Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 3.212

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

3.212.1

स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर ।
यदहं ह्याचरे कर्म घोरमेतदसंशयम् ॥ ३.२१२.१ ॥

するとダルマヴィャーダは、そのバラモンに言った。ユディシュティラよ、私は確かにこの恐ろしい行為を行っているのだ、疑いなく。

3.212.2

विधिस्तु बलवान्ब्रह्मन्दुस्तरं हि पुरा कृतम् ।
पुरा कृतस् पापस्य कर्मदोषो भवत्ययम् ॥ ३.२१२.२ ॥

運命は強力である、バラモンよ。以前になされた行為は克服しがたい。以前に犯した罪から、この行為の過失が生じるのだ。

3.212.3

दोपस्यैतस्य वै ब्रह्मन्विघाते यत्नवानहम् ।
विधिना हि हते पूर्वं निमित्तं घातको भवेत् ॥ ३.२१२.३ ॥

バラモンよ、私はこの過失を除くよう努めている。しかし運命によって既に殺されていれば、殺す者は単なる原因となるのだ。

3.212.4

निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम ॥ ३.२१२.४ ॥

二度生まれた者の中で最も優れた方よ、我々はこの行為の手段となるのだ。

3.212.5

येषां हतानां मांसानि विक्रीणीमो वयं द्विज ।
तेषामपि भवेद्धर्म उपयोगेन भक्षणात्।
देवतातिथिभृत्यानां पितृणां चापि पूजनात् ॥ ३.२१२.५ ॥

再生者よ、我々が売る殺された者たちの肉も、その使用と食べることにより、また神々・客人・使用人・祖先を敬うことによっても、功徳をもたらすのです。

3.212.6

ओषध्यो वीरुधश्चैव पशवो मृगपक्षिणः ।
अन्नाद्यभूता लोकस्य इत्यपि श्रूयते श्रुतिः ॥ ३.२१२.६ ॥

薬草、蔓草、家畜、鹿や鳥は世界の食物である。このことは聖典(シュルティ)にも聞かれるのだ。

3.212.7

आत्ममांसप्रसादेन शिबिरौशीनरो नृपः ।
स्वर्गं सुदुर्लभं प्राप्तः क्षमावान्द्विजसत्तम ॥ ३.२१२.७ ॥

自らの肉を施した恩寵によって、ウシーナラの子であるシビ王は、得難い天界に至った。ドヴィジャの最勝者よ、彼は忍耐強かった。

3.212.8

राज्ञो महानसे पूर्वं रन्तिदेवस्य वै द्विज ।
द्वे सहस्रे तु पच्छेते पशूनामन्वहं तदा।
अहन्यहनि पच्येते द्वे सहस्रे गवां तथा ॥ ३.२१२.८ ॥

ドヴィジャよ、昔、王ランティデーヴァの大厨房では、その時、毎日二千頭の家畜が煮られた。同様に、日ごとに二千頭の牛も煮られた。

3.212.9

स मासं ददतो ह्यन्नं रन्तिदेवस्य नित्यशः ।
अतुला कीर्तिरभवन्नृपस्य द्विजसत्तम ॥ ३.२१२.९ ॥

王ランティデーヴァが一か月の間、毎日食を施し続けると、その比類ない名声が広まった。ドヴィジャの最勝者よ。

3.212.10

चातुर्मास्ये च पशवो वध्यन्त इति नित्यशः ।
अग्नयो मांसकामाश्चइत्यपि श्रूयते श्रुतिः ॥ ३.२१२.१० ॥

チャートゥルマースヤの儀礼では、家畜が定期的に殺される。また、火は肉を欲する、というシュルティも聞かれる。

3.212.11

यज्ञेषु पशवो ब्रह्मन्वध्यन्ते सततं द्विजैः ।
संस्कृताः किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन् ॥ ३.२१२.११ ॥

ブラーフマナよ、供犠では家畜がドヴィジャによって絶えず殺される。マントラによって清められ、それらもまた天界を得る。

3.212.12

यदि नैवाग्नयो ब्रह्मन्मांसकामाऽभवन्पुरा ।
भक्ष्यं नैवाभवन्मांसं कस्यचिद्द्विजसत्तम ॥ ३.२१२.१२ ॥

ブラーフマナよ、昔、火が肉を欲しなかったなら、ドヴィジャの最勝者よ、肉は誰にとっても食べ物ではなかったであろう。

3.212.13

अत्रापि विधिरुक्तश् मुनिभिर्मांसभक्षणे ॥ ३.२१२.१३ ॥

ここでも聖仙たちが肉食についての規定を説いている。

3.212.14

देवतानां पितृणां च शुङ्क्ते दत्त्वाऽपियः सदा ।
यथाविधि यथाश्रद्धं न स दुष्येत भक्षणात् ॥ ३.२१२.१४ ॥

神々と祖霊に供え、規定どおりと信仰をもって常に食べる者は、食べることによって汚されることはない。

3.212.15

अमांसाशी भवत्येवमित्यपि श्रूयते श्रुतिः ।
भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः ॥ ३.२१२.१५ ॥

聖典にもこう聞かれる。肉を食べない者となる。月経の時期に妻のもとへ行く者は、梵行者であり婆羅門である。

3.212.16

सत्यानृते विनिश्चित्य अत्रापि विधिरुच्यते ।
सौदासेन तदा राज्ञा मानुषा भक्षिता द्विज।
शापाभिभूतेन भृशमत्र किं प्रतिभाति ते ॥ ३.२१२.१६ ॥

真偽を見極めた上で、ここでも規定が説かれる。再生者よ、そのとき、サウダーサ王は呪いに深く覆われ、人間たちを食らった。これについてどう思うか。

3.212.17

स्वधर्म इतिकृत्वा तु न त्यजामि द्विजोत्तम ।
पुरा कृतमिति ज्ञात्वा रजीवाम्येतेन कर्मणा ॥ ३.२१२.१७ ॥

再生者の中で最も優れた者よ、これは自分の本分だと考えて、私はそれを捨てない。以前から行われてきたと知って、私はこの行いによって生きている。

3.212.18

स्वधर्मं त्यजतो ब्रह्मन्नधर्म इह दृश्यते ।
स्वकर्मनिरतो यस्तु धर्मः स इति निश्चयः ॥ ३.२१२.१८ ॥

ブラーマナよ、自分の本分を捨てる者には、ここに不法が見られる。自らの行いに専心する者こそ法である、これは確かなことだ。

3.212.19

कुले हि विहितं कर्म देही तं न विमुञ्चति ।
धात्रा विधिरयं दृष्टो बहुधा कर्मनिर्मये ॥ ३.२१२.१९ ॥

家に定められた行為を、身をもつ者は捨てない。創造主は行為の創造においてこの定めを多くの仕方で見た。

3.212.20

द्रष्टव्यस्तु भवेद्ब्रह्मन्धर्मो धर्मविनिश्चये ।
कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात् ॥ ३.२१२.२० ॥

バラモンよ、法を定めるにあたっては法そのものを見るべきである。私はどうすれば善い行為をなし、屈辱から逃れられるのか。

3.212.21

कर्मणस्तस्य घोरस् वसुधा निर्णयो भवेत् ।
दाने च सत्यवाक्ये च गुरुशुश्रूणे तथा।
द्विजातिपूजने चाहं धर्मे च निरतः सदा ॥ ३.२१२.२१ ॥

その恐ろしい行為の判定は大地の上で下されよ。布施において、真実の言葉において、師への奉仕において、再生者を敬うことにおいて、私は常に法に専念してきた。

3.212.22

अतिमानातिवादाभ्यां निवृत्तोस्मि द्विजोत्तम ।
कृषिं साध्वीति मन्यन्ते तत्र हिंसा परा स्मृता ॥ ३.२१२.२२ ॥

再生者の中の最上者よ、私は過度の慢心と過度の言葉から離れた。農耕は善いものと見なされるが、そこには大きな殺生があると説かれている。

3.212.23

कर्षन्तो लाङ्गलैरुर्वीं घ्नन्ति भूमिशयान्बहून् ।
जीवानन्यांश्च बहुशस्तत्रकिं प्रतिभाति ते ॥ ३.२१२.२३ ॥

鋤で大地を耕すとき、彼らは地に住む多くの生き物や他の生命を様々に殺す。これはあなたにどう思われるか。

3.212.24

धान्यबीजानि यान्याहुर्व्रीह्यादीनि द्विजोत्तम ।
सर्वाण्येतानि जीवा हि तत्र किं प्रतिभाति ते ॥ ३.२१२.२४ ॥

再生者の中の最上者よ、稲などと呼ばれる穀物の種子は、すべてまさに生き物である。これはあなたにどう思われるか。

3.212.25

अध्याक्रम् पशूंश्चापि घ्नन्ति वै भक्षयन्ति च ।
वृक्षांस्तथौषधीश्चापि छिन्दन्ति पुरुषा द्विज ॥ ३.२१२.२५ ॥

人は動物を踏みつけて殺し、食べ、また木や薬草も切り倒す、ああ再生者よ。

3.212.26

जीवा हि बहवो ब्रह्मन्वृक्षेषु च फलेषु च ।
उदके बहवश्चापि तत्रकिं प्रतिभाति ते ॥ ३.२१२.२६ ॥

バラモンよ、木にも実にも、また水にも多くの生き物がいる。それについてあなたはどう思うか。

3.212.27

सर्वं व्याप्तमिदं ब्रह्मन्प्राणिभिः प्राणिजीवनैः ।
मत्स्यान्ग्रसन्ते मत्स्याश्च तत्रकिं प्रतिभाति ते ॥ ३.२१२.२७ ॥

バラモンよ、これら全ては生き物に満ち、生き物は互いによって生きている。魚は魚を呑み込む。それについてあなたはどう思うか。

3.212.28

सत्वैः सत्वानि जीवन्ति बहुधा द्विजसत्तम ।
प्राणिनोऽन्योन्यभक्षाश्च तत्रकिं प्रतिभाति ते ॥ ३.२१२.२८ ॥

再生者の中で最もすぐれた者よ、生き物は生き物によって様々に生き、生き物は互いに食べ合う。それについてあなたはどう思うか。

3.212.29

चङ्क्रम्यमाणा जीवांश्च धरणीसंश्रितान्बहून् ।
पद्भ्यां घ्नन्ति नरा विप्र तत्र किं प्रतिभाति ते ॥ ३.२१२.२९ ॥

バラモンよ、歩きながら人々は大地に住む多くの生き物を足で踏み殺す。それについてあなたはどう思うか。

3.212.30

उपविष्टाः शयानाश्च घ्नन्ति जीवाननेकशः ।
अज्ञानादथवा ज्ञानात्तत्रकिं प्रतिभाति ते ॥ ३.२१२.३० ॥

座っている人も横たわっている人も、無知からであれ知っていてであれ、様々に生き物を殺す。それについてあなたはどう思うか。

3.212.31

जीवैर्ग्रस्तमिदं सर्वमाकाशं पृथिवी तथा ।
अविज्ञानाच्च हिंसन्ति तत्र किं प्रतिभाति ते ॥ ३.२१२.३१ ॥

この空と大地のすべては生き物で満ちている。無知ゆえに人々はそれらを害する。このことについて、あなたはどう思われますか。

3.212.32

अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा ।
के न हिंसन्ति जीवान्वै लोकेऽस्मिन्द्विजसत्तम् ॥ ३.२१२.३२ ॥

かつて驚嘆した人々が「不殺生」と言った。だがこの世で、生き物を害さない者など誰がいるだろうか、二生者の中の最上の者よ。

3.212.33

बहु संचिन्त्य इह वै नास्ति कश्चिदहिंसकः ॥ ३.२१२.३३ ॥

よくよく考えてみると、この世には実に不殺生の者は一人もいない。

3.212.34

अहिंयासां तु निरता यतयो द्विजसत्तम ।
कुर्वन्त्येव हि हिंसां ते यत्नादल्पतरा भवेत् ॥ ३.२१२.३४ ॥

二生者の中の最上の者よ、不殺生に専念する苦行者ですらも害をなす。努力によって、それは少なくなりうる。

3.212.35

आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः ।
महाघोराणि कर्माणि कृत्वा लज्जन्ति वै न च ॥ ३.२१२.३५ ॥

良い家に生まれた大きな徳を持つ人々も見分けがつきにくい。ひどく恐ろしい行いをしても、彼らは恥じることがない。

3.212.36

सुहृदः सुहृदोऽन्यांस्च दुर्हृदश्चापि दुर्हृदः ।
सम्यक्प्रवृत्तान्पुरुषानन सम्यगनुपश्यति ॥ ३.२१२.३६ ॥

友は友と他の人を見分け、敵は敵を見分ける。しかし、正しく行動する人々を正しく見ることはない。

3.212.37

समृद्धैश्चन नन्दन्ति बान्धवा बान्धवैरपि ।
गुरूंश्चैव विनिदन्ति मूढा निश्चितमानिनः ॥ ३.२१२.३७ ॥

繁栄した者を見ても親族は喜ばず、親族を見てさえ喜ばない。自分の決意こそ確かだと思い込む愚者は、年長者を非難する。

3.212.38

बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम ।
धर्मयुक्तमधर्मं च तत्र किं प्रतिभाति ते ॥ ३.२१२.३८ ॥

再生者の中で最もすぐれた人よ、世には多くの逆転したことが見られる。法と結びついた非法さえある。これについて、あなたはどう思われますか。

3.212.39

वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु ।
स्वकर्मनिरतो यो हि स यशः प्राप्नुयान्महत् ॥ ३.२१२.३९ ॥

法と非法に関わる行為については、さまざまな仕方で多くを語りうる。自らの本分に専念する者こそ、大いなる名声を得るがよい。