Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.201

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.201.1

भूय एव महाभाग्यं कथ्यतामित्यब्रवीत् पाण्डवो मार्कण्डेयम् । अथाचष्ट मार्कण्डेयः । अष्टकस्य वैश्वामित्रेरश्वमेधे सर्वे राजानः प्रागच्छन् ॥ ३.२०१.१ ॥

般度之子又对摩根德耶说:"请再讲讲这大福之事。"于是摩根德耶讲述:毗首婆密多罗之子阿湿陀迦的马祭上,所有的国王都前来了。

3.201.2

भ्रातरश्चास्य प्रतर्दनो वसुमनाः शिबिरौशीनर इति । स च समाप्तयज्ञो भ्रातृभिः सह रथेन प्रायात् । ते च नारदमागच्छन्तमभिवाद्यारोहतु भवान् रथमित्यब्रुवन् ॥ ३.२०१.२ ॥

他的兄弟是普罗达那、伐苏曼那斯,以及乌什那罗之子湿毗。完成祭祀后,他与兄弟们乘车出发。他们向走来的那罗陀行礼后说:"请您登上车吧。"

3.201.3

तांस्तथेत्युक्त्वा रथमारुरोह । अथ तेषामेकः सुरर्षिं नारदमब्रवीत् । प्रसाद्य भगवन्तं किंचि- दिच्छेयं प्रष्टुमिति ॥ ३.२०१.३ ॥

他说:"就这样吧。"于是接受了他们的请求,登上了车。这时其中一人对神仙那罗陀说:"尊贵的大师,我想使您欢喜后问您一些事。"

3.201.4

पृच्छेत्यब्रवीदृषिः । सोऽब्रवीदायुष्मन्तः सर्व- गुणप्रमुदिताः । अथायुष्मन्तं स्वर्गस्थानं चतुर्भि- र्यातव्यं स्यात् कोऽवतरेत् । अयमष्टकोऽवतरेदित्यब्रवीदृषिः ॥ ३.२०१.४ ॥

仙人说:"你问吧。"他回答:"长寿者们,以一切美德而欢喜的人们啊:长寿者要与四人一起前往天界,谁应当下降呢?"仙人说:"让这位阿湿陀迦下降吧。"

3.201.6

किं कारणमित्यपृच्छत् । अथाचष्टाष्टकस्य गृहे मया उषितं स मां रथेनानुप्रावहदथापश्यमनेकानिगोसहस्राणि वर्णशो विविक्तानि तमहमपृच्छं कस्येमे गाव इति सोऽब्रवीत् । मया निसृष्टा इत्येतास्तेनैव स्वयं श्लाघति कथितेन । एषोऽवतरेदथ त्रिभिर्यातव्यं साम्प्रतं कोऽवतरेत् ।
प्रतर्दन इत्यब्रवीदृषिः । तत्र किं कारणं प्रत- र्दनस्यापि गृहे मयोषितं स मां रथेनानुप्रावहत् ॥ ३.२०१.६ ॥

他问道:“原因是什么?”于是他讲述:“我住在阿湿吒迦的家中时,他用车载着我。随后我看见成千上万头牛,按毛色分开。我问他:‘这些牛是谁的?’他说:‘是我放出的。’这样,他借自己的叙述夸耀自己。这一位应当下降;然后须与三人同行。现在谁应当下降?”仙人说:“补罗檀那。”那里的原因是什么?我住在补罗檀那家中时,他也用车载着我。

3.201.7

अथैनं ब्राह्मणोऽभिक्षेताश्वं मे ददातु भवान् निवृत्तो दास्यामीत्यब्रवीद् ब्राह्मणं त्वरितमेव दीयतामित्यब्रवीद् ब्राह्मणस्त्वरितमेव स ब्राह्मणस्यैवमुक्त्वा दक्षिणं पार्श्वमददत् ॥ ३.२०१.७ ॥

于是一位婆罗门向他索要一匹马。“你给我;我回来时会还你。”他说。婆罗门说:“快给吧。”他对婆罗门这样说后,便给出了右侧。

3.201.8

अथान्योऽप्यश्वार्थी ब्राह्मण आगच्छत् । तथैव चैनमुक्त्वा वामपार्ष्णिमभ्यदादथ प्रायात् पुनरपि चान्योऽप्यश्वार्थी ब्राह्मण आगच्छत् त्वरितोऽथ तस्मै अपनह्य वामं धुर्यमददत् ॥ ३.२०१.८ ॥

随后又来了一位求马的婆罗门。他以同样的话对他说,给了左后腿,然后那婆罗门离去。又来了一位求马的婆罗门,十分急切;他解下左辕马交给了他。

3.201.9

अथ प्रायात् पुनरन्य आगच्छदश्वार्थी ब्राह्मण- स्तमब्रवीदतियातो दास्यामि त्वरितमेव मे दीयतामित्यब्रवीद् ब्राह्मणस्तस्मै दत्त्वाश्वं रथधुरं गृह्णता व्याहृतं ब्राह्मणानां साम्प्रतं नास्ति किंचिदिति ॥ ३.२०१.९ ॥

随后他离去,又来了一位求马的婆罗门。他对他说:“我会给那位已经走过的人;请快给我。”婆罗门把马给了他之后,对握着车辕的人说:“眼下对婆罗门而言什么都没有了。”

3.201.10

य एष ददाति चासूयति च तेन व्याहृतेन तथावतरेत् । अथ द्वाभ्यां यातव्यमिति कोऽव- तरेत् ॥ ३.२०१.१० ॥

既施予又嫉妒的人,应当依照那句话如此下来。然后说应与两人同行;谁应下来呢?

3.201.11

वसुमना अवतरेदित्यब्रवीदृषिः ॥ ३.२०१.११ ॥

“让婆苏摩那下来。”仙人如是说。

3.201.12

किं कारणमित्यपृच्छदथाचष्ट नारदः । अहं परिभ्रमन् वसुमनसो गृहमुपस्थितः ॥ ३.२०१.१२ ॥

“原因是什么?”他问道。那罗陀便解释说:“我四处游荡,来到了婆苏摩那的家。”

3.201.13

स्वस्तिवचनमासीत् पुष्परथस्य प्रयोजनेन तमहमन्वगच्छं स्वस्तिवाचितेषु ब्राह्मणेषु रथो ब्राह्मणानां दर्शितः ॥ ३.२०१.१३ ॥

为花车王举行祝福颂唱,我为此事跟随他前去。在诵念祝福的婆罗门中,战车被展示给婆罗门们。

3.201.14

तमहं रथं प्राशंसमथ राजाब्रवीद्भगवता रथः प्रशस्तः । एष भगवतो रथ इति ॥ ३.२०१.१४ ॥

我称赞了那辆战车。国王便说:“这辆战车受到尊者的称赞;这是尊者的战车。”

3.201.16

अथ कदाचित् पुनरप्यहमुपस्थितः पुनरेव च रथप्रयोजनमासीत् । सम्यगयमेष भगवत इत्येवं राजाब्रवीदिति पुनरेव तृतीयं स्वस्तिवाचनं समभावयमथ राजा ब्राह्मणानां दर्शयन् मामभि प्रेक्ष्याब्रवीत् । अथो भगवता पुष्परथस्य स्वस्ति- वाचनानि सुष्ठु सम्भावितानि एतेन द्रोहवचनेनावतरेत् ।
अथैकेन यातव्यं स्यात् कोऽवतरेत् पुनर्नारद आह शिबिर्यायादहमवतरेयमत्र किं कारण- मित्यब्रवीत् । असावहं शिबिना समो नास्मि यतो ब्राह्मणः कश्चिदेनमब्रवीत् ॥ ३.२०१.१६ ॥

之后有一次,我又来了,又需要一辆战车。国王说:“这正是尊者的战车。”随后,我第三次让人举行祝福颂唱。国王便指着婆罗门们看着我说:“为尊者花车王的祝福颂唱已被很好地尊崇。让他借这句敌意之言下车吧。” 那么,若只能去一人,谁应下车?那拿达再问:“让濕毗去吧,我下车;这里的原因是什么?”他说:“我不及濕毗;因此有一位婆罗门对他说了这话。”

3.201.17

शिबे अन्नार्थ्यस्मीति तमब्रवीच्छिविः किं क्रियतामाज्ञापयतु भवानिति ॥ ३.२०१.१७ ॥

"噢,尸毗,我在求食。"尸毗对他说:"该怎么做?请您吩咐。"

3.201.18

अथैनं ब्राह्मणोऽब्रवीद् य एष ते पुत्रो बृहद्गर्भो नाम एष प्रमातव्य इति तमेनं संस्कुरु अन्नं चोप- पादय ततोऽहं प्रतीक्ष्य इति । ततः पुत्रं प्रमाथ्य संस्कत्य विधिना साधयित्वा पाश्यामर्पयित्वा शिरसा प्रतिगृह्य ब्राह्मणममृगयत् ॥ ३.२०१.१८ ॥

那婆罗门对他说:"你的这个儿子名叫布利哈德伽巴,必须杀掉;请把他准备好并煮好食物,然后我将等待。"于是,他杀了儿子,依礼将其加工完毕,置于盘中献上,用头顶接过,然后寻找那位婆罗门。

3.201.19

अथास्य मृगयमाणस्य कश्चिदाचष्ट एव ते ब्राह्मणो नगरं प्रविश्य दहति ते गृहं कोशागारमायुधागारं स्त्र्यगारमश्वशालां हस्तिशालां च क्रुद्ध इति ॥ ३.२०१.१९ ॥

他正在寻找时,有人告诉他:"你的那位婆罗门进入城中,怒气冲冲地正在焚烧你的宅邸、府库、兵库、后宫、马厩和象房。"

3.201.20

अथ शिबिस्तथैवाविकृतमुखवर्णो नगरं प्रविश्य ब्राह्मणं तमब्रवीत् सिद्धं भगवन्नन्नमिति ब्राह्मणो न किंचिद्व्याजहार विस्मयादधोमुखश्चासीत् ॥ ३.२०१.२० ॥

于是尸毗面色与神情丝毫未变,同样进入城中,对那位婆罗门说:"尊者,食物已经准备好了。"婆罗门什么也没说,因惊讶而低着头。

3.201.21

ततः प्रासादयद् ब्राह्मणं भगवन् भुज्यतामिति । मुहूर्तादुद्वीक्ष्य शिबिमब्रवीत् ॥ ३.२०१.२१ ॥

于是他安抚婆罗门说:“尊者,请用餐吧。”片刻之后,他抬头对尸毗说道:

3.201.22

त्वमेवैतदशानेति तत्राह तथेति शिबिस्तथैवा- विमना महित्वा कपालमभ्युद्धार्य भोक्तुमैच्छत् ॥ ३.२०१.२२ ॥

他在那里说:“你自己吃吧。”尸毗说:“就这样吧。”然后,心神不乱,庄重地举起钵,想要进食。

3.201.23

अथास्य ब्राह्मणो हस्तमगृह्णात् । अब्रवीच्चैनं जितक्रोधोऽसि न ते किञ्चिदपरित्याज्यं ब्राह्मणार्थे ब्राह्मणोऽपि तं महाभागं सभाजयत् ॥ ३.२०१.२३ ॥

于是婆罗门握住他的手说:“你已经战胜了愤怒;为了婆罗门,你没有什么是不能舍弃的。”婆罗门也尊敬了这位大福之人。

3.201.24

स ह्युद्वीक्षमाणः पुत्रमपश्यदग्रे तिष्ठन्तं देव- कुमारमिव पुण्यगन्धान्वितमलङ्कृतं सर्वं च तमर्थं विधाय ब्राह्मणोऽन्तरधीयत ॥ ३.२०१.२४ ॥

因为他抬头看见自己的儿子站在面前,如天神之子,带着神圣的芬芳,且装饰华美。完成了这一切之后,婆罗门便消失了。

3.201.25

तस्य राजर्षेर्विधाता तेनैव वेषेण परीक्षार्थमागत इति तस्मिन्नन्तर्हिते अमात्या राजानमूचुः । किं प्रेप्सुना भवता इदमेवं जानता कृतमिति ॥ ३.२०१.२५ ॥

那位王仙的创造者正是以同样的形象前来考验他。那人消失后,大臣们对国王说:“你明明知道这一切,为了什么目的才这样做的呢?”

3.201.26

शिबिरुवाच ।
नैवाहमेतद् यशसे ददानि
न चार्थहेतोर्न च भोगतृष्णया ।
पापैरनासेवित एष मार्ग
इत्येवमेतत् सकलं करोमि ॥ ३.२०१.२६ ॥

尸毗说:我给予此物,不为名誉,不为财利,也不为贪求享乐。这是恶人不曾行走的道路,所以我如此行事,全都如此。

3.201.27

सद्भिः सदाध्यासितं तु प्रशस्तं ।
तस्मात् प्रशस्तं श्रयते मतिर्मे ।
एतन्महाभाग्यवरं शिबेस्तु ।
तस्मादहं वेद यथावदेतत् ॥ ३.२०१.२७ ॥

善人常行且被赞叹的道路才是殊胜的;因此我的心归向它。尸毗的这份大福德最为殊胜;所以我如实地知道这一点。