ह्रस्वा प्रजा प्रमीयते ।
सदा न वासं पितरोऽस्य कुर्वते।
भीतं प्रपन्नं यो हि ददाति शत्रवे ।
नास्य देवाः प्रतिगृह्णन्ति हव्यम् ॥ ३.२००.१३ ॥

他的子孙一出生便夭折,他的祖先也从不为他安排居所。把惊恐前来投靠的人交给敌人的人,诸神不接受他的祭品。

3.200.14

मोघमन्नं विन्दति चाप्रचेताः ।
स्वर्गाल्लोकाद्धश्यति शीघ्रमेव।
भीतं प्रपन्नं यो हि ददाति शत्रवे ।
सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् ॥ ३.२००.१४ ॥

愚昧之人只得到徒劳的食物,很快就会从天界和世间坠落。对于把惊恐前来投靠的人交给敌人的人,诸神与因陀罗一起向他投掷金刚杵。

3.200.15

उक्षाणं पक्त्वा सह ओदनेन ।
अस्मात्कपोतात्प्रति ते नयन्तु।
यस्मिन्देशे रमसेऽतीव श्येन ।
तत्रमांसं शिवयस्ते वहन्तु ॥ ३.२००.१५ ॥

将公牛与米饭一同煮好,让他们从这只鸽子那里把它带回给你,哦鹰。无论你在哪片土地上极为欢愉,哦鹰,愿豺狼为你把肉送去。

3.200.16

नोक्षाणो राजन्प्रार्थयेयं न चान्य ।
दस्मान्मांसमधिकं वा कपोतात्।
देवैर्दत्तः सोऽद्य ममैष भक्ष-
स्तन्मे ददस्व शकुनानामभावात् ॥ ३.२००.१६ ॥

大王啊,我不求牛,也不求别的,更不求比这只鸽子更多的肉。今天诸神赐给我的食物就是这个;既然没有别的鸟,请把它给我。

3.200.17

उक्षाणं वेहतमनूनं नयन्तु ।
ते पश्यन्तु पुरुषा ममैव।
भयाहितस् दायं ममान्तिकात्त्वां ।
प्रत्याम्नायं तु त्वं ह्येनं मा हिंसीः ॥ ३.२००.१७ ॥

让我的人牵来一头完整、健壮的牛,让他们在我面前看它。出于恐惧,我身上已分出一份给你;作为交换,你不要伤害这只(鸽子)。

3.200.18

त्यजे प्राणाननैव दद्यां कपोतं ।
सौम्यो ह्ययं किं न जानासि श्येन।
यथा क्लेशं मा कुरुष्वेह सौम्य ।
नाहं कपोतमर्पयिष्ये कथंचित् ॥ ३.२००.१८ ॥

我宁可舍弃性命,也不会把鸽子给你。善良的人啊,你难道不知道吗,鹰啊?不要在此制造痛苦,善良的人啊;我无论如何也不会交出这只鸽子。

3.200.19

यथा मां वै साधुवादैः प्रसन्नाः ।
प्रशंसेयुः शिबयः कर्मणा तु।
यथा श्येन प्रियमेव कुर्यां ।
प्रशाधि मां यद्वदेस्तत्करोमि ॥ ३.२००.१९ ॥

愿尸毗人欢喜,以善言赞美我,称颂我的行为;啊,鹰啊,请指教我,使我能做你所喜欢的事。你说什么,我就做什么。

3.200.20

ऊरोर्दक्षिणादुत्कृत्य स्वपिशितं तावद्राजन्यावन्मांसं कपोतेन समम् ॥ तथा तस्मात्साधु त्रातः कपोतः प्रशंसेयुश्च शिबय कृतं च प्रियं स्यान्ममेति ॥ ३.२००.२० ॥

大王!他从自己的右大腿上割下自己的肉,直到与鸽子等重。这样,鸽子就得到了保护,尸毗人会赞扬此事,这对我也是一件喜事。

3.200.21

अथ स दक्षिणादूरोरुत्कृत्य स्वमांसपेशीं तुलयाधारयत् ॥ गुरुतर एव कपोत आसीत् ॥ ३.२००.२१ ॥

于是他从右大腿割下一块自己的肉,放在秤上;然而鸽子仍然更重。

3.200.22

पुनरन्यमुच्चकर्त गुरुतर एव कपोतः ॥ एवं सर्वं समधिकृत्य शरीरं तुलायामारोपयामास रतत्तथापि गुरुतर एव कपोत आसीत् ॥ ३.२००.२२ ॥

他又割下另一块肉,鸽子仍然更重。这样,他把自己的整个身体割下放在秤上,鸽子仍然更重。

3.200.23

अथ राजा स्वयमेव तुलामारुरोह ॥ न च व्यलीकमासीद्राज्ञ एतद्वृत्तान्तं दृष्टाव त्रात इत्युक्त्वा प्रालीयत श्येनः अथ राजा अब्रवीत् ॥ ३.२००.२३ ॥

于是国王亲自登上秤。国王心中没有欺诈。看到这件事,鹰说了一声「已受保护」便消失了;于是国王说道。

3.200.24

कपोतं विद्युः शिवयस्त्वां कपोत ।
पृच्छामि ते शकुने को नु श्येनः।
नानीश्वर ईदृशं जातु कुर्या-
देतं प्रश्नं भगवन्मे विचक्ष्व ॥ ३.२००.२४ ॥

尸毗人认你为鸽子。鸽子啊,我问你,鸟啊:这只鹰是谁?无能之辈绝不会做出这样的事。尊者啊,请为我解说这个问题。

3.200.25

वैश्वानरोऽहं ज्वलनो धूमकेतु-
रथैव श्येनो वज्रहस्तः शचीपतिः।
साधु ज्ञातुं त्वामृषभं सौरथेय ।
नौ जिज्ञासया त्वत्सकाशंप्रपन्नौ ॥ ३.२००.२५ ॥

我是毗首婆罗(Vaiśvānara),熊熊燃烧的火,以烟为旗;这只鹰是执金刚杵的舍story之主因陀罗。苏罗陀之子、牛中之王啊,我们二人因想要了解你而来到你面前。

3.200.26

यामेतां पेशीं मम निष्क्रयाय ।
प्रादाद्भवानसिनोत्कृत्य राजन्।
एतद्वो लक्ष्म शिवं करोमि ।
हिरण्यवर्णं रुचिरं पुण्यगन्धम् ॥ ३.२००.२६ ॥

大王啊,你用剑割下这块肉作为我的赎身之物,我使它成为你的吉兆:金色、美丽,带着功德的芬芳。

3.200.27

एतासां प्रजानां पालयिता यशस्वी ।
सुरर्षीणामथ संमतो भृशम्।
एतस्मात्पार्श्वात्पुरुषो जनिष्यति ।
कपोतरोमेति च तस्य नाम ॥ ३.२००.२७ ॥

从这一侧将诞生一人,他是这些百姓的著名守护者,深受诸神与仙人敬重;他的名字叫迦波多罗摩(Kapotaroman)。

3.200.28

कपोतरोमाणं शिबिनौद्भिदं पुत्रं प्राप्स्यसि नृपवृषसंहननं यशोदीप्यमानं द्रष्टासि शूरमृषभं सौरथानाम् ॥ ३.२००.२८ ॥

你将得到一个名叫迦波多罗摩的儿子,他是尸毗之子,能劈开大地,体魄如诸王中的公牛,因名声而光芒四射;你还将看到苏罗陀族中那位英勇的公牛。