Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.220

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.220.1

श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम् ।
पुनः पप्रच्छ तमृषिं मार्कण्डेयमिदं तदा ॥ ३.२२०.१ ॥

达摩王听了这段与法相关的吉祥故事后,便又向仙人摩根德耶问道:

3.220.2

कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा ।
नष्टेऽग्नौ हव्यमहवदग्निर्भूत्वा महाद्युतिः ॥ ३.२२०.२ ॥

火神阿耆尼如何进入森林?往昔安吉罗娑又是如何?当火消失时,大光明的阿耆尼自己化为火,献上了祭品。

3.220.3

अग्निर्यदा चैक एव बहुत्वं चास्य कर्मसु ।
दृश्यते भगवन्सर्वमेतदिच्छामि वेदितुम् ॥ ३.२२०.३ ॥

尊者啊!阿耆尼虽是一个,在祭祀中却显现为众多。我希望全部知道这些。

3.220.4

कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत् ।
यथा रुद्राच्च संभूतो गङ्गायां कृत्तिकासु च ॥ ३.२२०.४ ॥

童子(Kumāra)如何诞生,又如何成为阿耆尼之子?他如何从楼陀罗而生,又如何在恒河与昴宿女中生成?

3.220.5

एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवसत्तम ।
कौतूहलसमाविष्टो याथातथ्यं महामुने ॥ ३.२२०.५ ॥

最优秀的婆利古啊,我愿从您这里听闻;大仙啊,我满怀好奇,想知道其中的真实情况。

3.220.6

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः ॥ ३.२२०.६ ॥

这里人们也讲述这古老的传说:怒气冲冲的火(阿耆尼)如何走入森林修苦行。

3.220.7

यथा च भगवानग्निः स्वयमेवाङ्गेराऽभवत् ।
संतापयंश्च प्रभया नाशयंस्तिमिरावलिम् ॥ ३.२२०.७ ॥

如同吉祥的火神自身变成了阿ṅ吉罗娑,以光辉炙烤,驱散重重黑暗。

3.220.8

पुराङ्गिरा महाबाहो चचार तप उत्तमम् ।
आश्रमस्थो महाभागो हव्यवाहं विशेषयन्।
यथाग्निर्भूत्वा तु तदा जगत्सर्वं व्यकाशयत् ॥ ३.२२०.८ ॥

啊,大臂者!昔时阿ṅ吉罗娑修最上苦行,住于静修处的大福者,使献祭之火显其殊胜,遂化为火,照耀整个世界。

3.220.9

तपश्चरंस्तु हुतभुक्संतप्तस्तस्य तेजसा ।
भृशं ग्लानश्चतेजस्वी न च किंचित्प्रजज्ञिवान् ॥ ३.२२०.९ ॥

然而,行苦行的火神被他的光辉灼烧得很厉害,变得十分衰弱;虽然光明,却什么也觉察不到。

3.220.10

अथ संचिन्तयामास भगवान्हव्यवाहनः ।
अन्योऽग्निरिव लोकानां ब्रह्मणा संप्रकल्पितः ॥ ३.२२०.१० ॥

于是吉祥的哈维耶瓦哈纳思量:他仿佛是梵天为诸世界所造的另一位火神。

3.220.11

अग्नित्वं विप्रनष्टं हि तप्यमानस् मे तपः ।
कथमग्निः पुनरहं भवेयमिति चिन्त्य सः ॥ ३.२२०.११ ॥

我的火性已彻底丧失,我的苦行也在灼烧我。我该如何再成为火?如此思量之后,他

3.220.12

अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम् ।
सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः ॥ ३.२२०.१२ ॥

他看见那位大仙如火一般炙烤诸世界。他心怀恐惧,缓缓走近;于是阿ṅ吉罗娑对他说道。

3.220.13

शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः ।
विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु ॥ ३.२२०.१३ ॥

火啊,你很快将再次成为世界的维持者。在三界之中,在各自轨道上运行的众生之间,你将再次被人所知。

3.220.14

त्वमग्ने प्रथमः सृष्टो ब्र्हमणा तिमिरापर्हः ।
स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमो नुद ॥ ३.२२०.१४ ॥

火啊,你是梵天最先创造的,是驱散黑暗者。快快回到你的位置,驱散黑暗吧。

3.220.15

नष्टकीर्तिरहं लोके भवाञ्जातो हुताशनः ।
भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः ॥ ३.२२०.१५ ॥

我在世上的名声已失;你以祭火之身诞生。人们将只知你是净化之火,而不知我。

3.220.16

निक्षिपम्यहमग्नित्वं त्वमग्निः प्रथमो भव ।
भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च ॥ ३.२२०.१६ ॥

我放下火的身份;你成为第一火。我将成为第二,并且属于生主。

3.220.17

कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः ।
मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा ॥ ३.२२०.१७ ॥

行善积德,成为众生的天界施予者;火啊,成为驱散黑暗者。天神啊,火啊,请轻易地使我成为你的长子。

3.220.18

तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाऽकरोत् ।
राजन्वृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः ॥ ३.२२०.१८ ॥

闻听安伽罗之言,耆多维达便照此而行。大王啊,他也生下一子,名为布利诃波提,乃安伽罗之子。

3.220.19

ज्ञात्वा प्रथमजं तं तु वह्नेरङ्गिरसं सुतम् ।
उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत ॥ ३.२२०.१९ ॥

诸神得知火神长子安吉罗斯在此,便走近他,询问其中的缘由,婆罗多之子啊。

3.220.20

स तु पृष्टस्तदा देवैस्तत कारणमब्रवीत् ।
प्रत्यगृह्णन्त देवाश्च तद्वचोऽङ्गिरसस्तदा ॥ ३.२२०.२० ॥

诸神询问时,他便说明了缘由;于是诸神接受了安吉罗斯的这番话。

3.220.21

तत्रनानाविधानग्नीन्प्रवक्ष्यामि महाप्रभान् ।
कर्मभिर्वहुभिः ख्याताननानार्थान्ब्राह्मणेष्विह ॥ ३.२२०.२१ ॥

在此,我将在婆罗门之间讲述种种极为光明的火,它们因众多祭仪而著名,各有不同用途。