摩诃婆罗多 · 章 3.227
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.227.1
शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता ।
तस्याः सा प्रथमं रूपं कृत्वादेवी जनाधिप ॥ ३.२२७.१ ॥
阿溜罗之妻湿婆,具足良好品行、美貌与德行。人主啊,女神首先化作了她的形貌。
3.227.2
जगाम पावकाभ्याशं तं चोवाच वराङ्गना ।
मामग्ने कामसंतप्तां त्वं कामयितुमर्हसि ॥ ३.२२७.२ ॥
那位美女走近火神,对他说:“火神啊,被欲望折磨的我,你应当爱慕我。”
3.227.3
करिष्यसि न चेदेवं मृतां मामुपधारय ।
तवाप्यधर्मः सुमहान्भविता वै हुताशन ॥ ३.२२७.३ ॥
你若不如此,就把我当作死人看待。火神啊,那时你也将犯下大罪。
3.227.4
अहमङ्गिरसो भार्या शिवा नाम हुताशन ।
सखीभिः सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम् ॥ ३.२२७.४ ॥
我是阿溜罗之妻,名叫湿婆,火神啊。我与女伴们商议定下决心,才来到这里。
3.227.5
कथं मां त्वं विजानीषे कामार्तमितराः कथम् ।
यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः ॥ ३.२२७.५ ॥
你怎么知道我被欲望所苦?你所说的七仙的其他爱妻又是怎样的呢?
3.227.6
अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव ।
त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषिताऽस्मि तवान्तिकम् ॥ ३.२२७.६ ॥
你总是我们所爱,我们也怕你。我从你的神情动作中知道了你的心意,因而被派到你的身边。
3.227.7
मैथुनायेह संप्राप्ता कामाच्चैव द्रुतं च माम् ।
उपयन्तुं महावीर्य पूर्वमेव त्वमर्हसि।
जामयो मां प्रतीक्षन्ते गमिष्यामि हुताशन ॥ ३.२२७.७ ॥
我为结合而来,出于欲望而急速而来。大力者啊,你应当先娶我。妻子们正在等候我;火神啊,我将离去。
3.227.8
ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः ।
प्रीत्या देवी समायुक्ता शुक्रं जग्राह पाणिना ॥ ३.२२७.८ ॥
于是阿耆尼满怀喜悦,娶了那位吉祥女;女神因爱而结合,以手接住了精液。
3.227.9
साऽचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने ।
ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके ॥ ३.२२७.९ ॥
她心想:“那些在林中看见我这副模样的人,会对婆罗门女子说出虚假的罪过,火神啊。”
3.227.10
तस्मादेतद्रक्षमाणा गरुडी संभवाम्यहम् ।
वनान्निर्गमनं चैव सुखं मम भविष्यति ॥ ३.२२७.१० ॥
因此,我护持此事,将化为女迦楼罗;离开森林对我而言将是快乐。
3.227.11
सुपर्णी सा तदा भूत्वा निर्जगाम महावनात् ।
अपश्यत्पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम् ॥ ३.२२७.११ ॥
于是她化为雌性迦楼罗,走出大林,看见一座被芦苇丛环绕的白色山岳。
3.227.12
दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः ।
रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा ॥ ३.२२७.१२ ॥
那座山被目中有毒的七头奇异蛇群所守护,也被罗刹、毕舍遮以及凶猛的鬼众所守护。
3.227.13
राक्षसीभिश्च संपूर्णमनेकैश्च मृगद्विजैः ।
नदीप्रस्रवणोपेतं नानातरुलताचितम् ॥ ३.२२७.१३ ॥
其中充满罗刹女,又有许多鹿与鸟;有河流与泉水,并密布着种种树木与藤蔓。
3.227.14
सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम् ।
प्राक्षिपत्काञ्चने कुण्डे शुक्रं सा त्वरिता शुभा ॥ ३.२२७.१४ ॥
那位吉祥的女神突然来到那座极难攀登的山顶,急忙将精液投入金色的池中。
3.227.15
शिष्टानामपि सा देवी सप्तर्षीणां महात्मनाम् ।
पत्नीसरूपतां कृत्वा रमयामास पावकम् ॥ ३.२२७.१५ ॥
那位女神变作七位大德仙人之妻的模样,即便在贤德的仙人面前,也使火神欢悦。
3.227.16
दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तया ।
तस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च ॥ ३.२२७.१६ ॥
她无法变成阿伦陀蒂那神圣的形貌,因为阿伦陀蒂的苦行威力与侍奉丈夫的功德。
3.227.17
षट्कृत्वस्तत्तु निक्षिप्तमग्ने रेतः कुरुत्तम ।
तस्मन्कुण्डे प्रतिपदि कामिन्या स्वाहया तदा ॥ ३.२२७.१७ ॥
俱卢中最优秀者啊,那时在月初之日,贪欲的娑訶将那火神的精液投入那池中六次。
3.227.18
तत्स्कन्नं तेजसा तत्रसंवृतंजनयत्सुतम् ।
ऋषिभिः पूजितं स्कन्नमनयन्स्कन्दतां ततः ॥ ३.२२७.१८ ॥
那洒落的精液被自身光辉包裹于彼处,生出一子。诸仙人礼拜他;随后他们把洒落之物成就为塞建陀。
3.227.19
षट्शिरा द्विगुणश्रोत्रो द्वादशाक्षिभूजक्रमः ।
एकग्रीवस्त्वेककायः कुमारः समपद्यत ॥ ३.२२७.१९ ॥
他有六个头,双倍的耳朵,十二只眼睛与依次排列的手臂,一个颈项,一个身体,这位童子便出现了。
3.227.20
द्वितीयायामभिव्यक्तस्तृतीयायां शिशुर्बभौ ।
अङ्गप्रत्यङ्गसंभूतश्चतुर्थ्यामभवद्गुहः ॥ ३.२२७.२० ॥
第二日他显现,第三日童子光辉闪耀,第四日四肢与细部皆已成形,他便成为了古诃。
3.227.21
लोहिताभ्रेण महता संवृतः सह विद्युता ।
लोहिताभ्रे सुमहति भाति सूर्य इवोदितः ॥ ३.२२७.२१ ॥
他被巨大的红云与闪电所包围,在那极大的红云中闪耀,如同升起的太阳。
3.227.22
गृहीतं तु धनुस्तेन विपुलं रोमहर्षणम् ।
न्यस्तं यत्रिपुरघ्नेन सुरारिविनिकृन्तनम् ॥ ३.२२७.२२ ॥
他拿起了那张巨大、令人毛骨悚然的弓,那是灭三城者所置放的,能斩断诸神之敌的弓。
3.227.23
तद्गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस्तदा ।
संमोहयन्निमाँल्लोकान्गुहस्त्रीन्सचराचरान् ॥ ३.२२७.२३ ॥
他拿起那最优良的弓,强大的古诃便发出吼声,使这三界中的动静万物都为之迷惑。
3.227.24
तस् तं निनदं श्रुत्वा महामेघौघनिःस्वनम् ।
उत्पेततुर्महानागौ चित्रश्चैरावतश्च ह ॥ ३.२२७.२४ ॥
二头大象听到那如同巨大云团般的吼声,图象与爱罗婆多便跃然而起。
3.227.25
तावापतन्तौ संप्रेक्ष्यस बालोऽर्कसमद्युतिः ।
द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना ॥ ३.२२७.२५ ॥
那孩子看见二者冲下,其光辉如太阳一般,他以两手抓住它们,又以另一只手抓住了长矛。
3.227.26
अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः ।
महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम्।
गृहीत्वा व्यनदद्भीमं चिक्रीड च महाभुजः ॥ ३.२२७.२६ ॥
那阿耆尼之子以另一只手紧抱住红冠的公鸡,它身躯庞大,是强者中最优秀的;那大臂者抓住它,可怕地吼叫,并玩耍起来。
3.227.27
द्वाभ्यां भुजाभ्यां बलवान्गृहीत्वा शङ्खमुत्तमम् ।
प्राध्मापयत् भूतानां त्रासनं बलिनामपि।
द्वाभ्यां भुजाभ्यामाकाशं बहुशो निजघान ॥ ३.२२७.२७ ॥
那强者以双臂拿起一只上好的海螺,使它大声吹响,这声音甚至令众生与强者都感到恐惧;他又以双臂多次击打天空。
3.227.28
क्रीडन्भाति महासेनस्त्रींल्लोकान्वदनैः पिवन् ।
पर्वताग्रेऽप्रमेयात्मा रश्मिमानुदये यथा ॥ ३.२२७.२८ ॥
嬉戏的大军(Mahāsena),其自性无量,在山顶闪耀,如同日出时光芒万丈的太阳;他仿佛以诸面吞饮三界。
3.227.29
स तस् पर्वतस्याग्रे निषण्णोऽद्भुतविक्रमः ।
व्यलोकयदमेयात्मा मुखैर्नानाविधैर्दिशः ॥ ३.२२७.२९ ॥
坐在那山顶的,具有奇妙威力、自性无量者,以种种不同的面容环视四方。
3.227.30
स पश्यन्विविधान्भावांश्चकार निनदं पुनः ।
तस्य तं निनदं श्रुत्वा न्यपतन्बहुधा जनाः।
भीताश्चोद्विग्रमनसस्तमेव शरणं ययुः ॥ ३.२२७.३० ॥
他观看种种景象,再次发出吼声。众人听到这吼声,纷纷倒地;他们心怀恐惧、意乱神慌,便只向他寻求庇护。
3.227.31
ये तुं संश्रिता देवं नानावर्णास्तदा जनाः ।
तानप्याहुः पारिषदान्ब्राह्मणाः सुमहाबलान् ॥ ३.२२७.३१ ॥
当时那些归依此神的、各种种姓的人,婆罗门称他们为他的侍从,都是大力之士。
3.227.32
स तूत्थाय महाबाहुरुपसान्त्व्य च ताञ्जनान् ।
धनुर्विकृष्य व्यसृजद्बाणाञ्श्वेते महागिरौ ॥ ३.२२७.३२ ॥
那大臂者起身,安慰那些人,拉开弓,向白色的大山射出箭矢。
3.227.33
विभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम् ।
तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम् ॥ ३.२२७.३३ ॥
他以箭射穿了雪山之子克劳卫察山;因此天鹅与秃鹫也都飞向须弥山。
3.227.34
स विशीर्णोऽपतच्छैलो भृशमार्तस्वराव्रुवन् ॥ ३.२२७.३४ ॥
那山被击碎倒下,并以极其痛苦的声音哀号。
3.227.35
तस्मिन्निपतिते त्वन्ये नेदुः शैला भृशं भयात् ।
घोरमार्तस्वरं चक्रुर्दृष्ट्वा क्रौञ्चं विदारितम् ॥ ३.२२७.३५ ॥
它倒下时,其他山也因恐惧而大声轰鸣;看到克劳卫察被劈裂,它们发出可怕的哀号。
3.227.36
सतं नादं भृशार्तानां श्रुत्वाऽपि बलिनांवरः ।
न प्राव्यधदमेयात्मा शक्तिमुद्यम्य चानदत् ॥ ३.२२७.३६ ॥
虽听到极度痛苦者的数百声哀号,强者之中最优秀、灵魂无量者并未投出长矛,而是举起长矛,发出吼声。
3.227.37
सा तदा विमला शक्तिः क्षिप्ता तेन महात्मना ।
बिभेद शिखरं घोरं श्वेतस् तरसा गिरेः ॥ ३.२२७.३७ ॥
那时,大德者投出的那支无瑕之矛,猛然刺穿了那座可怖白山的峰顶。
3.227.38
स तेनाभिहतो दीर्णो गिरिः श्वेतोऽचलैः सह ।
पलायत महीं त्यक्त्वा भीतस्तस्मान्महात्मनः ॥ ३.२२७.३८ ॥
白山被它击中并裂开,连同岩石一起因恐惧而逃离那位大德者,离开了大地。
3.227.39
ततः प्रव्यथिता भूमिर्व्यशीर्यत समन्ततः ।
आर्ता स्कन्दं समासाद्य पुनर्बलवती बभौ ॥ ३.२२७.३९ ॥
于是极度不安的大地四面裂开;她痛苦地走近斯干陀,又重新光辉起来,变得强盛。
3.227.40
पर्वताश्च नमस्कृत्यतमेव पृथिवीं गताः ।
अथैनमभजल्लोकः स्कन्दं शुक्लस्य पञ्चमीम् ॥ ३.२२७.४० ॥
群山也向他致敬,回到大地之上;此后世界在白半月的第五日供奉斯干陀。