摩诃婆罗多 · 章 3.21
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.21.1
एवं स पुरुषव्याघ्रः साल्वो राज्ञं महारिपुः ।
युध्यमानो मया सङ्ख्ये वियदभ्यगमत्पुनः ॥ ३.२१.१ ॥
于是人中之虎、诸王的大敌沙尔瓦,与我在战斗中交锋后,又飞往天空而去。
3.21.2
ततः शतघ्नीश्च महागदाश्च ।
दीप्ताश्च शूलान्मुसलानसींश्च।
चिक्षेप रोषान्मयि मन्दबुद्धिः ।
साल्वो महाराज जयाभिकाङ्क्षी ॥ ३.२१.२ ॥
于是心智愚钝的沙尔瓦,大王啊,渴望胜利,愤怒地向我投掷了百杀器、巨大的铁棒、炽热的长矛、木杵与刀剑。
3.21.3
तानाशुगैरापततोऽहमाशु ।
निवार्य तूर्णं खगमान्ख एव।
द्विधा त्रिता चाच्छिनमाशु मुक्तै-
स्ततोऽन्तरिक्षे निनदो बभूव ॥ ३.२१.३ ॥
它们向我扑来时,我以迅捷的箭迅速将其挡住,并在空中当即把它们斩成两段、三段;于是天空中响起了轰鸣。
3.21.4
ततः शतसहस्रेण शराणां नतपर्वणाम् ।
दारुकं वाजिनश्चैव रथं च समवाकिरत् ॥ ३.२१.४ ॥
随后,他以十万支节部弯曲的箭,将达鲁卡、马匹和战车全部覆盖。
3.21.5
ततो मामब्रवीद्वीर दारुको विह्वलन्निव ।
स्थातव्यमिति तिष्ठामि साल्वबाणप्रपीडितः।
अवस्थातुं न शक्नोमि अङ्गं मे व्यवसीदति ॥ ३.२१.५ ॥
于是,英雄啊,达鲁卡仿佛惊慌地对我说:“必须站稳。”于是我站着,被沙尔瓦的箭所折磨;但我无法站稳,我的身体在倒下。
3.21.6
इति तस्य निशम्याहं सारथेः करुणं वचः ।
अवेक्षमाणो यन्तारमपश्यं शरपीडितम् ॥ ३.२१.६ ॥
听到那位御者的悲切之言,我环顾四周,看见御者被箭所折磨。
3.21.7
न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये ।
अन्तरं पाण्डवश्रेष्ठ पश्याम्यनिचितं शरैः ॥ ३.२१.७ ॥
般度之子中最优秀者啊,我看不到他的胸膛、头部、身体或双臂上有哪一处没有被箭覆盖。
3.21.8
स तु बाणवरोत्पीडाद्विस्रवत्यसृगुल्बणम् ।
अभिवृष्टो यथा मेघैर्गिरिर्गैरिकधातुमान् ॥ ३.२१.८ ॥
在箭的巨大压迫下,他大量流血,如同富含赭石的山峰被云雨浇灌。
3.21.9
अभीशुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे ।
अस्तम्भयं महाबाहो साल्वबाणप्रपीडितम् ॥ ३.२१.९ ॥
大臂者啊,我见那御者手持缰绳,在战场上力竭欲倒,被沙利瓦的箭所折磨,于是我扶住了他。
3.21.10
अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत् ।
त्वरितो रथमारोप्य सौहृदादिव भारत ॥ ३.२१.१० ॥
这时,一位住在多瓦拉卡的人对我说:婆罗多啊,出于友情,快速登上战车吧。
3.21.11
आहुकस्य वचो वीर तस्यैव परिचारकः ।
विषण्णः सन्नकण्ठेन तन्निबोध युधिष्ठिर ॥ ३.२१.११ ॥
英雄啊,我传达阿呼迦的话;作为他的侍从,心中悲伤,哽咽难言——般若之子啊,请听。
3.21.12
द्वारकाधिपतिर्वीर आह त्वामाहुको वचः ।
केशवैहि विजानीष्व यत्त्वां पितृसखोऽब्रवीत् ॥ ३.२१.१२ ॥
多瓦拉卡之主、英雄阿呼迦对你说了这些话:来吧,羯舍婆,明白你父亲的朋友对你说了什么。
3.21.13
उपयात्वा तु साल्वेन द्वारकां वृष्णिनन्दन ।
विषक्ते त्वयि दुर्धर्ष इतः शूरसुतो बलात् ॥ ३.२१.१३ ॥
维瑞尼之喜,沙尔瓦进攻了德瓦拉卡。难以战胜者啊,你在此忙碌之时,舒罗之子已被强行从此处带走。
3.21.14
तदलं साधुयुद्धेन निवर्तस्व जनार्दन ।
द्वारकामेव रक्षस्व कार्यमेतन्महत्तव ॥ ३.२१.१४ ॥
够了这场正当的战斗吧——回去吧,阇那陀那。请守护德瓦拉卡本身,这是你的大责任。
3.21.15
इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः ।
निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य च ॥ ३.२१.१५ ॥
听了他的这些话,我心中极为烦乱,既找不到该做之事的决断,也找不到另一件事的决断。
3.21.16
सात्यकिं बलदेवं च प्रद्युम्नं च महांरथम् ।
जगर्हे मनसा वीर तच्छ्रुत्वा महदप्रियम् ॥ ३.२१.१६ ॥
英雄啊,听到这桩大的不幸消息,我心中责备了萨提亚基、巴拉罗摩以及大车手普拉荡姆那。
3.21.17
अहं हि द्वारकायाश्च पितुश्च कुरुनन्दन ।
तेषु रक्षां समाधाय प्रयातः सौभयातने ॥ ३.२१.१७ ॥
库鲁之喜,我把德瓦拉卡和父亲的守护托付给他们,便动身前往对抗索婆的征战。
3.21.18
बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहा ।
सात्यकी रौक्मिणेयश्च चारुदेष्णश्च वीर्यवान्।
साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः ॥ ३.२१.१८ ॥
大臂的巴拉罗摩,那杀敌者,还活着吗?萨提亚基、罗克密尼之子、勇武的遮卢提沙,以及萨姆巴等人,是否还活着?怀着这份忧虑,我心中极为烦乱。
3.21.19
एतेषु हि नरव्याघ्र जीवत्सु न कथंचन ।
शक्यः शूरसुतो हन्तुमपि वज्रभृता स्वयम् ॥ ३.२१.१९ ॥
人中之虎啊,只要他们尚在人世,shūra之子无论如何也不可能被杀,即便是持金刚杵者亲自出手也不行。
3.21.20
हतः शूरसुतो व्यक्तं व्यक्तं चैते परासवः ।
बलदेवमुखाः सर्व इति मे निश्चिता मतिः ॥ ३.२१.२० ॥
shūra之子无疑已被杀,以Balarāma为首的这些人也无疑都已失去生命——这是我坚定的看法。
3.21.21
सोहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुः ।
अविह्वलो महाराज पुनः साल्वमयोधयम् ॥ ३.२१.२१ ॥
大王啊,我虽然一再思量那全面的毁灭,仍然镇定不乱,又去与Sālva交战。
3.21.22
तदोऽपश्यं महाराज प्रपतन्तमहं तदा ।
सौभाच्छूरसुतं वीर ततो मां मोह आविशत् ॥ ३.२१.२२ ॥
大王啊,那时我看见shūra之子从Saubha坠落,英雄啊;于是迷惑便侵入了我。
3.21.23
तस्य रूपं प्रपततः पितुर्मम नराधिप ।
ययातेः क्षीणपुण्यस्य स्वर्गादिव भहीतलम् ॥ ३.२१.२३ ॥
人主啊,他坠落时的形象是我父亲的,就像功德耗尽的Yayāti从天堂坠落到大地。
3.21.24
विशीर्णमलिनोष्णीपप्रकीर्णाम्बरमूर्धजः ।
प्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः ॥ ३.२१.२४ ॥
他的头巾散乱,衣衫污秽凌乱,头发披散,人们看见他坠落,就像功德耗尽的星辰坠落。
3.21.25
ततः शार्ङ्गं धनुःश्रेष्ठं करात्प्रपतितं मम ।
मोहापन्नश्च कौन्तेय रथोपस्थ उपाविशम् ॥ ३.२१.२५ ॥
此时,我手中最好的弓——沙尔嘎弓——掉落了;俱卢之子啊,我被迷惑所笼罩,便坐在战车的底板上。
3.21.26
ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम् ।
मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत ॥ ३.२१.२६ ॥
此时,我的全军见我坐在车座上,仿佛已经气绝,便哀号不已,纷纷失去知觉,婆罗多之子啊。
3.21.27
प्रसार्य बाहू पततः प्रसार्य चरणावपि ।
रूपं पितुर्मे विबभौ शकुने- पततो यथा ॥ ३.२१.२७ ॥
我父亲的形象,双臂伸展、双脚也伸展地坠落,闪耀着如同坠落之鸟的光辉。
3.21.28
तं पतन्तं महाबाहो शूलपट्टसपाणयः ।
अभिघ्नन्तो भृशं वीर मम चोतोह्यकम्पयन् ॥ ३.२१.२८ ॥
他们手持长矛与刀剑,猛烈地击打坠落的我——啊,臂力强大者——使我的肢体颤抖,啊,英雄。
3.21.29
ततो मुहूर्तात्प्रतिलभ्य संज्ञा-
महं तदा वीर महाविमर्दे।
न तत्रसौमं न रिपुं च साल्वं ।
पश्यामि वृद्धं पितरं न चापि ॥ ३.२१.२९ ॥
随后,过了一会儿我恢复了知觉。啊,英雄,在那场大混战之中,我既没有看到那里的沙摩耶,也没有看到敌人萨尔瓦,甚至没有看到我年迈的父亲。
3.21.30
ततो ममासीन्मनसि मायेयमिति निश्चितम् ।
प्रबुद्धोस्मि ततो भूयः शतशो वाऽकिरं शरान् ॥ ३.२१.३० ॥
于是我心中确定这是幻术。我醒悟过来,又一次射出了成百上千支箭。