Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.208

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.208.1

ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम् ।
प्रपच्छ भरतश्रेष्ठ धर्मप्रश्नं स दुर्वचम् ॥ ३.२०८.१ ॥

那时,国王坚战向光辉灿烂的摩尔根德耶发问,他是婆罗多族中最优秀的人,提出了一个难以回答的法义问题。

3.208.2

श्रोतुमिच्छामि भगवन्स्त्रीणां माहातम्यमुत्तमम् ।
कथ्यमानं त्वया विप्र सूक्ष्मं धर्म्यं च तत्त्वतः ॥ ३.२०८.२ ॥

尊者啊,我想听闻女子至高的殊胜,婆罗门啊,请如实讲述您所说的那微妙而合乎法的道理。

3.208.3

प्रत्यक्षमिह विप्रर्षे देवा दृश्यन्ति सत्तम ।
सूर्याचन्द्रमसौ वायुः पृथिवी वह्निरेव च ॥ ३.२०८.३ ॥

婆罗门仙人啊,善人中最优秀者,此处诸神可以直接看见:太阳与月亮、风、大地,以及火。

3.208.4

पिता माता च भगवान्गाव एव च सत्तम ।
यच्चान्यदेव विहितं तच्चापि भृगुनन्दन ॥ ३.२०८.४ ॥

善人中最优秀者啊,父亲与母亲,尊贵的牛,以及其他所规定的事,也都如此,婆利古之子啊。

3.208.5

मन्येऽहं गुरुवत्सर्वमेकपत्न्यस्तथा स्त्रियः ।
पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे।
पतिव्रतानां महात्म्यं वक्तुमर्हसि नः प्रभो ॥ ३.२०८.५ ॥

我认为一夫一妻的女子在各方面都如同师长,侍奉忠贞妻子之事在我看来是困难的。主啊,请您为我们讲述忠贞之妻的殊胜。

3.208.6

निरुध्य चेन्द्रियग्रामं मनः संरुध्य चानघ ।
पतिं दैवतवच्चापि चिन्तयन्त्य स्थिता हि या ॥ ३.२०८.६ ॥

无罪之人啊,那些收束诸根、制伏其心,将丈夫如神明一般思念而安住的女子。

3.208.7

भगवन्दुष्करं त्वेतत्प्रतिभाति मम प्रभो ।
मातापित्रोश्च शुश्रूषा स्त्रीणां भर्तरि च द्विज ॥ ३.२०८.७ ॥

尊者啊,主啊,再生者啊,这对我来说似乎很难:侍奉父母,以及女人侍奉丈夫。

3.208.8

स्त्रीणां धर्मात्सुघोराद्धि नान्यं पश्यामि दुष्करम् ।
साध्वाचाराः स्त्रियो ब्र्हमन्कुर्वन्तीह सदादृताः ॥ ३.२०८.८ ॥

我看不到比女人那极其严酷的职责更难的别的事情。婆罗门啊,这里品行端正、始终受尊敬的女子们履行着它。

3.208.9

दुष्करं खलु कुर्वन्ति पितरो मातरश्च वै ।
एकपत्न्यश्च या नार्यो याश् सत्यं वदन्त्युत ॥ ३.२०८.९ ॥

父亲和母亲确实做着艰难的事,那些只忠于一位丈夫、说实话的女子也是如此。

3.208.10

कुक्षिणा दशमासांश्च गर्भं संधारयन्ति याः ।
नार्यः कालेन संबूय किमद्भुततरं ततः ॥ ३.२०८.१० ॥

还有什么比那些在腹中怀胎十个月、时候到了便生育的女子更奇妙的呢?

3.208.11

संशयं परमं प्राप्य वेदनामतुलामपि ।
प्रजायन्ते सुतान्नार्यो दुःखेन महता विभो ॥ ३.२०८.११ ॥

女子经历极大的危险和无与伦比的痛苦,才伴着巨大的苦楚生下孩子,啊,大能者。

3.208.12

पुष्णन्ति चापि महता स्नेहेन द्विजपुङ्गव ।
चिन्तयन्ति ततश्चापि किंशीलोऽयंभविष्यति ॥ ३.२०८.१२ ॥

再生者中的最优者啊,她们以极大的慈爱抚育它,然后思量这孩子将会是怎样的品性。

3.208.13

याश्च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः ।
स्वकर्म कुर्वन्ति सदा दुष्करं तच्च मे मतम् ॥ ३.२०८.१३ ॥

那些生活在残酷之人中间、遭人鄙视,却始终履行自身职责的人,在我看来,这是困难的。

3.208.14

क्षत्रधर्मसमाचारतत्त्वं व्याख्याहि मे द्विज ।
धर्मः सुदुर्लभो विप्र नृशंसेन महात्मना ॥ ३.२०८.१४ ॥

再生者啊,请向我阐明刹帝利职责行为的真谛。婆罗门啊,对于虽然伟大却残忍之人,正法极难获得。

3.208.15

एतदिच्छामि भगवन्प्रश्नं प्रश्नविदांवर ।
श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत ॥ ३.२०८.१५ ॥

尊者啊,我想听闻此问。问题智者中的最上者啊,婆利古族之最胜者啊,持善愿者啊,我愿侍奉您而恭听。

3.208.16

हन्त तेऽहं समाख्यास्ये प्रश्नमेतं सुदुर्वचम् ।
तत्त्वेन भरतश्रेष्ठ गदतस्तन्निबोध मे ॥ ३.२०८.१६ ॥

好吧,我将如实为你详细阐明这个极难回答的问题。婆罗多之最胜者啊,请听我言说。

3.208.17

मातरंश्रेयसीं तात पितृनन्ये तु मेनिरे ।
दुष्करं कुरुते माता विवर्धयति या प्रजाः ॥ ३.२०८.१७ ॥

亲爱的孩子,有人认为母亲比父亲更为尊贵。母亲所做之事艰难,因为她养育子女。

3.208.18

तपसा देवतेज्याभिर्वन्दनेन तितिक्षया ।
सुप्रशस्तैरुपायैश्चापीहन्ते पितरः सुतान् ॥ ३.२०८.१८ ॥

以苦行、祭祀诸神、礼敬与忍耐,以及最值得称赞的方法,父亲们也力求得到儿子。

3.208.19

एवं कृच्छ्रेण महता पुत्रं प्राप्य सुदुर्लभम् ।
चिन्तयन्ति सदा वीर कीदृशोऽयं भविष्यति ॥ ३.२०८.१९ ॥

如此,他们历经艰难才得到这难得的儿子,总是思虑:英雄啊,他将会是怎样的人呢?

3.208.20

आशंसते हि पुत्रेषु पिता माता च भारत ।
यशः कीर्तिमथैश्वर्यं तेजो धर्मं तथैव च ॥ ३.२०८.२० ॥

婆罗多啊,父母对儿子寄望名声、荣誉、权力、光辉与法。

3.208.21

मातुः पितुश्च राजेन्द्र सततं हितकारिंणोः ।
तयोराशां तु सफलां यः करोति स धर्मवित् ॥ ३.२०८.२१ ॥

君王之王啊,能使始终善待自己的父母之望得以成就者,便是知法之人。

3.208.22

पिता माता च राजेन्द्र तुष्यतो यस् नित्यशः ।
इह प्रेत्य च तस्याथ कीर्तिर्धर्मश्र शाश्वतः ॥ ३.२०८.२२ ॥

君王之王啊,常使父母欢喜者,今生与来世都将获得名声与永恒的法。

3.208.23

नैव यज्ञक्रियाः काश्चिन्न श्राद्धं नोपवासकम् ।
या तु भर्तरि शुश्रूषा तया स्वर्गं जयत्युत ॥ ३.२०८.२३ ॥

无论祭祀之仪、祖先之供,还是斋戒,都不如侍奉丈夫,凭此确实能赢得天界。

3.208.24

एतत्प्रकरणं राजन्नधिकृत्य युधिष्ठिर ।
पतिव्रतानां नियतं धर्मं चावाहितः शृणु ॥ ३.२०८.२४ ॥

युधिष्ठिर王啊,关于此事,请专心听取贞节妻子的恒定之法。