摩诃婆罗多 · 章 3.203
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.203.1
श्रुत्वा स राजा राजर्षिरिन्द्रद्युम्नस्य तत्तदा ।
मार्कण्डेयान्महाभागात्स्वर्गस्य प्रतिपादनम् ॥ ३.२०३.१ ॥
那位王者、王仙听到了因陀罗都摩的故事,以及大福者摩根德耶关于天界的论述。
3.203.2
युधिष्ठिरो महाराज पुनः पप्रच्छ तं मुनिम् ।
कीदृशीषु ह्यवस्थासु दत्त्वा दानं महामुने।
इन्द्रलोकं त्वनुभवेत्पुरुषस्तद्ब्रवीहि मे ॥ ३.२०३.२ ॥
大王坚战再次问那位圣者:大仙啊,人在何种情况下行施,便能享受因陀罗的世界?请告诉我。
3.203.3
गार्हस्थ्येऽप्यथवा बाल्ये यौवने स्थाविरेऽपि वा ।
यथा फलं समश्नाति तथा त्वं कथयस्व मे ॥ ३.२०३.३ ॥
无论是在居家阶段,还是童年、青年,甚至老年,请告诉我人如何完全享受其果报。
3.203.4
वृथा जन्मानि चत्वारि वृथा दानानि षोडश ।
वृथा जन्म ह्यपुत्रस् ये च धर्मबहिष्कृताः ॥ ३.२०३.४ ॥
四种出生是徒然的,十六种布施是徒然的;无子者的出生是徒然的,被逐出法者亦然。
3.203.5
परपाकं च येऽश्नन्ति आत्मार्थं च पचेत्तु यः ।
पर्यश्नन्ति वृथा यत्र तदसत्यं प्रकीर्त्यते ॥ ३.२०३.५ ॥
吃他人所煮之食的人,只为自己烹饪的人,以及在无用之处徒然吃尽一切的人,这被称为虚假。
3.203.6
आरूढपतिते दत्तमन्यायोपहृतं च यत् ।
व्यर्थं तु पतिते दानं ब्राह्मणे तस्करे तथा ॥ ३.२०३.६ ॥
施予从高处堕落者,以及以不义所得之物,都是徒然的;施予堕落的婆罗门或盗贼,同样是徒然的。
3.203.7
गुरौ चानृतिके पापे कृतघ्ने ग्रामयाजके ।
वेदविक्रयिणे दत्तं तथा वृषलयाजके ॥ ३.२०३.७ ॥
若施给撒谎、作恶、忘恩、为村落主持祭祀、贩卖吠陀,或为首陀罗主持祭祀的老师,同样是徒劳的。
3.203.8
ब्रह्मबन्धुषु यद्दत्तं यद्दत्तं वृषलीपतौ ।
स्त्रीजितेषु च यद्दत्तं व्यालग्राहे तथैव च ॥ ३.२०३.८ ॥
施给不配的婆罗门亲族、首陀罗女的丈夫、受女人支配的人,以及耍蛇人,同样是徒劳的。
3.203.9
परिचारकेषु यद्दत्तं वृथा दानानि षोडश ।
तमोवृतस्तु यो दद्याद्भयात्क्रोधात्तथैव च ॥ ३.२०३.९ ॥
施给仆人的,徒劳无益;这十六种布施皆是徒劳。被黑暗所笼罩者,若因恐惧或愤怒而施舍,那布施也同样如此。
3.203.10
भुङ्क्ते च दानं तत्सर्वं गर्भस्थस्तु नरः सदा ।
ददद्दानं द्विजातिभ्यो वृद्धभावेन मानवः ॥ ३.२०३.१० ॥
身在胎中的人始终享受那一切布施的果报;向再生族布施的人,在年老之时(也享受其果报)。
3.203.11
तस्मात्सर्वास्ववस्थासु सर्वदानानि पार्थिव ।
दातव्यानि द्विजातिभ्यः स्वर्गमार्गजिगीषया ॥ ३.२०३.११ ॥
因此,大王啊,在人生的一切阶段,都应当为了征服天堂之路的愿望,将一切布施施予再生族。
3.203.12
चातुर्वर्ण्यस्य सर्वस्य वर्तमानाः प्रतिग्रहे ।
केन विप्रा विशेषेण तारयन्ति तरन्ति च ॥ ३.२०३.१२ ॥
那些承受四姓一切布施的婆罗门,究竟以何种方式特别地引导他人渡过,并且自己也得以渡过?
3.203.13
जपैर्मन्त्रैश्च होमैश्च स्वाध्यायाध्यायनेन च ।
नावं वेदमयीं कृत्वातारयन्ति तरन्ति च ॥ ३.२०३.१३ ॥
通过诵咒、真言、火祭、自修与研习吠陀,以吠陀之筏为舟,他们渡人,也自渡。
3.203.14
ब्राह्मणांस्तोषयेद्यस्तु तुष्यन्ते तस्य देवताः ।
वचनाच्चापि विप्राणां स्वर्गलोकमवाप्नुयात् ॥ ३.२०३.१४ ॥
凡使婆罗门欢喜者,诸天亦因他而欢喜;并且因婆罗门的言语,他得到天界。
3.203.15
अनन्तं पुण्यलोकं तु गन्ताऽसौ तु न संशयः ।
श्लेष्मादिभिर्व्याप्ततनुर्म्रियमाणोऽविचेतनः ॥ ३.२०३.१५ ॥
他必定会到达无尽的福德世界,这没有疑问,即使他的身体被痰等所侵,临终时又失去知觉。
3.203.16
ब्राह्णा एव संपूज्याः पुण्यं स्वर्गमभीप्सता ।
श्राद्धकाले तु यत्नेन भोक्तव्या ह्यजुगुप्सिताः ॥ ३.२०३.१६ ॥
渴望福德与天界者,应当只尊敬婆罗门;在祭祖(施食)之时,应当谨慎地只供养无可指摘的婆罗门。
3.203.17
दुर्बलः कुनस्वी कुष्ठी मायावी कुण्डगोलकौ ।
वर्जनीयाः प्रयत्नेन काण्डपृष्ठाश्च देहिनः ॥ ३.२०३.१७ ॥
体弱者、有尸体之疵者、麻风病人、欺诈者、昆陀与高拉伽(通奸所生之子)以及驼背者,应当谨慎地加以避开。
3.203.18
जुगुप्सितं हि यच्छ्राद्धं दहत्यग्निरिवेन्धनम् ॥ ३.२०३.१८ ॥
因为不净(可厌)的祭祖之礼焚烧(施祭者),正如火焚烧柴薪。
3.203.19
ये ये श्राद्धे न पूज्यन्ते मूकान्धबधिरादयः ।
तेऽपिसर्वे नियोक्तव्या मिश्रिता वेदपारगैः ॥ ३.२०३.१९ ॥
凡在祭祀祖先(śrāddha)时不被尊敬的哑人、盲人、聋人等,也都应当与精通吠陀者混杂一同安排。
3.203.20
प्रतिग्रहश्च वै देयः शृणु यस् युधिष्ठिर ।
प्रदातारं तथाऽऽत्मानं यस्तारयति शक्तिमान् ॥ ३.२०३.२० ॥
接受布施也应当给予。听着,坚战:能够度脱施主与自己的人,才是有能力的人。
3.203.21
तस्मिन्देयं द्विजे दानं सर्वागमविजानता ।
प्रदातारं तथाऽऽत्मानं तारयेद्यः स शक्तिमान् ॥ ३.२०३.२१ ॥
应将布施给那位通晓一切圣典的再生者。能够度脱施主与自己的人,才是有能力的人。
3.203.22
न तथा हविषो होमैर्न पुष्पैर्नानुलेपनैः ।
अग्नयः पार्थ तुष्यन्ति यथा ह्यतिथिभोजने ॥ ३.२०३.२२ ॥
帕尔塔啊,火神并不像因供养客人而那样,因献祭、鲜花或涂香而如此欢喜。
3.203.23
तस्मात्त्वंसर्वयत्नेन यतस्वातिथिभोजने ॥ ३.२०३.२३ ॥
因此,你应竭尽全力去款待客人。
3.203.24
पादोदकंपादघृतंदीपमन्नं प्रतिश्रयम् ।
प्रयच्छन्ति तु ये राजन्नोपसर्पन्ति ते यमम् ॥ ३.२०३.२४ ॥
凡是奉献洗足之水、足油、灯火、食物与住所的人,国王啊,他们不会走向阎摩。
3.203.25
देवमाल्यापनयनं द्विजोच्छिष्टावमार्जनम् ।
आकल्पपरिचर्या च गात्रसंवाहनानि च।
अत्रैकैकं नृपश्रेष्ठ गोदानाद्व्यतिरिच्यते ॥ ३.२०३.२५ ॥
取下神像的花环,擦拭再生族人的残食,服侍其衣饰,按摩肢体——哦,诸王中最优秀者,这些中的每一项都不及施舍一头母牛。
3.203.26
कपिलायाः प्रदानात्तु मुच्यते नात्र संशयः ।
तस्मादलंकृतां दद्यात्कपिलां तु द्विजातये ॥ ३.२०३.२६ ॥
施舍一头棕色母牛(kapilā)确可解脱,此事无疑。因此应当将装饰好的棕色母牛施予再生族人。
3.203.27
श्रोत्रियाय दरिद्राय गृहस्थायाग्निहोत्रिणे ।
पुत्रदाराभिभूताय तथा ह्यनुपकारिणे ॥ ३.२०३.२७ ॥
给精通吠陀的婆罗门、贫穷者、奉持祭火(agnihotra)的家主、被妻儿所困扰者,以及不报答恩惠的人。
3.203.28
एवंविधेषु दातव्या न समृद्धेषु भारत ।
को गुणो भरतश्रेष्ठ समृद्धेष्वभिवर्जितम् ॥ ३.२०३.२८ ॥
应当把布施给这样的人,而不是给富足者。哦,婆罗多族中最优秀者,给富足者有何功德?那是被禁止的。
3.203.29
एकस्यैका प्रदातव्या न बहूनां कदाचन ।
सा गौर्विक्रयमापन्ना हन्यात्रिपुरुषं कुलम्।
न तारयति दातारं ब्राह्मणं नैव नैव तु ॥ ३.२०३.२९ ॥
应将一头牛施予一人,绝不可施予众人。那头被卖掉的牛会毁灭三代家族;它既不能拯救施主,也不能拯救婆罗门——绝不能。
3.203.30
ब्राह्मणस्य विशुद्धस्य सुवर्णं यः प्रयच्छति ।
सुवर्णानां शतं तेन दत्तं भवति शाश्वतम् ॥ ३.२०३.३० ॥
凡施予清净婆罗门黄金者,即被视为施予了百枚金币;此布施将成为永恒。
3.203.31
अनड्वाहं तु यो दद्याद्बलवन्तं धुरंधरम् ।
स निस्तरति दुर्गाणि स्वर्गलोकं च गच्छति ॥ ३.२०३.३१ ॥
施舍强壮、能负重的牛者,能渡过险难,前往天界。
3.203.32
वसुंधरां तु यो दद्याद्द्विजाय विदुषात्मने ।
दातारं ह्यनुगच्छन्ति सर्वे कामाभिवाञ्छिताः ॥ ३.२०३.३२ ॥
施舍大地予博学的再生婆罗门者,一切所求之物都会随施主而来。
3.203.33
पृच्छन्ति चान्नदातारं वदन्ति पुरुषा भुवि ।
अध्वनि क्षीणगात्राश्च पांसुना चावकुण्ठिताः ॥ ३.२०३.३३ ॥
路上身体消瘦、满身尘土的人,向施食者询问并与他交谈于人间。
3.203.34
तेषामेव श्रमार्तानां यो ह्यन्नं कथयेद्बुधः ।
अन्नदातृसमः सोपि कीर्त्यते नात्र संशयः ॥ ३.२०३.३४ ॥
智者向疲惫者指明何处可得食物,亦被赞为与施食者等同;此无疑问。
3.203.35
तस्मात्त्वं सर्वदानानि हित्वाऽन्नं संप्रयच्छ ह ।
न हीदृशं पुण्यफलं विचित्रामिह विद्यते ॥ ३.२०३.३५ ॥
因此,你应舍弃一切其他布施而施舍食物,因为此处再无如此奇妙的福报果实。
3.203.36
यथाशक्ति च यो दद्यादन्नं विप्रेषु संस्कृतम् ।
स तेन कर्मणाऽऽप्नोति प्रजापतिसलोकताम् ॥ ३.२०३.३६ ॥
若有人依其所能,向婆罗门施舍烹制好的食物,则凭此善行可得生主(Prajāpati)之界。
3.203.37
अन्नमेव विशिष्टं हि तस्मात्परतरं न च ।
अन्नं प्रजापतिश्चोक्तः स च संवत्सरो मतः ॥ ३.२०३.३७ ॥
食物确实最为殊胜,没有比它更高的。食物被称为生主,也被认为是年。
3.203.38
संवत्सरस्तु यज्ञोऽसौ सर्वं यज्ञे प्रतिष्ठितम् ।
तस्मात्सर्वाणि भूतानि स्थावराणि चराणि च ॥ ३.२०३.३८ ॥
那一年即是祭祀,一切都确立于祭祀之中。因此,一切众生,不动的与动的,(都依赖于它)。
3.203.39
तस्मादन्नं विशिष्टं हि सर्वेभ्यइति विश्रुतम् ॥ ३.२०३.३९ ॥
因此,食物被公认为一切之中最为殊胜的。
3.203.40
येषां तटाकानि महोदकानि ।
वाप्यश्चकूपाश्चप्रतिश्रयाश्च।
अन्नस्य दानं मधुरा च वाणी ।
यमस्य ते निर्वचना भवन्ति ॥ ३.२०३.४० ॥
凡拥有广大水域的池塘、阶井、水井和歇息之所,施舍食物、言语温和的人,在阎摩面前无可诘问。
3.203.41
धान्यं श्रमेणार्जितवित्तसंचितं ।
विप्रे सुशीले प्रतियच्छते यः।
वसुंधरा तस्य भवेत्सुतुष्टा ।
धारां वसूनां प्रतिमुञ्चतीव ॥ ३.२०३.४१ ॥
凡将辛劳所得、积蓄的谷物,施给品行良善的婆罗门者,大地对他非常满意,仿佛向他倾泻财富的洪流。
3.203.42
अन्नदाः प्रथमं यान्ति सत्यवाक्यदनन्तरम् ।
अयाचितप्रदाता च समं यान्ति त्रयो जनाः ॥ ३.२०३.४२ ॥
施食者先去,其次是说真话者;而不待请求便布施者——这三种人同样前往。
3.203.43
कौतूहलसमुत्पन्नः पर्यपृच्छद्युधिष्ठिरः ।
मार्कण्डेयं महात्मानं पुनरेव सहानुजः ॥ ३.२०३.४३ ॥
出于好奇,坚战与诸弟再次询问大德摩尔根德耶。
3.203.44
यमलोकस्य चाध्वानमन्तरं मानुषस्य च ।
कीदृशं किंप्रमाणं वा कथं वा तन्महामुने।
तरन्ति पुरुषाश्चैव केनोपायेन शंस मे ॥ ३.२०३.४४ ॥
大仙啊,通往阎摩世界的道路及其与人间的距离如何?其大小几何?世人借何种方法得以渡过?请告诉我。
3.203.45
सर्वगुह्यतनं प्रश्नं पवित्रमृषिसंस्तुतम् ।
कथयिष्यामि ते राजन्धर्मं धर्मभृतांवर ॥ ३.२०३.४५ ॥
大王,持法者中最上者,你的问题是一切秘密中最为秘密、神圣、为仙人所赞叹的;我将为你宣说那法。
3.203.46
षडशीतिसहस्राणि योजनानां नराधिप ।
यमलोकस्य चाध्वानमन्तरं मानुषस्य च ॥ ३.२०३.४६ ॥
人主啊,通往阎摩世界的道路及自人间至彼之间的距离,是八万六千由旬。
3.203.47
आकाशं तदपानीयं घोरं कान्तारदर्शनम् ।
न तत्र वृक्षच्छाया वा पानीनं केतनानि च ॥ ३.२०३.४७ ॥
那条路如虚空般,无水而可怖,形如荒野;那里没有树荫,没有水,也没有居所。
3.203.48
विश्रमेद्यत्र वै श्रान्तः पुरुषोऽध्वनि कर्शितः ।
नीयते यमदूतैस्तु यमस्वाज्ञाकरैर्बलात् ॥ ३.२०३.४८ ॥
疲惫、在路上消瘦的人想要在何处休息,阎摩的使者便在那里遵从阎摩之命,强行将他带走。
3.203.49
नराः स्त्रियस्तथैवान्ये पृथिव्यां जीवसंज्ञिताः ।
ब्रह्मणेभ्यः प्रदानानि नानारूपाणि पार्थिव ॥ ३.२०३.४९ ॥
大地上被称为有情的男人、女人以及其他人,啊国王,向婆罗门布施各种形式的礼物。
3.203.50
हयादीनां प्रकृष्टानि तेऽध्वानं यान्ति वै नराः ।
सन्निवार्यातपं यानति च्छत्रेणैव हि च्छत्रदाः ॥ ३.२०३.५० ॥
施予良马等上好之物的人行走于道路上;施予伞盖的人则带着遮挡日光的伞盖而行。
3.203.51
तृप्ताश्चैवान्नदातारो ह्यतृप्ताश्चाप्यनन्नदाः ।
वस्त्रिणो वस्त्रदा यान्ति अवस्त्रा यान्त्यवस्त्रदाः ॥ ३.२०३.५१ ॥
施予食物者满足而去,不施食物者虽无满足亦去;施予衣物者衣着而去,不施衣物者则赤身而去。
3.203.52
हिरण्यदाः सुखं यान्ति पुरुषास्त्वभ्यलंकृताः ।
भूमिदास्तुसुखं यान्ति सर्वैः कामैः सुतर्पिताः ॥ ३.२०३.५२ ॥
施予黄金者装饰庄严而安乐地前往;施予土地者满足一切愿望,安乐地前往。
3.203.53
यान्ति चैवापरिक्लिष्टा नरा सस्यप्रदावकाः ।
नराः सुखतरं यान्ति विमानेषु गृहप्रदाः ॥ ३.२०३.५३ ॥
施予谷物者无忧无虑、富足地前往;施予房屋者则在天车之中更加安乐地前往。
3.203.54
पानीयदा ह्यतृषिताः प्रहृष्टमनसो नराः ।
पन्थानं द्योतयन्तश्च यान्ति दीपप्रदाः सुखम् ॥ ३.२०३.५४ ॥
施予水者无渴、心喜而去;施予灯者照亮道路,安乐地前往。
3.203.55
गोप्रदास्तु सुखं यान्ति निर्मुक्ताः सर्वपातकैः ।
विमानैर्हंससंयुक्तैर्यान्ति मासोपवासिनः ॥ ३.२०३.५५ ॥
布施牛者免除一切罪业,安乐而往;禁食一月者乘着以天鹅牵引的天车而去。
3.203.56
तथा बर्हिप्रयुक्तैश्च षष्ठरात्रोपवासिनः ।
त्रिरात्रं क्षपते यस्तु एकभक्तेन पाण्डव ॥ ३.२०३.५६ ॥
用吉祥草者、禁食六夜者,亦同样而往;啊,般度之子,凡三夜只进一餐者也是如此。
3.203.57
अन्तरा चैव नाश्नाति तस्य लोका ह्यनामयाः ।
पानीयस्य गुणा दिव्याः प्रेतलोकसुखावहाः ॥ ३.२०३.५७ ॥
中间不食者,其界确实无病;水的神妙功德也能为鬼界带来安乐。
3.203.58
तत्र पुष्पोदका नाम नदी तेषां विधीयते ।
शीतलं सलिलं तत्रपिबन्ति ह्यमृतोपमम् ॥ ३.२०३.५८ ॥
那里为他们设有一条名叫花水(Puṣpodā)的河;他们在那里饮用如甘露般清凉的水。
3.203.59
ये चदृष्कृतकर्माणः पूयं तेषां विधीयते ।
एवं नदी महाराज सर्वकामप्रदा हि सा ॥ ३.२०३.५९ ॥
作恶者则被安排以脓液;如此,大王啊,那条河确实能满足一切愿望。
3.203.60
तस्मात्त्वमपि राजेन्द्र पूजयैनान्यथाविधि ।
अध्वनिं क्षीणगात्रश्च पथि पांशुसमन्वितः ॥ ३.२०३.६० ॥
因此,王中之王啊,你也应当依法敬奉他们——那身体憔悴、被路上尘土覆盖的行路人。
3.203.61
पृच्छते ह्यन्नदातारं गृहमायाति चाशया ।
तं पूजयाथ यत्नेन सोऽतिथिर्ब्राह्यणश्च सः ॥ ३.२०३.६१ ॥
毗摩衍那:对于怀着希望来到施食者家中乞求的人,应当用心尊敬他;他是客人,也是婆罗门。
3.203.62
तं यान्तमनुगच्छन्ति देवाः सर्वे सवासवाः ।
तस्मिन्संपूजिते प्रीता निराशा यान्त्यपूजिते ॥ ३.२०३.६२ ॥
毗摩衍那:他离去时,所有天神与因陀罗一同跟随他;受到尊敬时,他们欢喜;未受尊敬时,他们失望而去。
3.203.63
तस्मात्त्वमपि राजेन्द्र पूजयैनं यथाविधि ।
एतत्ते शतशः प्रोक्तं किं भूयः श्रोतुमिच्छसि ॥ ३.२०३.६३ ॥
毗摩衍那:因此,王中之王啊,你也应当依照法则尊敬他。这话我已对你说过百遍;你还想再听什么?
3.203.64
पुनः पुनरहं श्रोतुं कथां धर्मसमाश्रयाम् ।
पुण्यामिच्छामि धर्मज्ञ कथ्यमानां त्वया विभो ॥ ३.२०३.६४ ॥
坚战:主啊,知法者啊,我想一遍又一遍地听你讲述的这个以法为依归的神圣故事。
3.203.65
धर्मान्तरं प्रति कथां कथ्यमानां मया नृप ।
सर्वपापहरां नित्यं शृणुष्वावहितो मम ॥ ३.२०३.६५ ॥
摩根德亚:国王啊,我正讲述的这个关于法的另一面的故事,总能消除一切罪恶;请专心听我说。
3.203.66
कपिलायां तु दत्तायां यत्फलंज्येष्ठपुष्करे ।
तत्फलंभरतश्रेष्ठ विप्राणां पादधावने ॥ ३.२०३.६६ ॥
摩根德亚:在 Jyeṣṭha-Puṣkara 布施一头 Kapilā 母牛所得的功德,婆罗多之最啊,洗涤婆罗门双足所得的功德也是如此。
3.203.67
द्विजपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी ।
तावत्पुष्करपर्णेन पिबन्ति पितरो जलम् ॥ ३.२०३.६७ ॥
只要大地被洗过婆罗门双足的水所浸润,祖先便透过荷叶饮水。
3.203.68
स्वागतेनाग्नयस्तृप्ता आसनेन शतक्रतुः ।
पितरः पादशौचेन अन्नाद्येन प्रजापतिः ॥ ३.२०३.६८ ॥
圣火以欢迎致意而满足,百祭者(因陀罗)以座位而满足,祖先以洗脚而满足,造物主以食物等而满足。
3.203.69
यावद्वत्सस्य पादौ द्वौ शिरश्चैव प्रदृश्यते ।
तस्मिन्काले प्रदातव्या प्रयतेनान्तरात्मना ॥ ३.२०३.६९ ॥
当牛犊的两只前腿和头部仍可见时,此时应当以克制的内心布施(母牛)。
3.203.70
अन्तरिक्षगतो वत्सो यावद्योन्यां प्रदृश्यते ।
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥ ३.२०३.७० ॥
只要牛犊在产道中可见,仿佛悬于空中,母牛便应被视为大地,直到它不再放出子宫。
3.203.71
यावन्ति तस्यां रोमाणि वत्सस्य च युधिष्ठिर ।
तावद्युगसहस्राणि स्वर्लोके महीयते ॥ ३.२०३.७१ ॥
啊,坚战!她身上与牛犊身上有多少根毛,他便在天界受尊崇多少千个劫。
3.203.72
सुवर्णनासां यः कृत्वा सखुरां कृष्णधेनुकाम् ।
तिलैः प्रच्छादितां दद्यात्सर्वरत्नैरलंकृताम् ॥ ३.२०३.७२ ॥
若有人制作一头鼻子和蹄子皆为金制的黑牛,以芝麻覆盖,以各种宝石装饰,然后布施出去。
3.203.73
प्रतिग्रहं गृहीत्वा यः पुनर्ददति साधवे ।
फलानां फलमश्नाति तदा दत्त्वा च भारत ॥ ३.२०३.७३ ॥
受赠之人若将所得再施予善人,婆罗多之子啊,他因施予而享有果实中的果实。
3.203.74
ससमुद्रगुहा तेन सशैलवनकानना ।
चतुरन्ता भवेद्दत्ता पृथिवी नात्र संशयः ॥ ३.२०३.७४ ॥
他若如此,便等于将四面环海、含有海洋、洞穴、山岳、森林与园林的大地施舍出去,此事毫无疑问。
3.203.75
अन्तर्जानुशयो यस्तु भुञ्जते सक्तभाजनः ।
यो द्विजः शब्दरहितं संयन्तुस्तारणाय वै ॥ ३.२०३.७५ ॥
双生者若蜷膝而卧,从盛有麦粉的器皿中进食,且不发一言,便确实是为了使自我克制者得到救度。
3.203.76
ये पानीयानि ददति तथाऽन्ये ये द्विजातयः ।
जपन्ति संहितां सम्यक्ते नित्यं तारणक्षमाः ॥ ३.२०३.७६ ॥
施水之人,以及其他正确诵念本集的双生者,永远有能力救度他人。
3.203.77
हव्यंकव्यं च यत्किंचित्सर्वं तच्छ्रोत्रियोऽर्हति ।
दत्तं हि श्रोत्रिये साधौज्यलितेऽग्नौ यथा हुतम् ॥ ३.२०३.७७ ॥
凡是作为献祭或祭奠祖先的供物,都应归于有学问的婆罗门;因为施予有学且善良之人,犹如投入熊熊烈火之中的供养。
3.203.78
मन्युप्रहरणा विप्रा न विप्राः शस्त्रयोधिनः ।
निहन्युर्मन्युना विप्रा वज्रपाणिरिवासुरान् ॥ ३.२०३.७८ ॥
婆罗门以愤怒为武器,他们并非手持兵器的战士;如同执金刚的因陀罗击杀阿修罗,婆罗门也能以愤怒诛杀敌人。
3.203.79
धर्माश्रितेयं तु कथा कथिता हि तवानघ ।
यां श्रुत्वा मुनयः प्रीता नैमिषारण्यवासिनः ॥ ३.२०३.७९ ॥
无罪者啊,这个以法为基础的故事已讲给你听;闻之,住在奈弥沙林中的仙人们都欢喜了。
3.203.80
वीतशोकभयक्रोधा विपाप्मानस्तथैव च ।
श्रुत्वेमां तु कथां राजन्भवन्तीह तु मानवाः ॥ ३.२०३.८० ॥
大王啊,听闻此故事的人,在此世即可脱离忧愁、恐惧与愤怒,并且无罪。
3.203.81
किं तच्छौचं भवेद्येन विप्रः शुद्धः सदा भवेत् ।
तदिच्छामि महाप्राज्ञ श्रोतुं धर्मभृतांवर ॥ ३.२०३.८१ ॥
以何种清净,婆罗门才能永远清净?大智者啊,持法者中最优秀的人,我愿闻其详。
3.203.82
वाक्शौचं क्रमशौचं च यच्च शौचं जलात्मकम् ।
त्रिभिः शौचैरुपेतो यः स स्वर्गी नात्र संशयः ॥ ३.२०३.८२ ॥
具备三种清净——言语清净、行为清净与水之清净的人,必升天界,这点毫无疑问。
3.203.83
सायं प्रातश्च संध्यां यो ब्राह्मणोऽभ्युपसेवते ।
प्रजपन्पावनीं देवीं गायत्रीं वेदमातरम् ॥ ३.२०३.८३ ॥
婆罗门每日晨昏勤修晨昏礼,诵念使人清净的女神、吠陀之母——伽耶特里。
3.203.84
स तया पावितो देव्या ब्राह्मणो नष्टकिल्बिषः ।
न सीदेत्प्रतिगृह्णानो महीमपि ससागराम् ॥ ३.२०३.८४ ॥
这位被女神净化、罪业已除的婆罗门,即便接受连同海洋在内的整个大地,也不会沉沦。
3.203.85
ये चास् दारुणा केचिद्ग्रहाः सूर्यादयो दिवि ।
ते चास्य सौम्या जायन्ते शिवाः शिवतराः सदा ॥ ३.२०३.८५ ॥
天空中凡是以太阳为首的可怕星辰,对他而言都永远变得温和而最为吉祥。
3.203.86
सर्वेनानुगतं चैनं दारुणाः पिशिताशनाः ।
घोररूपा महाकाया धर्षयन्ति द्विजोत्तमम् ॥ ३.२०३.८६ ॥
凶残的食肉者,形貌可怖、身躯庞大,都跟随在他身后,侵袭那位最优秀的再生者。
3.203.87
नाध्यापनाद्याजनाद्वा अन्यायाद्वा प्रतिग्रहात् ।
दोषो भवति विप्राणां ज्वलिताग्निससा द्विजाः ॥ ३.२०३.८७ ॥
婆罗门因教授、主持祭祀、或以不义之道、或接受布施而不会有过失;诸位再生者啊,他们如同熊熊燃烧的火。
3.203.88
दुर्वेदा वा सुवेदा वा प्राकृताः संस्कृतास्तथा ।
ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः ॥ ३.२०३.८८ ॥
无论精通或不精通吠陀,粗俗或已受净化,都不可轻视婆罗门;他们如同被灰烬覆盖的火。
3.203.89
यथा श्मशाने दीप्तौजाः पावको नैव दुष्यति ।
एवं विद्वानविद्वान्वा ब्राह्मणो दैवतं महत् ॥ ३.२०३.८९ ॥
如同火葬场中熊熊的火从不被污染,婆罗门无论有学问或没有学问,都是伟大的神明。
3.203.90
प्राकरैश्च पुरद्वारैः प्रासादैश्च पृथग्विधैः ।
नगराणि न शोभन्ते हीनानि ब्राह्मणोत्तमैः ॥ ३.२०३.९० ॥
城市即便有城墙、城门和各式宫殿,若缺少最优秀的婆罗门,也不会显得光彩。
3.203.91
वेदाढ्ञा वृत्संपन्ना ज्ञानवन्तस्तपस्विनः ।
यत्रतिष्न्ति वै विप्रास्तन्नाम नगरं नृप ॥ ३.२०३.९१ ॥
婆罗门精通吠陀、品行端正、有智慧且修苦行,若他们住在某处,哦,国王,那便是那座城市的名称。
3.203.92
व्रजे वाऽप्यथवाऽरण्ये यत्रसन्ति बहुश्रुताः ।
तत्तन्नगरमित्याहुः पार्थ तीर्थं च तद्भवेत् ॥ ३.२०३.९२ ॥
无论在牛栏还是森林中,只要博学之人居住之处,便被称为城市,哦,普利塔之子,那里也成为圣渡口。
3.203.93
रक्षितारं च राजानं ब्राह्मणं च तपस्विनम् ।
अभिगम्याभिपूज्याथ सद्यः पापात्प्रमुच्यते ॥ ३.२०३.९३ ॥
若亲近并敬奉护民的国王与苦修的婆罗门,人便立刻从罪恶中解脱。
3.203.94
पुण्यतीर्थाभिषेकं च पवित्राणां च कीर्तनम् ।
सद्भिः संभाषणं चैव प्रशस्तं कीर्त्यते बुधैः ॥ ३.२०३.९४ ॥
在圣渡口沐浴、颂扬纯洁之人、与善人交谈,智者称之为殊胜。
3.203.95
साधुसङ्गमपूतेन वाक्सुभाषितवारिणा ।
पवित्रीकृतमात्मानं सन्तो मन्न्ति नित्यशः ॥ ३.२०३.९५ ॥
善人总是认为自己已被善人的陪伴与善言之水净化而变得纯洁。
3.203.96
त्रिदण्डधारणं मौनं जटाभारोऽथ मुण्डनम् ।
वल्कलाजिनसंवेष्टं व्रतचर्याऽभिषेचनम् ॥ ३.२०३.९६ ॥
持三杖、缄默、负载髻发、剃头、以树皮与兽皮裹身、践行誓戒以及沐浴礼。
3.203.97
अग्निहोत्रं वने वासः शरीरपरिशोषणम् ।
सर्वाण्येतानि मिथ्या स्युर्यदि भावो न निर्मलः ॥ ३.२०३.९७ ॥
火祭、林中居住、消耗身体——若内心不清净,这一切都是徒劳。
3.203.98
विशुद्धिं चक्षुरादीनां षण्णामिन्द्रियगामिनाम् ।
विकारि तेषां राजेन्द्र सुदुष्करतरं मनः ॥ ३.२०३.९८ ॥
啊,王中之王,净化六根——从眼开始,它们奔向各自的对象——以及它们易变的心,极为困难。
3.203.99
ये पापानि न कुर्वन्ति मनोवाक्कर्मबुद्धिभिः ।
ते तपन्ति महात्मानो न शरीरस्य शोषणम् ॥ ३.२०३.९९ ॥
那些以意、言、行、智不造恶业的大德,他们修苦行,而非消耗身体。
3.203.100
न ज्ञातिभ्यो दया यस्य शुक्लदेहोऽविकल्मषः ।
हिंसा सा तपसस्तस्य नानाशित्वं तपः स्मृतम् ॥ ३.२०३.१०० ॥
对亲族也无怜悯之心者,纵然身体洁白无瑕,他的苦行便是暴力;以种种方式断食,才被称为苦行。
3.203.101
तिष्ठन्गृहे चैव मुनिर्नित्यं शुचिरलंकृतः ।
यावज्जीवं दयावांश् सर्वपापैः प्रमुच्यते ॥ ३.२०३.१०१ ॥
即使居家,贤者也应常保清净、整洁庄严;终生怀有慈悲者,可以脱离一切罪业。
3.203.102
न हि पापानि कर्माणि शुद्ध्यन्त्यनशनादिभिः ।
सीदत्यनशनादेव मांसशोणितलेपनः ॥ ३.२०३.१०२ ॥
罪恶之业不能因禁食等修行而得清净;满身血肉者,只会因断食而消瘦。
3.203.103
अज्ञातं कर्म कृत्वा च क्लेशो नान्यत्प्रहीयते ।
नाग्निर्दहति कर्माणि भावशून्यस्य देहिनः ॥ ३.२०३.१०३ ॥
即使不知不觉地行了业,苦也不会以别的方式消除。火也烧不掉心中无觉知的有身者的业。
3.203.104
पुण्यादेव प्रव्रजन्ति शुध्यन्त्यनशनानि च ।
न मूलफलभक्षित्वान्न मौनान्नानिलाशनात् ॥ ३.२०३.१०४ ॥
人们正是凭借功德而出家,并以断食而得清净;不是靠食根与果,不是靠沉默,也不是靠以风为食。
3.203.105
शिरसो मुण्डनाद्वाऽपि न स्थानकुटिकासनात् ।
न जटाधारणाद्वाऽपिन तु स्थानकुटिकासनात्। ॥ ३.२०३.१०५ ॥
不是剃光头,不是站立或在茅屋中坐定;也不是蓄结发辫,不是站立或在茅屋中坐定。
3.203.106
नित्यं ह्यनशनाद्वाऽपि नाग्निशुश्रूषणादपि ।
न चोदकप्रवेशेन न च क्ष्माशयनादपि ॥ ३.२०३.१०६ ॥
不是常年断食,也不是侍奉火神;不是入水,也不是睡在大地上。
3.203.107
ज्ञानेन कर्मणा वापि जरामरणमेव च ।
व्याधयश्च प्रहीयन्ते प्राप्यते चोत्तमं पदम् ॥ ३.२०३.१०७ ॥
无论以智慧还是以行为,衰老、死亡与疾病都会被舍弃,并且获得至上之境。
3.203.108
बीजानि ह्यग्निदग्धानि न रोहन्ति पुनर्यथा ।
ज्ञानदग्धैस्तधा क्लेशैर्नात्मा संडुज्यते पुनः ॥ ३.२०३.१०८ ॥
如同被火烧过的种子不会再发芽,同样,被智慧烧尽的烦恼也使自我不再被系缚。
3.203.109
आत्मना विप्रहीणानि काष्ठकुण्ठोपमानि च ।
विनश्यन्ति न संदेहः फेनानीव महार्णवे ॥ ३.२०३.१०९ ॥
与自我分离者如同木柴与钝树桩;无疑,他们如同大海中的泡沫一般消亡。
3.203.110
आत्मानं विन्दते येन सर्वभूतगुहाशयम् ।
श्लोकेन यदि वाऽर्धेन क्षीणं तस्य प्रयोजनम् ॥ ३.२०३.११० ॥
若有人借一颂或半颂得以证悟居于一切众生洞穴中的自我,他的目的便已达成。
3.203.111
द्व्यक्षरादभिसंधाय केचिच्छ्लोकपदाङ्कितैः ।
शतैरन्यैः सहस्रैश्च प्रत्ययो मोक्षलक्षणम् ॥ ३.२०३.१११ ॥
有些人以两个音节为目标,借助以颂句标记的数百、数千部其他典籍——这种确信便是解脱的标志。
3.203.112
नायं लोकोस्ति न परो न सुखं संशयात्मनः ।
ऊटुर्ज्ञानविदो वृद्धाः प्रत्ययो मोक्षलक्षणम् ॥ ३.२०३.११२ ॥
对于心怀疑虑的人,既无此世,也无彼世,亦无安乐;知者长老如此宣说。确信才是解脱的标志。
3.203.113
विदितार्थस्तु वेदानां परिवेद प्रयोजनम् ।
उद्विजेत्स तु देवेभ्यो दावाग्नेरिव मानवः ॥ ३.२०३.११३ ॥
通晓吠陀之义、彻底了解其目的的人,即使面对诸神,也会像躲避山林大火一样退避。
3.203.114
शुष्कं तर्कं परित्यज्यआश्रयस्व श्रुतिं स्मृतिम् ।
एकाराभिसंबद्धं तत्त्वं हेतुभिरिच्छसि।
बुद्धिर्न तस्य सिद्ध्येत साधनस्य विपर्ययात् ॥ ३.२०३.११४ ॥
舍弃枯燥的推理,依止天启(श्रुति)与传承(स्मृति)。你想以论证求得与音节“ए”相连的真理;因手段颠倒,智慧无法使其成就。
3.203.115
वेद्यं पूर्वं वेदितव्यं प्रयत्ना-
त्तद्धीर्वेदस्तस्य वेदः शरीरम्।
वेदस्तत्त्वं तत्समासोपलब्धिः ।
क्लीबस्त्वात्मा न स वेद्यं न वेदः ॥ ३.२०३.११५ ॥
首先应当知晓之物,须以努力去知晓。其慧即是吠陀,其吠陀即是身体。吠陀即是真理,是对它的简要领会。然而自我是中性的;它既非应当知晓之物,也非吠陀。
3.203.116
वेदोक्तमायुर्देवानामाशिषश्चैव कर्मणाम् ।
फलत्यनुयुगं लोके प्रभावश्च शरीरिणाम् ॥ ३.२०३.११६ ॥
吠陀所说的诸神寿命与祭仪的祝福,以及业的果报,每一时代都在世间结果;有形众生的威力也是如此。
3.203.117
इन्द्रियाणां प्रसादेन तदेतत्परिवर्जयेत् ।
तस्मादनशनं दिव्यं निरुद्धेन्द्रियगोचरम् ॥ ३.२०३.११७ ॥
借助感官的澄净,应舍弃这一切;因此,制止感官之境的神圣斋戒才是正道。
3.203.118
तपसा स्वर्गगमनं भोगो दानेन जायते ।
ज्ञानेन मोक्षो विज्ञेयस्तीर्थस्नानादघक्षयः ॥ ३.२०३.११८ ॥
以苦行得升天界,以布施得享乐。解脱当以知识而知;以在圣地沐浴,罪业得以消除。
3.203.119
एवमुक्तस्तु राजेन्द्र प्रत्युवाच महायशाः ।
भगवञ्श्रोतुमिच्छामि प्रदानविधिमुत्तमम् ॥ ३.२०३.११९ ॥
如此开示之后,诸王之主啊,那位大名者答道:尊者,我愿听闻最上的布施之法。
3.203.120
यत्तत्पृच्छसि राजेन्द्रदानधर्मं युधिष्ठिर ।
इष्टं चेदं सदा मह्यं राजन्गौरवतस्तथा ॥ ३.२०३.१२० ॥
你所问的布施之法,诸王之主般遮耶罗啊,于我一向珍贵;大王,出于敬重也是如此。
3.203.121
शृणु दानरहस्यानि श्रुतिस्मृत्युदितानि च ।
छायायां करिणः श्राद्धं तत्कर्म परिवीजितम्।
दशकल्पायुतानीह न क्षीयेत युधिष्ठिर ॥ ३.२०३.१२१ ॥
युधिष्ठिर,听那在吠陀与法典中所说的布施秘义。在象影下所行的施礼,以扇风相助的那一善行,在此历经万千劫亦不消减。
3.203.122
जीवनाय समाक्लिन्नं वसु दत्त्वा महीपते ।
विप्रं तु वासयेद्यस्तु सर्वयज्ञैः स इष्टवान् ॥ ३.२०३.१२२ ॥
地上之主啊,为生计施与丰厚财富、安置婆罗门者,便可谓已行一切祭祀。
3.203.123
प्रतिस्रोतश्चित्रवाहाः पर्जन्योऽन्नानुसंचरन् ।
महाधुरि यथा नावा महापापैः प्रमुच्यते।
विषुवे विप्रदत्तानि दधिमध्वक्षयाणि च ॥ ३.२०३.१२३ ॥
如逆流而行的光亮之船能将人渡过大难,随粮食而行的雨云亦能使人脱离大罪。于春分秋分之时施予婆罗门的酪与蜜,永不耗尽。
3.203.124
पर्वसु द्विगुणं दानमृतौ दशगुणं भवेत् ।
अब्दे दशगुणं प्रोक्तमनन्तं विषुवे भवेत् ॥ ३.२०३.१२४ ॥
于月之交替时布施,功德加倍;于季节之中布施,功德十倍。于一年之中布施,称为十倍;于春分秋分时布施,则成无尽之福。
3.203.125
अयने विषुवे चैवषडशीतिमुखेषु च ।
चन्द्रसूर्योपरागे च दत्तमक्षयमुच्यते ॥ ३.२०३.१२५ ॥
于日至、春分秋分,于八十六之交替,及日月蚀之时所施,称为不坏之福。
3.203.126
ऋतुषु दशगुणं वदन्ति दत्तं ।
शतगुणमृत्वयनादिषु ध्रुवम्।
भवति सहस्रगुणं दिनस्य राहो-
र्विषुवति चाक्षयमश्नुते फलम् ॥ ३.२०३.१२६ ॥
人说于季节中所施,福报十倍;于季节、日至等时,必成百倍。白昼罗睺蚀之时及春分秋分所施,则成千倍,获得不坏之果。
3.203.127
नाभूमिदो भूमिमश्नाति राज-
न्नायानदो यानमारुह्य याति।
यान्यान्कामान्ब्राह्मणेभ्यो ददाति ।
तांस्तान्कामाञ्जायमानः स भुङ्क्ते ॥ ३.२०३.१२७ ॥
不施地者,王啊,不得地;不施车者,不乘车而行。凡他布施于婆罗门的种种欲望,他出生之时便享受那些欲望。
3.203.128
अग्नेरपत्यं प्रथमं सुवर्णं ।
भूर्वैष्णवी सूर्यसुताश्च गावः।
लोकाश्त्रयस्तेन भवन्ति दत्ता ।
यः काञ्चनं गाश्च महीं च दद्यात् ॥ ३.२०३.१२८ ॥
黄金是火神的第一个后代;大地属于毗湿奴;牛是太阳之子。谁布施黄金、牛和大地,凭此布施,三界便都被施予了。
3.203.129
परंहि दानान्न बभूव शाश्वतं ।
भव्यं त्रिलोके भवते कुतः पुनः।
तस्मात्प्रधानं परमं हि दानं ।
वदन्ति लोकेषु विशिष्टबुद्धयः ॥ ३.२०३.१२९ ॥
除布施之外,从未有过永恒之物;三界之中又从何处能有更好的呢?因此,智慧超群的人们说,布施是世间最首要、最殊胜的。