摩诃婆罗多 · 章 3.228
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.228.1
तस्मिञ्जाते महासत्त्वे महासेने महाबले ।
समुत्तस्थुर्महोत्पाता घोररूपाः पृथग्विधाः ॥ ३.२२८.१ ॥
当他降生时,这位大精神、大军、大力之神出现了各种可怖形状的大凶兆。
3.228.2
स्त्रीपुंसोर्विपरीतं च तथा द्वन्द्वानि यानि च ।
ग्रहा दीप्ता दिशः खं च ररास च मही भृशम् ॥ ३.२२८.२ ॥
男女颠倒,各种对立之事皆现;众星燃烧,四方与天空燃烧,大地剧烈轰鸣。
3.228.3
ऋषयश्च महाघोरान्दृष्ट्वोत्पातान्समन्ततः ।
अकुर्वञ्शान्तिमुद्विग्ना लोकानां लोकभावनाः ॥ ३.२२८.३ ॥
众仙人见四方皆有极为可怖的凶兆,心中惊恐,便为平息灾异而行祈福之仪。
3.228.4
निवसन्ति वने ये तु तस्मिंश्चैत्ररथे जनाः ।
तेऽब्रुवन्नेष नोऽनर्थः पावकेनाहृतो महान्।
संगम्य षड्भिः पत्नीभिः सप्तर्षीणामिति स्म ह ॥ ३.२२८.४ ॥
居住在那座赤车林中的人们说:“这场大祸是火神(波伽)带给我们的,他与七仙人的六位妻子交合了。”
3.228.5
अपरे गरुडीमाहुस्तयाऽनर्थोऽयमाहृतः ।
यैर्दृष्टा सा तदा देवी तस्या रूपेण गच्छती ॥ ३.२२८.५ ॥
另有人说,这灾祸是迦鲁狄带来的;当时见到那位女神以她的形象行走的人是这样说的。
3.228.6
न तु तत्स्वाहया कर्म कृतंजानाति वै जनः ॥ ३.२२८.६ ॥
然而世人并不真正知道,那件事是斯娃哈所为。
3.228.7
सुपर्णी तु वचः श्रुत्वा ममायं तनयस्त्विति ।
उपगम्य शनैः स्कन्दमाहाहं जननी तव ॥ ३.२२८.७ ॥
苏跋尼听到这番话,说道:“这是我的儿子”,便慢慢走近塞建陀,说:“我是你的母亲。”
3.228.8
अथ सप्तर्षयः श्रुत्वा जातं पुत्रं महौजसम् ।
तत्यजुः षट् तदा पत्नीर्विना देवीमरुन्धतीम्।
षड्भिरेव तदा जातमाहुस्तद्वनवासिनः ॥ ३.२२८.८ ॥
那时七仙人听说大威光之子降生,便抛弃了除女神阿伦达蒂以外的六位妻子。那时林居者说,他是由六人所生。
3.228.9
सप्तर्षीनाह च स्वाहा मम पुत्रोऽयमित्युत ।
अहं हेतुर्नैतदेवमिति राजन्पुनः पुनः ॥ ३.२२८.९ ॥
娑婆诃对七仙人说:“这是我的儿子。”而且,大王啊,她一再地说:“我才是原因,并非如此。”
3.228.10
विश्वामित्रस्तु कृत्वेष्टिं सप्तर्षीणां महामुनिः ।
पावकं कामसंतप्तमदृष्टः पृष्ठतोऽन्वगात्।
तत्तेन निखिलं सर्वमवबुध्य यथातथम् ॥ ३.२२८.१० ॥
然而大仙毗湿缚蜜多罗在完成七仙人的祭祀后,于身后不被察觉地跟随被欲火煎熬的火神,并如实地了解了一切。
3.228.11
विश्वामित्रस्तु प्रथमं कुमारं शरणं गतः ।
स्तवं दिव्यं संप्रचक्रे महासेनस् चापि सः ॥ ३.२२८.११ ॥
毗湿缚蜜多罗首先皈依童子,并作了神圣的赞歌;大将(摩诃娑那)也同样做了。
3.228.12
मङ्गलानि च सर्वाणि कौमाराणि त्रयोदश ।
जातकर्मादिकास्तस् क्रियाश्चक्रे महामुनिः ॥ ३.२२८.१२ ॥
童子所应有的十三种吉祥仪式,从出生礼开始,大仙都一一举行了。
3.228.13
पड्वक्रस्य तु मांहात्म्यं कुक्कुटस्य तु साधनम् ।
शक्त्या देव्याः साधनं च तथा पारिषदामषि ॥ ३.२२८.१३ ॥
六面神的威德,鸡的法术,以女神之力的法术,以及随从们的法术。
3.228.14
विश्वामित्रश्चकारैतत्कर्म लोकहिताय वै ।
तस्मादृषिः कुमारस् विश्वामित्रोऽभवत्प्रियः ॥ ३.२२८.१४ ॥
毗首弥多罗为世间之利益而行此仪轨;因此童子成为仙人毗首弥多罗所爱。
3.228.15
अन्वजानाच्च स्वाहाया रूपान्यत्वं महामुनिः ।
अब्रवीच्च मुनीन्सर्वाननापराध्यन्ति वै स्त्रियः।
श्रुत्वा तु तत्वतस्तस्मात्ते पत्नीः सर्वतोत्यजन् ॥ ३.२२८.१५ ॥
大仙允许娑訶改变形貌,并告诉众仙人女子确实无过;众仙人如实听闻后,便全然舍弃了他们的妻子。
3.228.16
स्कन्दं श्रुत्वा तदा देवा वासवं सहिताऽब्रुवन् ।
अविषह्यं वलं स्कन्दं जहि शक्राशु माचिर् ॥ ३.२२८.१६ ॥
于是诸天闻知skanda之事,共同对婆薮(因陀罗)说:「舍脂啊,快杀掉力量不可抵挡的斯堪达,不要迟延。」
3.228.17
यदि वा न निहंस्येनमद्येन्द्रोऽयं भविष्यति ।
त्रैलोक्यं सन्निगृह्यास्मांस्त्वां च शक्र महाबला ॥ ३.२२८.१७ ॥
今天你若不杀此人,他将成为因陀罗;他会掌控三界,也会掌控我们,甚至你,大力的舍脂啊。
3.228.18
स तानुवाच व्यथितो वालोऽयं सुमहाबलः ।
स्रष्टारमपि लोकानां युधि विक्रम्य नाशयेत्।
न बालमुत्सहे हन्तुमिति शक्रः प्रभाषते ॥ ३.२२८.१८ ॥
他忧虑地对她们说:这个孩子力量极其强大;在战斗中凭借勇力,他甚至能毁灭创造世界的造物主。因陀罗说:我不敢杀死这个孩子。
3.228.19
तेऽब्रुवन्नास्ति ते वीर्यं यत एवं प्रभासे ।
सर्वास्त्वद्याभिगच्छन्तु स्कन्दं लोकस्य मातरः ॥ ३.२२८.१९ ॥
她们说:在普拉巴沙,你没有那样的勇力;因此,让世界上所有的母亲今天都去对抗斯坎达吧。
3.228.20
कामवीर्या घ्नन्तु चैनं तथेत्युक्त्वा च ता ययुः ।
तमप्रतिबलं दृष्ट्वा विषण्णवदनास्तु ताः ॥ ३.२२८.२० ॥
她们说:愿有欲望之力的诸母杀他,说完便离去;但见他无与伦比的力量,她们的面容都变得忧愁。
3.228.21
अशक्योऽयंविचिन्त्यैवं तमेव शरणं ययुः ।
ऊचुश्चैनं त्वमस्माकं पुत्रोऽस्माभिर्धृतंजगत् ॥ ३.२२८.२१ ॥
她们认为他无法战胜,便投奔他作庇护,对他说:你是我们的儿子;是我们支撑着这个世界。
3.228.22
अभिनन्द्य ततः सर्वाः प्रस्नुताः स्नेहविक्लबाः ।
तासां तद्वचनं श्रुत्वा पातुकामः स्तनान्प्रभुः ॥ ३.२२८.२२ ॥
于是,他向她们all致意,她们因爱而心醉,乳汁流淌;他听了她们的话,主神便想吮吸她们的乳房。
3.228.23
ताः संपूज्य महासेनःकामांश्चासां प्रदाय सः ।
अपश्यदग्निमायान्तं पितरं बलिनां बली ॥ ३.२२८.२३ ॥
他敬重她们并满足了她们的愿望之后,摩诃赛那看见他的父亲阿耆尼走来,他是强者中最强大的。
3.228.24
स तु संपूजितस्तेन सह मातृगणेन ह ।
परिवार्य महासेनं रक्षमाणः स्थितः शिवः ॥ ३.२२८.२४ ॥
湿婆受到他的敬重,与众母神一同站立,环绕并守护着大将(摩诃塞那)。
3.228.25
सर्वासां या तु मातॄणां नारी क्रोधसमुद्भवा ।
धात्री स्वपुत्रवत्स्कन्दं शूलहस्ताऽभ्यरक्षत ॥ ३.२२८.२५ ॥
众母之中,由愤怒所生的那位女神,以乳母之身,手持三叉戟,如护己子般守护斯堪达。
3.228.26
लोहितस्योदधेः कन्या क्रूरा लोहितभोजना ।
परिष्वज्य महासेनं पुत्रवत्पर्यरक्षत ॥ ३.२२८.२६ ॥
血海之女,凶残而以血为食,拥抱摩诃塞那,如子般守护他。
3.228.27
अग्निर्भूत्वा नैगमेयश्छागवक्रो बहुप्रजः ।
रमयामास शैलस्तं बालं क्रीडनकैरिव ॥ ३.२२८.२७ ॥
化为火神,羊面的奈伽梅耶,子嗣众多,以玩具逗弄那个孩子,如同嬉戏一般。
3.228.28
ब्रहाः सोपग्रहाश्चैव ऋषयो मातरस्तथा ।
हुताशनमुखाश्चैव दृप्ताः पारिषदां गणाः ॥ ३.२२८.२८ ॥
梵天之众与其侍从神灵,诸仙人与众母,以及火面者与傲慢的随从之群。
3.228.29
एते चान्ये च बहवो घोरास्त्रिदिववासिनः ।
परिवार्य महासेनं स्थिता मातृगणैः सह ॥ ३.२२८.२९ ॥
这些以及其他许多可怕的天界居民,与众母一同站立,环绕摩诃塞那。
3.228.30
संदिग्धं विजयं दृष्ट्वा विजयेप्सुः सुरेश्वरः ।
आरुह्यैरावतस्कन्धं प्रययौ दैवतैः सह ॥ ३.२२८.३० ॥
见胜利尚不确定,渴望胜利的诸神之主骑上爱罗婆多的肩膀,与诸神一同出发。
3.228.31
आदाय वज्रं बवान्सर्वैर्देवगणैर्वृतः ।
विजिघांसुर्महासेनमिन्द्रस्तूर्णतरं ययौ ॥ ३.२२८.३१ ॥
手持金刚杵,被诸神大军环绕,因子欲杀大将而更加迅速地前进。
3.228.32
इन्द्रस्तस्य महावेगं दृष्ट्वाऽद्भुतपराक्रमम् ।
विस्मितश्चाभवद्राजन्देवानीकमचोदयत् ॥ ३.२२८.३२ ॥
大王,因子见其迅疾神速、勇武非凡,心中惊讶,于是催促诸神之军前进。
3.228.33
उग्रं तं च महानादं देवानीकं महाप्रभम् ।
विचित्रध्वजसन्नाहं नानावाहनकार्मुकम् ॥ ३.२२८.३३ ॥
那支凶猛、发出巨大吼声、光辉灿烂的诸神大军,装饰着斑斓的旗帜与铠甲,并配备了各式车乘与弓箭。
3.228.34
प्रवराम्बरसंवीतं श्रिया जुष्टमलंकृतम् ।
विजिघांसुं तमायान्तं कुमारः शक्रमन्वयात् ॥ ३.२२८.३४ ॥
身着上好衣裳,光彩照人、装饰华美的童子,追赶着前来欲杀他的帝释。
3.228.35
वियत्पतिः स शक्रस्तु द्रुतमायान्महाबलः ।
संहर्पयन्देवसेनां जिघांसुः पावकात्मजम् ॥ ३.२२८.३५ ॥
天空之主、大力的帝释迅速前来,振奋诸神之军,欲杀火神之子。
3.228.36
संपूज्यमानस्त्रिदशैस्तथैव परमर्षिभिः ।
समीपमथ संप्राप्तो वह्निपुत्रस्य वासवः ॥ ३.२२८.३६ ॥
同样受到诸天和大仙人的敬重,因陀罗来到了火神之子身边。
3.228.37
सिंहनादं ततश्चक्रे देवेशः सहितैः सुरैः ।
गुहोऽपिशब्दं तं श्रुत्वा व्यनदात्सागरो यथा ॥ ३.२२८.३७ ॥
于是诸神之主与众天神一同发出狮子般的吼声;童子(室建陀)听到那声音,也如大海般咆哮。
3.228.38
तस्य शब्देन महता समुद्धूतोदधिप्रभम् ।
वभ्राम तत्रतत्रैव दैवसैन्यमचेतनम् ॥ ३.२२८.३८ ॥
因他的巨响,如大海般翻腾的天神军队失去知觉,四处乱转。
3.228.39
जिधांसूनुपसंप्राप्तान्देवान्दृष्ट्वा सपावकिः ।
विससर्ज मुखात्क्रुद्धः प्रवृद्धाः पावकार्चिषः ॥ ३.२२८.३९ ॥
火神之子看见诸天神欲来杀他,愤怒之下从口中喷出增长的火焰。
3.228.40
अदहद्देवसैन्यानि वेपमानानि भूतले ॥ ३.२२८.४० ॥
他焚烧了在地上颤抖的天神军队。
3.228.41
ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः ।
प्रच्युताः सहसा भान्ति चित्रास्तारागणा इव ॥ ३.२२८.४१ ॥
他们的头颅与身体燃烧,武器与车乘燃起烈焰,突然坠落,如同一群群流星般奇异地闪耀。
3.228.42
दह्यमानाः प्रपन्नास्ते शरणं पावकात्मजम् ।
देवा वज्रधरं त्यक्त्वाततः शानतिमुपागताः ॥ ३.२२८.४२ ॥
燃烧的诸神舍弃了持金刚者,投奔火之子求庇护,随后得到了平静。
3.228.43
त्यक्तो देवैस्ततः स्कन्दे वज्रं शक्रो न्यपातयत् ॥ ३.२२८.४३ ॥
诸神舍弃之后,因陀罗向斯堪达投掷了金刚杵。
3.228.44
तद्विसृष्टं जघानाशु पर्श्वं स्कन्दस्य दक्षिणम् ।
विभेद च महाराज पार्श्वं तस्य महात्मनः ॥ ३.२२८.४४ ॥
那被投出的金刚杵立即击中斯堪达的右胁,大王,它刺穿了那位大德之神的肋部。
3.228.45
वज्रप्रहारात्स्कन्दस्य संजातः पुरुषोऽपरः ।
युवा काञ्चनसन्नाहः शक्तिधृग्दिव्यकुण्डलः ॥ ३.२२८.४५ ॥
由于金刚杵的打击,从斯堪达身上诞生了另一位男子,年轻,身穿金甲,持矛,佩戴天界耳环。
3.228.46
यद्वज्रविशनाज्जातो विशाखस्तेन सोऽभवत् ॥ ३.२२८.४६ ॥
因为他诞生于金刚杵的穿刺,所以他成为了毗舍佉。
3.228.47
तं जातमपरं दृष्ट्वा कालानलसमद्युतिम् ।
भयादिनद्रस्तुत तं स्कन्दं प्राञ्जलिः शरणं गतः ॥ ३.२२८.४७ ॥
因陀罗见那另一位诞生的男子光辉如时间之火,心中恐惧,合掌前去投奔斯堪达求庇护。
3.228.48
तस्याभयंददौ स्कन्दः सहसैन्यस् सत्तम ।
ततः प्रहृष्टास्त्रिदशा वादित्राण्यभ्यवादयन् ॥ ३.२२८.४८ ॥
斯健陀与他的军队一同赐予他庇护,善人中最优秀者啊。于是欢喜的诸天奏响了乐器。
3.228.49
स्कन्दपारिषदान्धोराञ्छृणुष्वाद्भुतदर्शनान् ।
वज्रप्हहारात्स्कन्दस्य जज्ञुस्तत्र कुमारकाः।
ये हरन्ति शिशूञ्जातान्गर्भस्थाश्चैव दारुणाः ॥ ३.२२८.४९ ॥
请听斯健陀的随从,他们可怖而形貌奇异:由于雷杵的击打,斯健陀的少年们在那里诞生;他们是残酷的,夺去新生婴儿和胎中之子。
3.228.50
वज्रप्रहारात्कन्याश्च जज्ञिरेऽस् महाबलाः ॥ ३.२२८.५० ॥
由于雷杵的击打,也为他诞生了大力的少女。
3.228.51
कुमारान्स विशखं च पुत्रत्वे समकल्पयत् ।
स भूत्वा भगवान्सङ्ख्ये रक्षंश्छागमुखस्तदा ॥ ३.२२८.५१ ॥
他把那些少年和毗舍迦认作自己的儿子;而那位世尊,长着山羊的面孔,当时在战场上保护着他们。
3.228.52
वृतः कन्यागणैः सर्वैरात्मीयैः सह पुत्रकैः ।
मातृणां प्रेषितानां च भद्रशाखश्चकोमलैः ॥ ३.२२८.५२ ॥
他被自己所有的少女群与儿子们所环绕;还有母神们所遣的众人,以及跋陀罗舍迦和柔弱者们。
3.228.53
ततः कुमारं संजातं स्कन्दमाहुर्जना भुवि ।
रुद्रमग्निमुखां स्वाहां प्रदेशेषु महाबलाः ॥ ३.२२८.५३ ॥
那时诞生的少年被世人称为斯健陀;与以楼陀罗和阿耆尼为面的娑诃共同,大力者们在诸地域中(如此称呼)。
3.228.54
यजन्ति पुत्रकामाश्च पुत्रिणश्च सदा जनाः ।
यास्तास्त्वजनयत्कन्यास्तपो नाम हुताशनः ॥ ३.२२८.५४ ॥
渴望儿子的人和已有儿子的人总是举行祭祀。胡陀舍那(火神)所生的那些女儿中,有一位名叫苦行(Tapas)。
3.228.55
किं करोमीति ताः स्कन्दं संप्राप्ताः समभाषयन् ॥ ३.२२८.५५ ॥
她们走近室建多(Skanda),说道:“我该做什么?”
3.228.56
भवेम सर्वलोकस्य मातरो वयमुत्तमाः ।
प्रसादात्तव पूज्याश्च प्रियमेतत्कुरुष्व नः ॥ ३.२२८.५६ ॥
“愿我们成为一切世界最尊贵的母亲,并因你的恩典而受到尊崇。请为我们实现这一心愿。”
3.228.57
सोऽब्रवीद्बाढमित्येवं भविष्यध्वं पृथिग्विधाः ।
शिवाश्चैवाशिवाश्चैव पुनःपुनःरुदारधीः ॥ ३.२२८.५७ ॥
那位心胸高尚者说:“好吧,就这样吧。你们将成为各种各样的,时而吉祥,时而不祥,反复不已。”
3.228.58
अग्निर्भूत्वा ततश्चैनं छागवक्रो बहुप्रजः ।
रमयामास शैलस्थं बलं क्रीडनकैरिव ॥ ३.२२८.५८ ॥
于是,那位羊首、子嗣众多的火神化作其身,以玩具般逗乐那位居于山中的强大孩童。