Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.206

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.206.1

स एवमुक्तो राजर्षिरुदङ्केनापराजितः ।
उदङ्कं कौरवश्रेष्ठ कृताञ्जलिथाब्रवीत् ॥ ३.२०६.१ ॥

被乌当卡如此询问后,未曾被击败的王仙合掌对俱卢之最优者乌当卡说道。

3.206.2

न हि मे गमनं ब्रह्मन्मोघमेतद्भविष्यति ।
पुत्रो ममायं भगवन्कुवलाश्व इति स्मृतः ॥ ३.२०६.२ ॥

婆罗门啊,我的前往不会徒劳。尊者,这是我的儿子,被称为库伐拉什瓦。

3.206.3

धृतिमान्क्षिप्रकारी च वीर्येणाप्रतिमो भुवि ।
प्रियं च ते सर्वमेतत्करिष्यति न संशयः ॥ ३.२०६.३ ॥

他坚毅而行动迅速,在大地上勇力无双。他必会完成你所珍视的一切,此事无疑。

3.206.4

पुत्रैः परिवृतः सर्वैः शूरैः परिघबाहुभिः ।
हनिष्यति महाबाहुस्तं वै धुन्धुं महाऽसुरम्।
विसर्जयस्व मां ब्रह्मन्न्यस्तशस्त्रोस्मि सांप्रतम् ॥ ३.२०६.४ ॥

被他所有英勇的儿子包围,臂如铁棒,这位大臂者必定会杀死那名大阿修罗敦度。婆罗门啊,现在请放我走;我如今已放下了武器。

3.206.5

तथाऽस्त्विति च तेनोक्तो मुनिनाऽमिततेजसा ।
स तमादिश्य तनयमुदङ्काय महात्मने।
क्रियतामिति राजर्षिर्जगाम वनमुत्तमम् ॥ ३.२०६.५ ॥

无量光辉的仙人如此说后,王仙说:「就这样吧」,将自己的儿子托付给高尚的乌当卡,说道:「愿如此办理」,便前往那殊胜的森林。

3.206.6

क एष भगवन्दैत्यो महावीर्यस्तपोधन ।
कस्य पुत्रोऽथ नप्ता वा एतदिच्छामि वेदितुम् ॥ ३.२०६.६ ॥

尊者,苦行之宝,这位大勇的阿修罗是谁?他是谁的儿子或孙子?我想知道此事。

3.206.7

एवं महाबलो दैत्यो न श्रुतो मे तपोधन ।
यस्य निश्वासवातेन कम्पते भूः सपर्वता ॥ ३.२०६.७ ॥

苦行富有者啊,我从未听说过如此大力的达伊提亚,他的呼吸之风使大地连同山岳颤抖。

3.206.8

एतदिच्छामि भगवन्याथातथ्येन वेदितुम् ।
सर्वमेव महाप्राज्ञ विस्तरेण तपोधन ॥ ३.२०६.८ ॥

尊者啊,我想如实地知道这一切。大智者,苦行富有者啊,请详细地全部讲述。

3.206.9

शृणु राजननिदं सर्वं यथावृत्तं नराधिप ।
कथ्यमानं महाप्राज्ञ विस्तरेण यथातथम् ॥ ३.२०६.९ ॥

国王啊,人主啊,请听这一切如何发生。大智者啊,我将详细而如实地讲述。

3.206.10

एकार्णवे निरालोके नष्टे स्थावरजङ्गमे ।
प्रनष्टेषु च भूतेषु सर्वेषु भरतर्षभ ॥ ३.२०६.१० ॥

在唯一的海洋中,无光之处,不动与动的一切都已毁灭;一切众生都已灭亡,婆罗多中的雄牛啊,

3.206.11

प्रभवं लोककर्तारं विष्णुं शाश्वतमव्ययम् ।
यमाहुर्मुनयः सिद्धाः सर्वलोकमहेश्वरम्।
चतुर्भुजमुदाराङ्गं दृष्टवानस्मि भारत ॥ ३.२०६.११ ॥

我见到了毗湿奴——万物之源,世界的创造者,永恒不灭的,被仙人与成就者称为一切世界的大自在者,四臂、形体高贵,婆罗多啊。

3.206.12

सुष्वाप भगवान्विष्णुरप्शय्यामेक एव हि ।
नागस् भोगे महति शेपस्यामिततेजसः ॥ ३.२०६.१२ ॥

尊贵的毗湿奴独自睡在水的床上,躺在无量光辉的舍沙蛇的大盘绕之上。

3.206.13

लोककर्ता महाभाग भगवानच्युतो हरिः ।
नागभगेन महता परिरभ्य महीमिमाम् ॥ ३.२०६.१३ ॥

创造世界的大福之主阿曲多·哈利,以巨蛇的大盘身环抱着此大地而躺卧。

3.206.14

स्वपतस्तस्य देवस्य पद्मं सूर्यसमप्रभम् ।
नाभ्या विनिःसृतं दिव्यं तत्रोत्पन्नः पितामहः ॥ ३.२०६.१४ ॥

从那熟睡之神的肚脐中升起一朵如太阳般光辉的神圣莲花,祖父(梵天)便在其中诞生。

3.206.15

साक्षाल्लोकगुरुर्ब्रह्मा पद्मे सूर्यसमप्रभः ।
चतुर्वेदश्चतुर्मूर्तिश्चतुर्वर्गश्चतुर्मुखः ॥ ३.२०६.१५ ॥

世界之师梵天本人,光辉如太阳,坐于莲花之上——拥有四吠陀,具四种形相,统摄人生四大目标,有四张面孔。

3.206.16

स्वप्रभावाद्दुराधर्षो महाबलपराक्रमः ।
कस्यचित्त्वथ कालस्य दानवौ वीर्यवत्तमौ ॥ ३.२०६.१६ ॥

梵天凭其自身威力,不可战胜,具有大力与大勇;此后经过一段时间,出现了两位最强大的檀那婆。

3.206.17

मधुश्च कैटभश्चैव दृष्टवन्तौ हरिं प्रभुम् ।
शयानं शयने दिव्ये नागभोगे महाद्युतिम् ॥ ३.२०६.१७ ॥

摩图与凯塔巴也看见了主神哈利,他在神圣的床榻上,躺在巨蛇的盘身之上,光辉大放。

3.206.18

बहुयोजनविस्तीर्णे बहुयोजनमायते ।
किरीटकौस्तुभधरं पीतकौशेयवाससम् ॥ ३.२०६.१८ ॥

(床榻)宽广达许多由旬,长亦有许多由旬;他戴着王冠与考斯图巴宝石,身穿金黄色丝衣。

3.206.19

दीप्यमानं श्रिया राजंस्तेजसा वपुपा तथा ।
सहस्रसूर्यप्रतिममद्भुतोपमदर्शनम् ॥ ३.२०६.१९ ॥

大王啊,他以光辉、威光与身相而闪耀,如千日一般,容貌奇妙。

3.206.20

विस्मय सुमहानासीन्मधुकैटभयोस्तदा ॥ ३.२०६.२० ॥

那时,摩都与凯吒婆大为惊异。

3.206.21

दृष्ट्वा पितामहं चापि पद्मे पद्मनिभेक्षणम् ।
वित्रासयेतामथ तौ ब्रह्माणममितौजसम् ॥ ३.२०६.२१ ॥

见祖父蓮眼坐于蓮花之上,二人便开始惊吓无量威力的梵天。

3.206.22

वित्रास्यमानो बहुधा ब्रह्मा ताभ्यां महायशाः ।
अकम्पयत्पद्मनालं ततोऽबुध्यत केशवः ॥ ३.२०६.२२ ॥

梵天被二人多方惊扰,大名远扬的他摇动了蓮莖;于是克舍婆觉醒了。

3.206.23

अथापश्त गोविन्दो दानवौ वीर्यवत्तरौ ॥ ३.२०६.२३ ॥

于是,瞿频陀看见了那两位威力极大的檀那婆。

3.206.24

दृष्ट्वा तावब्रवीद्देवः स्वागतं वां महाबलौ ।
ददामि वां वरं श्रेष्ठं रप्रीतिर्हि मम जायते ॥ ३.२०६.२४ ॥

神看见二人,说道:「二位大力者,欢迎你们。我将赐予你们二人殊胜的恩惠,因为我心中生起了喜悦。」

3.206.25

तौ प्रहस्य हृषीकेशं महादर्पौ महाबलौ ।
प्रत्यब्रूतां महाराज सहितौ मधुसूदनम् ॥ ३.२०६.२५ ॥

大王啊,那两位大傲慢、大力量者笑着,一同回答了摩图苏陀那(黑天)。

3.206.26

आवां वरय देव त्वं वरदौ स्वः सुरोत्तम ।
दातारौ स्वो वरं तुभ्यं तद्ब्रवीह्यविचारयन् ॥ ३.२०६.२६ ॥

天神啊,你向我们求一个恩赐吧;诸神中最优秀者,我们两人都是赐予恩赐的人。我们将赐予你恩赐,毫不犹豫地说出来吧。

3.206.27

भगवानुवाच ।
प्रतिगृह्णे वरं वीरावीप्सितश्च वरो मम।
युवां हि वीर्यसंपन्नौ न वामस्ति समः पुमान् ॥ ३.२०६.२७ ॥

世尊说:英雄们啊,我接受这恩赐;这正是我所希望的恩赐。你们二人都具备勇力,没有人能与你们相比。

3.206.28

वध्यत्वमुपगच्छेतां मम सत्यपराक्रमौ ।
एतदिच्छाम्यहं कामं प्राप्तुं लोकहिताय वै ॥ ३.२०६.२८ ॥

真正勇猛的二位啊,愿你们成为被我所杀的对象。这正是我所愿;我想为世界的福祉而实现它。

3.206.29

मधुकैटभावूचतुः ।
अनृतंनोक्तपूर्वं नौ स्वैरेष्वपि कुतोऽन्यथा।
सत्ये धर्मे च निरतौ विद्ध्यावां पुरुषोत्तम ॥ ३.२०६.२९ ॥

摩豆与凯塔巴说:我们以前从未说过谎话,即使是玩笑也没有;怎会有别的情形呢?人中至尊啊,请知道我们二人都专注于真理与法。

3.206.30

बले रूपे च शौर्ये च शमे न च समोस्ति नौ ।
धर्मे तपसि दाने च शीलसत्वदमेषु च ॥ ३.२०६.३० ॥

在力量、容貌、勇武与寂静中,没有人能与我们相比;在法、苦行与布施中,以及在品行、善性与自制中,也是如此。

3.206.31

उपप्लवो महानस्मानुपावर्तत केशव ।
उक्तं प्रतिकुरुष्व त्वं कालो हि दुरतिक्रमः ॥ ३.२०६.३१ ॥

克舍婆啊,巨大的灾祸已降临到我们身上。请按照所说的去应对,因为时间难以超越。

3.206.32

आवामिच्छावहे देव कृतमेकं त्वया विभो ।
अनावृतेऽवकाशे त्वं जह्यावां सुरसत्तम ॥ ३.२०६.३२ ॥

神啊,我们二人愿望一事;威力者啊,请为我们做一件事。诸神中最优者啊,请在一处无遮无掩的开阔之地,留下我们二人。

3.206.33

पुत्रत्वमधिगच्छाव तव चापि सुलोचन ।
वर एष वृतोदेव तद्विद्धि सुरसत्तम ॥ ३.२०६.३३ ॥

美目者啊,愿我们二人也获得你的子嗣之位。神啊,这便是我们所选的恩赐,请知晓,诸神中最优者啊。

3.206.34

अनृतं मा भवेद्देव यद्धि नौ संश्रुतं तदा ॥ ३.२०६.३४ ॥

神啊,当时许给我们二人的承诺,愿它不会成为虚言。

3.206.35

भगवानुवाच ।
बाढमेवं करिष्यामि सर्वमेतद्भविष्यति ॥ ३.२०६.३५ ॥

世尊说:好吧,我便如此去做;这一切都将会发生。

3.206.36

सविचिन्त्याथ गोविन्दो नापश्यद्यदनावृतम् ।
अवकाशंपृथिव्यां वा दिवि वा मधुसूदनः ॥ ३.२०६.३६ ॥

克利须那(哥文达)仔细思量后,在大地或天界都未见到一处无遮无掩的开阔之地;摩豆苏陀那也未找到。

3.206.37

स्वकावनावृतावूरू दृष्ट्वा देववरस्तदा ।
मधुकैटभयो राजञ्शिरसी मधुसूदनः।
चक्रेण शितधारेण न्यकृन्तत महायशाः ॥ ३.२०६.३७ ॥

最优秀的天神、大名鼎鼎的摩豆苏陀那看见自己裸露的双腿,于是,大王啊,用锋利的轮宝斩下了摩度与凯塔巴的两颗头颅。