Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.223

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.223.1

गुरुभिर्नियमैर्युक्तो भरतो नाम पार्थिव ।
अग्निः पुष्टिमतिर्नाम तुष्टः पुष्टिं प्रयच्छति ॥ ३.२२३.१ ॥

君王啊,具足尊师与戒律的婆罗多,名为富养意(Puṣṭimati)的火神,欢喜之时赐予滋养。

3.223.2

सततं भरतश्रेष्ठ पावकोयं महाप्रभः ।
अग्निर्यश्च शिवो नाम शक्तिपूजायनिश्च सः।
दुःखार्तानां स सर्वेषां शिवकृत्सततं शिवः ॥ ३.२२३.२ ॥

婆罗多中最优秀者啊!这位光辉无比的火神,名为湿婆,前往崇拜力量——他就是湿婆,总是为所有受苦之人带来吉祥。

3.223.3

तपसस्तु फलं दृष्ट्वासंप्रवृत्तं तपोमयम् ।
उद्धर्तुकामो मतिमान्पुत्रो जज्ञे पुरंदरः ॥ ३.२२३.३ ॥

见苦行之果已化为苦行之形而显现,欲将其提升的智慧之子生起,名为补罗陀罗(Puraṃdara)。

3.223.4

उष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतेषु लक्ष्यते ।
अग्निश्चापि मनुर्नाम प्राजापत्यं सकारणम् ॥ ३.२२३.४ ॥

热由热而生;此火神在众生之中可被察知。名为摩奴的火神也属于生主(Prajāpati),连同其因。

3.223.5

शंभुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः ।
आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रभम् ॥ ३.२२३.५ ॥

精通吠陀的婆罗门称火神为湿婆(Śambhu);再生者称这位光焰炽盛、大放光明的火神为居家火(āvasathya)。

3.223.6

ऊर्जस्करान्हव्यवाहान्सुवर्णसदृशप्रभान् ।
अग्निस्तपो ह्यजनयत्पञ्च यज्ञसुतानिह ॥ ३.२२३.६ ॥

火神仅凭苦行,便在此产生了五位祭祀之子——承载供物、赋予力量、光彩如金者。

3.223.7

प्रततोऽग्निर्महाभाग परिश्रान्तो गवांपतिः ।
असुराञ्जनयन्घोरान्मर्त्यांश्चैव पृथग्विधान् ॥ ३.२२३.७ ॥

大福者啊,疲倦的牛主火神以苦行生出了可怖的阿修罗和各种凡人。

3.223.8

तपसश्च मनुं पुत्रं भानुं चाप्यङ्गिराः सृजत् ।
बृहद्भानुं तु तं प्राहुर्ब्राह्मणा वेदपारगाः ॥ ३.२२३.८ ॥

阿ṅgiras又以苦行生出了儿子摩奴和婆努;精通吠陀的婆罗门称他为大光。

3.223.9

भानोर्भार्या महाराज बृहद्भासा तु सोमजा ।
षट्पुत्राञ्जनयामास तदा सा कन्यया सह।
भानोराङ्गिरसस्याथ शृणु तस्य प्रजाविधिम् ॥ ३.२२३.९ ॥

大王啊,婆努之妻、月神之女大光,那时与一女一同生了六子。现在请听安吉罗斯之子婆努的子嗣之序。

3.223.10

दुर्बलानां तु भूतानामसून् यः संप्रयच्छति ।
तमग्निं बलदं प्राहुः प्रथमं भानुजं सुतम् ॥ ३.२२३.१० ॥

赐予弱小众生生气者,人们称之为赐力火神——婆努所生的第一个儿子。

3.223.11

यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः ।
अग्निः स मन्युमान्नाम द्वितीयो भानुजः सुतः ॥ ३.२२३.११ ॥

在已平静的众生中生起可怕怒气者——名为具怒的火神,是婆努的第二个儿子。

3.223.12

दर्शे च पौर्णमासे च यस्येह हविरुच्यते ।
विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोङ्गिराः ॥ ३.२२३.१२ ॥

在此于新月与满月时献上祭品的那位火神,名为毗湿奴;他便是名为坚定者的安吉罗斯。

3.223.13

इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम् ।
अग्निराग्रयणो नाम भानोरेवान्वयस्तु सः ॥ ३.२२३.१३ ॥

与因陀罗一同被忆及首次供物(āgrayaṇa)者,即名为Āgrayaṇa的火神Agni;他正是日神(Bhānu)的后裔。

3.223.14

चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः ।
चतुर्भिः सहितः पुत्रैर्भानोरेवान्वयस्तु सः ॥ ३.२२३.१४ ॥

在四月祭(cāturmāsya)中首先接受常规供物者,与四子同在;他同样是日神(Bhānu)的后裔。

3.223.15

निशा त्वजनयत्कन्यामग्नीषोमावुभौ तथा ।
मनोरेवाभवद्भार्या सुषुवे पञ्च पावकान् ॥ ३.२२३.१५ ॥

夜(Niśā)生了一女,也生了火神Agni与月神Soma二者;她成为摩奴(Manu)之妻,生下了五位火神(pāvaka)。

3.223.16

पूज्यते हविषा योऽग्रे चातुर्मास्येषु पावकः ।
पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः ॥ ३.२२३.१६ ॥

在四月祭中首先以供物受到崇奉、与雨神Parjanya同在者,即那光辉的火神,便是Vaiśvānara(毗首安罗)。

3.223.17

अस्य लोकस्य सर्वस्य यः प्रभुः परिपठ्यते ।
सोऽग्निर्विश्वपतिर्नाम द्वितीयस्तापसः सुतः ॥ ३.२२३.१७ ॥

被宣称为整个世界之主者,是名为Viśvapati(毗首婆提)的火神;他是苦行者(Tāpasa)的第二子。

3.223.18

कन्या या हरिणी नाम हिरण्यकशिपोः सुताः। ॥ ३.२२३.१८ ॥

名叫Hariṇī(哈里尼)的那位少女,属于金床(Hiraṇyakaśipu)之子们。

3.223.19

कर्मणाऽसौ बभौ भार्या स वह्निः स प्रजापतिः ।
प्राणानाश्रित्य यो देहं प्रवर्तयति देहिनाम्।
तस्य सन्निहितो नाम शब्दरूपस्य साधनः ॥ ३.२२३.१९ ॥

他以业行显现为妻子;他即是火,即是生主。依靠诸气,推动有身众生之身者,名为“近在”,是声形之工具。

3.223.20

शुक्लं कृष्णं वपुर्देवो यो बिभर्ति हुताशनः ।
अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तु सः ॥ ३.२२३.२० ॥

持白色与黑色之身的神火胡多那那,无染无垢,却是有染之物的作者;他依托于愤怒。

3.223.21

कपिलं परमर्षिं च यं प्राहुर्यतयः सदा ।
अग्निः स कपिलो नाम साङ्ख्ययोगप्रवर्तकः ॥ ३.२२३.२१ ॥

苦行者常称之为迦毗罗、至上仙人者,即是火;以迦毗罗之名,他是数论与瑜伽的开创者。

3.223.22

योऽन्तर्यच्छति भूतानि येन चेष्टन्ति नित्यदा ।
कर्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते ॥ ३.२२३.२२ ॥

他从内部约束众生,众生借之而恒常在此种种业行中活动;他被称为最上的引领者,即婆诃那火。

3.223.23

इमामन्यान्समसृजत्पावकान्प्रथितौजसः ।
अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्बणान् ॥ ३.२२३.२३ ॥

他又创造了其他声名卓著的净化之火,凶猛可畏,用以在阿耆尼护摩受污时作赎罪之用。

3.223.24

संस्पृशेयुर्यदाऽन्योन्यं कथंचिद्वायुनाऽग्नयः ।
इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये ॥ ३.२२३.२४ ॥

若诸火因风而彼此以某种方式相触,则应以八片陶器之供物献于清净之火室建。

3.223.25

दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल ।
इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये ॥ ३.२२३.२५ ॥

当南火与那两者相接触时,则必须以八陶片之饼向名为维塔亚的火行祭祀。

3.223.26

यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना ।
इष्टरष्टाकपालेन कार्या तु शुचयेऽग्नये ॥ ३.२२३.२६ ॥

若居所中安置的火被野火所触,则必须以八陶片之饼向清净之火行祭祀。

3.223.27

अग्निं रजस्वला वै स्त्री संस्पृशेदाग्निहौत्रिकम् ।
इष्टिरष्टाकपालेन कार्या वसुमतेऽग्नये ॥ ३.२२३.२७ ॥

若经期妇女触及祭主的家火,则必须以八陶片之饼向名为婆修摩特的火行祭祀。

3.223.28

मृतः श्रूयेत यो जीवन्परासुरशुचिर्यथा ।
इष्टिरष्टाकपालेन कार्या सुरभिमतेऽग्नये ॥ ३.२२३.२८ ॥

若有人活着却被传为已死,如同无命而不净,则必须以八陶片之饼向名为苏罗毗摩特的火行祭祀。

3.223.29

आर्तो न जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः ।
इष्टिरष्टाकपालेन कार्या तन्तुमतेऽग्नये ॥ ३.२२३.२९ ॥

若婆罗门因悲痛而三夜不向火中献祭,则必须以八陶片之饼向名为檀图摩特的火行祭祀。

3.223.30

दर्शश्च पौर्णमासश्च यस् तिष्ठेत्प्रतिष्ठितम् ।
इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये ॥ ३.२२३.३० ॥

若新月与满月之祭仪如法地持续进行,则必须以八陶片之饼向名为帕提克利特的火行祭祀。

3.223.31

सूतिकाग्निर्यदा चाग्निं संस्पृशेदाग्निहौत्रिकम् ।
इष्टिरष्टाकपालेन कार्या चाग्निमतेऽग्नये ॥ ३.२२३.३१ ॥

当产妇之火(sūtikāgni)触及阿格尼霍special火(agnihotra)时,应以八陶片烤制的饼(aṣṭākapāla)为拥火者阿耆尼举行祭祀(iṣṭi)。