摩诃婆罗多 · 章 3.215
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.215.1
एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत ।
कथामकथयद्भूयो मनसः प्रीतिवर्धनीम् ॥ ३.२१५.१ ॥
婆罗多之子啊,法猎人这样说后,又为那位婆罗门讲述了一个能增益其心喜悦的故事。
3.215.2
महाभूतानि यान्याहुः पञ्च धर्मविदांवर ।
एकैकस्य गुणान्सम्यक्पञ्चानामपि मे वद ॥ ३.२१५.२ ॥
精通法者中的最优者啊,请把那些被称为五大元素者,每一个的德性都详细地告诉我。
3.215.3
भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च ।
गुणोत्तराणइ सर्वाणि तेषां वक्ष्यामि ते गुणान् ॥ ३.२१५.३ ॥
地、水、火、风、空——这些都是后者比前者具有更多德性;我将把它们的德性告诉你。
3.215.4
भूमिः पञ्चगुणा ब्रह्मननुदकं च चतुर्गुणम् ।
गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः ॥ ३.२१५.४ ॥
婆罗门啊,地有五种德性,水有四种;火有三种德性,空与风各有三种。
3.215.5
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
एतेगुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तराः ॥ ३.२१५.५ ॥
声、触、色、味,以及第五的香——这是地的五种德性,比其余一切都更具德性。
3.215.6
शब्दः स्पर्शश्च रूपं च सरश्चापि द्विजोत्तम ।
अपामेते गुणा ब्रह्मन्कीर्तितास्तव सुव्रत ॥ ३.२१५.६ ॥
声、触、色,以及味——二生者中最优秀的、持善誓的婆罗门啊,水的这些德性已经向你宣说了。
3.215.7
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः ।
शब्दः स्पर्शश्च वायौ तु शब्दश्चाकाश एव तु ॥ ३.२१५.७ ॥
声、触、色是火的三种性质。风中有声与触,而虚空中确实只有声。
3.215.8
एते पञ्चदश ब्रह्मन्गुणा भूतेषु पञ्चसु ।
वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः ॥ ३.२१५.८ ॥
婆罗门啊,这十五种性质存在于五大之中。它们存在于一切众生之中,世界正是建立在它们之上。
3.215.9
अन्योन्यं नातिवर्तन्ते सम्यक्व भवति द्विज ।
यदा तु विषमं भावमाचरन्ति चराचराः ॥ ३.२१५.९ ॥
再生者啊,当它们彼此不相逾越时,一切便正常。然而当动与不动之众生陷入失衡之态,
3.215.10
तदा देही देहमन्यं व्यतिरोहति कालतः ।
प्रातिलोम्याद्विनश्यन्ति जायन्ते चानुपूर्वशः ॥ ३.२१५.१० ॥
那时,有身者随时间进入另一身体。因逆转,众生灭亡,并依次而生。
3.215.11
तत्र तत्रहि दृश्यन्ते धातवः पाञ्चभौतिकाः ।
यैरावृतमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ ३.२१५.११ ॥
处处可见由五大构成的诸元素,整个世界——静止与运动之物——皆为其所包裹。
3.215.12
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्मृतम् ।
तदव्यक्तमिति ज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥ ३.२१५.१२ ॥
凡为诸根所取者,名为显现。应知不显现者,乃由相而得知,超越诸根。
3.215.13
यथास्वं ग्राहकान्येषां शब्दादीनामिमानि तु ।
इन्द्रियाणि तथा देही धारयन्निह तप्यते ॥ ३.२१५.१३ ॥
如同这些感官各自依其本性把握声音等境,有身者在此执持它们,便行苦修。
3.215.14
लोके विततमात्मानं लोकं चात्मनि पश्यति ।
परापरज्ञः सक्तः सन्स तु भूतानि पश्यति ॥ ३.२१५.१४ ॥
他见到遍布世界的自我,也见到自我之中的世界;他通晓上与下,专注于此,便真正见到一切众生。
3.215.15
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ।
ब्रह्मभूतस् संयोगो नाशुभेनोपपद्यते ॥ ३.२१५.१५ ॥
对于在一切境况中常见一切众生、已成为梵者,与不吉之事的结合便不会发生。
3.215.16
ज्ञानमूलात्मकं क्लेशमतिवृत्तस्य मोहजम् ।
लोकबुद्धिप्रकाशेन ज्ञेयमार्गेण गम्यते ॥ ३.२१५.१६ ॥
对于以知识为根本、已超越由迷惑所生之苦的人,它通过可知之道、借世间智慧之光而达成。
3.215.17
अनादिनिधनं जन्तुमात्मयोनिं सदाव्ययम् ।
अनौपम्यममूर्तं च भगवानाह बुद्धिमान् ॥ ३.२१५.१७ ॥
无始无终、众生之源、自生、恒常不灭、无可比拟、无形——这是那位明智的世尊所宣说的。
3.215.18
तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि ।
तपसा हि समाप्नोति यद्यदेवाभिवाञ्छति।
इन्द्रियाण्येव संयम्य तपो भवति नान्यथा ॥ ३.२१५.१८ ॥
你向我与婆罗门所问的这一切,都以苦行为根本。凭苦行,人便得到他所希求的一切。唯有制伏诸根才成为苦行,别无他途。
3.215.19
इन्द्रियाण्येव तत्सर्वंयत्स्वर्गनरकावुभौ ।
निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥ ३.२१५.१९ ॥
诸根本身便是一切:它们既能导向天界,也能导向地狱。被制伏则通向天界,被放纵则通向地狱。
3.215.20
एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम् ।
एतन्मूलं हि तपसः स्वर्गस्य नरकस्य च ॥ ३.२१५.२० ॥
这便是完整的瑜伽之法,直至执持诸根。这实为苦行、天界与地狱的根本。
3.215.21
इन्द्रियाणां प्रसङ्गेन दोमार्च्छत्यसंशयम् ।
सन्नियम्य तु तान्येव ततः सिद्धिं समाप्नुयात् ॥ ३.२१५.२१ ॥
沉溺于诸根,无疑会招致过失;但若将这些诸根完全制伏,便能达到圆满。
3.215.22
षण्णामात्प्रनि योज्यानामैश्वर्यं योऽधितिष्ठति ।
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ॥ ३.२१५.२२ ॥
主宰那已归属于自我的六者之主权、已征服诸根之人,他怎会被罪过与祸患所缠?
3.215.23
रथः शरीरं पुरुषस्य दृष्ट-
मात्मा नियन्तेन्द्रियाण्याहुरश्वान्।
तैरप्रमत्तः कुशली सदश्वै-
र्दान्त सुखं याति रथीव धीरः ॥ ३.२१५.२३ ॥
身体被称为人的战车,自我是驭者,诸根是马匹。警觉而熟练的坚定之人,如同战车手,借助这些良马而欢喜前行。
3.215.24
षण्णामात्मनियुक्तानामिन्द्रियाणां प्रमाथिनाम् ।
यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः ॥ ३.२१५.२४ ॥
若有坚定之人,能执持那已归属自我、扰乱人心的六根之缰,他便是至上的御者。
3.215.25
इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु ।
धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद्ध्रुवम् ॥ ३.२१५.२५ ॥
如同在道路上放开的马匹,对于放纵的诸根,应当保持坚定;以坚定之力,必能确实征服它们。
3.215.26
इन्द्रियाणां विचरतां यन्मनोऽनुविधीयते ।
तदस् हरते बुद्धिं नावं वायुरिवाम्भसि ॥ ३.२१५.२६ ॥
诸根游荡之时,心所追随的,便夺去他的智慧,如同风吹走水上的船。
3.215.27
येषु विप्रतिपद्यन्ते षट्स्वमोहात्फलागमम् ।
तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम् ॥ ३.२१५.२७ ॥
在那六者之中,人们因愚痴而对果报的到来迷惑;而坚定地修习它们的人,便能获得由禅定所生的果实。