Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.221

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.221.1

ब्रह्मणो यस्तृतीयस्तु पुत्रः कुरुकुलोद्वह ।
तस्यापि वसुदाभार्या प्रजास्तस्यां च मे शृणु ॥ ३.२२१.१ ॥

梵天的第三个儿子,俱卢族的担当者啊,他也有一位妻子名叫婆苏陀。她所生的子嗣,你听我说。

3.221.2

बृहत्कीर्तिर्बृहज्ज्योतिर्बृहद्ब्रह्मा बृहन्मनाः ।
बृहन्मन्त्रो बृहद्भासस्तथा राजन्बृहस्पतिः ॥ ३.२२१.२ ॥

大名、大光、大梵、大心、大咒、大光辉,还有,大王啊,木星(布利哈斯帕蒂)。

3.221.3

प्रजासु तासु सर्वासु रूपेणाप्रतिमाऽभवत् ।
देवी भानुमती नाम प्रथमाऽङ्गिरसः सुता ॥ ३.२२१.३ ॥

在所有这些子嗣中,容貌无与伦比的女神名叫婆努摩蒂,她是安吉拉斯的长女。

3.221.4

भूतानामेव सर्वेषां यस्यां रागस्तदाऽभवत् ।
रागाद्रागेति यामाहुर्द्वितीयाऽङ्गिरसः सुता ॥ ३.२२१.४ ॥

众生因她而生起爱欲,因爱欲而被称为“罗伽”的,是安吉拉斯的次女。

3.221.5

यां कपर्दिसुतामाहुर्दृश्यादृश्येति देहिनः ।
तनुत्वात्सा सिनीवाली तुतीयाऽङ्गिरसः सुता ॥ ३.२२१.५ ॥

有血肉之躯的众生称她为“迦波底之女”“可见与不可见”;因她的纤细,她名为西尼瓦利,是安吉拉斯的第三女。

3.221.6

यां तु दृष्ट्वा भगवतीं जनः कुहकुहायते ।
एकानकेति यामाहुश्चतुर्थ्यङ्गिरसः सुता ॥ ३.२२१.६ ॥

众人见到这位吉祥的女神便高呼“库呼、库呼”;她被称为埃卡纳卡,是安吉拉斯的第四女。

3.221.7

पञ्चम्यर्चिष्मती नाम्ना हविर्भिश्च हविष्मती ।
षष्ठीम्गिरसः कन्यां पुण्यामाहुर्महिष्मतीम् ॥ ३.२२१.७ ॥

第五女名为阿尔奇什玛蒂,富有供物的名为哈维什玛蒂;第六女,即盎基罗娑的圣洁之女,被称为摩希什玛蒂。

3.221.8

महामखेष्वाङ्गिरसी दीप्तिमत्सु महीयती ।
महामतीति विख्याता सप्तमी कथ्यते सुता ॥ ३.२२१.८ ॥

在大祭祀中,于光辉的火焰之间受尊崇者为盎基罗西;名为摩诃摩蒂、广为人知的第七女,便被如此称呼。

3.221.9

बृहस्पतेश्चान्द्रमसी भार्याऽऽसीद्या यशस्विनी ।
अग्नीन्साऽजनयत्पुण्यान्षडेकां चापि पुत्रिकाम् ॥ ३.२२१.९ ॥

布哈斯帕蒂的光荣之妻、月神之女,生育了六位圣火,又生了一个女儿。

3.221.10

आहुतिष्वेव यस्याग्नेर्हविराज्यं विधीयते ।
सोग्निर्बृहस्पतेः पुत्र शंयुर्नाम महाप्रभः ॥ ३.२२१.१० ॥

在祭品中专为之规定以祭物与酥油献祭的那位火神,便是布哈斯帕蒂之子、名为商尤的大光明之火。

3.221.11

चातुर्मास्येषु यस्येष्टमश्वमेधाग्रभागभूत् ।
दीप्तिज्वालैरनेकाग्रैरग्निष्टोमोऽथ वीर्यवान् ॥ ३.२२१.११ ॥

在四月祭中被献祭的强大的阿格尼什托摩,构成马祭的首要部分,以众多尖端的光焰闪耀。

3.221.12

शंयोरप्रतिमा भार्या सत्या सत्याऽथ धर्मजा ।
अग्नितस्य सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः ॥ ३.२२१.१२ ॥

商尤无双的妻子是萨提亚,还有从法所生的萨提亚;阿格尼塔光辉的儿子,以及三位持守善誓的女儿。

3.221.13

प्रथमेनाज्यभागेन पूज्यते योऽग्निरध्वरे ।
अग्निस्तस्य भरद्वाजः प्रथमः पुत्र उच्यते ॥ ३.२२१.१३ ॥

在祭祀中以第一份酥油供奉的火神,他的长子被称为婆罗堕遮。

3.221.14

पौर्णमासेषु सर्वेषु हविराज्यं ध्रुवोद्यतम् ।
भरतो नामतः सोग्निर्द्वितीयः शंयुतः सुतः ॥ ३.२२१.१४ ॥

在所有满月祭中,在固定时刻接受供物与酥油的火神,名为婆罗多;他的第二个儿子是商由。

3.221.15

तिस्रः कन्या भवन्त्यन्या यासां स भरत पतिः ।
भारतस्तु सुतस्तस्य भारत्येका च पुत्रिका ॥ ३.२२१.१५ ॥

他还有三个女儿,他是她们的丈夫。哦,婆罗多,婆罗多是他的儿子,还有一个女儿名叫婆罗提。

3.221.16

भारतो भरतस्याग्नेः पावकस्तु प्रजायते ।
महानत्यर्थमहितस्तथा भरतसत्तम ॥ ३.२२१.१६ ॥

从婆罗多火神生出波婆迦;他伟大且备受尊崇,哦,婆罗多中的最优者。

3.221.17

भरद्वाजस्य भार्या तु वीरा वीरश्च पिण्डदः ।
प्राहुराज्येन तस्येज्यां सोमस्येव द्विजाः शनैः ॥ ३.२२१.१७ ॥

婆罗堕遮的妻子是毗罗,毗罗是供献祭饼的人。哦,再生者们,他以酥油受祭,人们缓缓说这如同供奉苏摩。

3.221.18

हविषा यो द्वितीयेन सोमेन सह युज्यते ।
रथप्रभू रथध्वानः कुम्भरेताः स उच्यते ॥ ३.२२१.१८ ॥

以第二份供物与苏摩相结合者,被称为车主、车响与瓶生者。

3.221.19

सरय्वां जनयत्सिद्धिं भानुं भाभिः समावृणोत् ।
आग्नेयमनयन्मिथ्यं मिथ्यो नामैव कथ्यते ॥ ३.२२१.१९ ॥

他在萨拉尤河中生成成就,以光芒遮蔽太阳。他引导火之子为弥提亚,人们只以弥提亚之名称呼他。

3.221.20

यस्तु न च्यवते नित्यं शयसा वर्चसा श्रिया ।
अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति केवलम् ॥ ३.२२१.२० ॥

永不失去光辉、威仪与荣耀的火神,名为尼史恰瓦纳,唯独赞颂大地。

3.221.21

विपाप्मा कलुषैर्मुक्तो विशुद्धश्चार्चिषा ज्वलन् ।
विपापोऽग्निः सुतस्तस्य योज्यः समयकर्मसु ॥ ३.२२१.२१ ॥

无罪、远离污垢、以火焰净化而燃烧者,其子名为毗波之火,应在按时的祭仪中任用。

3.221.22

अक्रोशतां हि भूतानां यः करोति हि निष्कृतिम् ।
अग्निः स निष्कृतिर्नाम शोभयत्यभिसेवितः ॥ ३.२२१.२२ ॥

为哀号的众生行赎罪者,名为尼什克里提之火;受到供奉时,它使祭祀增辉。

3.221.23

अनुकूजन्ति येनेह वेदनार्ताः स्वयं जनाः ।
तस्य पुत्रः स्वनो नाम पावकः सरुजस्करः ॥ ३.२२१.२३ ॥

此间因苦痛所困的人们因其而自行呻吟——其子名为斯瓦那,乃净化之火,能致病痛。

3.221.24

यस्तु विश्वस् जगतो बुद्धिमाक्रम्य तिष्ठति ।
तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम् ॥ ३.२२१.२४ ॥

凡征服整个世界之智而屹立者,知自我者称之为名为毗奢婆吉的净化之火。

3.221.25

अन्तराग्निः स्मृतो यस्तु भुक्तं पचति देहिनाम् ।
स यज्ञे विश्वभुङ्वाम सर्वलोकेषु भारत ॥ ३.२२१.२५ ॥

被称为消化有身众生所食之物的内火,正是此火,在祭祀中,婆罗多啊,在一切世界中被称为“毗首婆呼”。

3.221.26

ब्रह्मचारी यतात्मा च सततं विपुलप्रभः ।
ब्राह्मणाः पूजयन्त्येनं पाकयज्ञेषु पावकम् ॥ ३.२२१.२६ ॥

梵行者、自制、常具广大光辉的此火,婆罗门在烹煮供养的祭祀中礼拜它。

3.221.27

प्रथितो गोपतिर्नाम नदी यस्याभवत्प्रिया ।
तस्मिन्कर्माणि सर्वाणि क्रियन्ते धर्मकर्तृभिः ॥ ३.२२१.२७ ॥

名为“牛主”的著名河流,乃是他所钟爱者;在那里,行法之人举行一切祭仪。

3.221.28

बडबाग्निः पिबत्यम्भो योसौ परमदारुणः ।
ऊर्द्वभागूर्ध्वभाङ्नाम कविः प्राणाश्रितस्तु यः ॥ ३.२२१.२८ ॥

饮水的巴达火极为可怖;而那名为“上分”的智者,依止于生命气息之中。

3.221.29

उदग्द्वारं हविर्यस्य गृहे नित्यं प्रदीयते ।
ततस्तुष्टो भवेद्ब्रह्मा स्विष्टकृत्परमः स्मृतः ॥ ३.२२१.२९ ॥

凡在其家中常从北门献上祭物者,梵天因此欢喜;那位“善供者”被称为至尊。

3.221.30

यः प्रशान्तेषु भूतेषु आविर्भवति पावकः ।
क्रुद्धस्य तु रसो जज्ञे मन्युतीव्रा च पुत्रिका ॥ ३.२२१.३० ॥

在平静众生中显现的那位净火;而从愤怒者的精华中,生出一名因愤怒而锐利的女儿。

3.221.31

स्वाहेति दारुणा क्रूरा सर्वभूतेषु तिष्ठति ।
त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्चन।
अतुलत्वात्कृतो देवैर्नाम्ना कामस्तु पावकः ॥ ३.२२१.३१ ॥

那名为娑訶(Svāhā)的猛烈而残酷者,存在于一切众生之中。三界之中,无人在形貌上与他相等;因他无与伦比,诸神称他为迦摩(Kāma),他即是钵伽(Pāvaka)。

3.221.32

संहर्षाद्धारयन्क्रोधं धन्वी स्रग्वी रथे स्थितः ।
समरे नाशयेच्छत्रूनमोघो नाम पावकः ॥ ३.२२१.३२ ॥

在欢喜中持守愤怒,手持弓、戴花环,立于战车之上,在战斗中摧毁敌人;他是名为阿摩伽(Amogha)的火。

3.221.33

उक्थ्यो नाम महाभाग त्रिभिरुक्थैरभिष्टुतः ।
महावर्षं त्वजनयत्सकामाश्वं हि यं विदुः ॥ ३.२२१.३३ ॥

大福者啊,名为乌克特亚(Ukthya)的火,以三首颂歌赞美之,便降下大雨;人们也称他为娑迦摩什伐(Sakāmāśva)。