摩诃婆罗多 · 章 3.229
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.229.1
ततः प्रकल्प्य पुत्रत्वे स्कन्दं मातृगणोऽगमत् ।
काकी च हलिमा चैव माता चाथ हली तथा।
आर्या बाला च धात्री च सप्तैता शिशुमातरः ॥ ३.२२९.१ ॥
于是,众母将塞建陀认作儿子后便离去。迦key、哈利玛、摩多、哈利,以及雅利耶、跋罗和达特里——这七位是婴儿之母。
3.229.2
एतासां वीर्यसंपन्नः शिशुर्नामातिदारुणः ।
स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयंकरः ॥ ३.२२९.२ ॥
一个具有这些母神之力的婴儿,名字便令人畏惧——由塞建陀恩典所生的儿子,红眼,可怖。
3.229.3
एष वीरोऽष्टमः प्रोक्तः स्कन्दो मातृगणोद्भवः ।
छागवक्रेण सहितो नवमः परिकीर्त्यते ॥ ३.२२९.३ ॥
此英雄被称为第八位——由众母所生的塞建陀。与山羊面的那位一起,他被称为第九位。
3.229.4
षष्ठं छागमयं वक्रं स्कन्दस्यैवेति विद्धि तम् ।
षट्शिरोभ्यन्तरं राजन्नित्यं मातृगणार्चितम् ॥ ३.२२९.४ ॥
第六张脸是山羊的——要知道它属于塞建陀本人,大王,与六个头不同,常受众母崇拜。
3.229.5
षण्णां तु प्रवरं तस्य शीर्षाणामिह शब्द्यते ।
शक्तिं येनासृजद्दिव्यां भद्रशाख इति स्म ह ॥ ३.२२९.५ ॥
在他的六个头中,这里说的是最殊胜的那个——他以此创造了神圣的神力(长矛);他被称为跋陀罗舍迦。
3.229.6
इत्येतद्द्विविधाकारं वृत्तं शुक्लस्य पञ्चमीम् ।
तत्र युद्धं महाघोरं वृत्तं षष्ठ्यां जनाधिप ॥ ३.२२९.६ ॥
这段有两种形态的叙述发生在白半月的第五日;那里爆发了极为可怖的战斗——此事发生在第六日,人主啊。
3.229.7
उपविष्टं तु तं स्कन्दमामुक्तकवचस्रजम् ।
हिरण्यचूडमुकुटं हिरण्यांक्षं महाप्रभम् ॥ ३.२२९.७ ॥
卸下铠甲与花环而坐的斯建陀,其发髻与冠冕皆为金色,眼睛金黄,光辉极盛。
3.229.8
लोहिताम्बरसंवीतं तीक्ष्णदंष्ट्रं मनोरमम् ।
सर्वलक्षणसंपन्नं त्रैलोक्यस्यापि सुप्रियम् ॥ ३.२२९.८ ॥
身着红衣,獠牙锐利,令人心醉,具足一切吉相,甚至为三界所深爱。
3.229.9
ततस्तं वरदं शूरं युवानं मृष्टकुण्डलम् ।
अभजत्पद्मरूपा श्रीः स्वयमेव शरीरिणी ॥ ३.२२९.९ ॥
于是莲花形的吉祥天女亲自现出形体,投向那赐予恩惠的英雄、身着明亮耳环的青年。
3.229.10
श्रिया जुष्टः पृथुयशाः स कुमारो वरस्तदा ।
निषण्णो दृश्यते भूतैः पौर्णमास्यां यथा शशी ॥ ३.२२९.१० ॥
受吉祥天女侍奉的那位广有声名的殊胜少年,此时端坐而现,犹如满月之夜众生之间的月亮。
3.229.11
अपूजयन्महात्मानो ब्राह्मणास्तं महाबलम् ॥ ३.२२९.११ ॥
诸位大德婆罗门礼敬了那位大力者。
3.229.12
इदमाहुस्तदा चैव स्कन्दं तत्र महर्षयः ॥ ३.२२९.१२ ॥
当时在场的大仙人们这样谈论斯建陀。
3.229.13
हिरण्यवर्ण भद्रं ते लोकानां शंकरो भव ।
त्वया षड्रात्रजातेन सर्वे लोका वशीकृताः ॥ ३.२२९.१३ ॥
金色的你啊,愿你吉祥。为众世界做湿婆(施福者)吧。你生于六夜之间,已将一切世界收归掌控。
3.229.14
अभयंच पुनर्दत्तं त्वयैवैषां सुरोत्तम ।
तस्मादिन्द्रो भवानस्तु त्रैलोक्यस्याभयंकरः ॥ ३.२२९.१४ ॥
诸神中最优秀者啊,是你又赐予他们无畏。因此你应成为因陀罗,为三界驱除恐惧。
3.229.15
किमिन्द्रः सर्वलोकानां करोतीह तपोधनाः ।
कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः ॥ ३.२२९.१५ ॥
富于苦行的诸位啊,因陀罗在此为一切世界做什么?诸神之主又如何时时护佑诸神之众?
3.229.16
इन्द्रो दधाति भूतानां बलं तेजः प्रजाः सुखम् ।
तुष्टः प्रयच्छति तथा सर्वान्कामान्सुरेश्वरः ॥ ३.२२९.१६ ॥
因陀罗赐予众生力量、光辉、子嗣与安乐。诸神之主若感欣悦,也会同样满足一切所愿。
3.229.17
दुर्वृत्तानां संहरति व्रतस्थानां प्रयच्छति ।
अनुशास्ति च भूतानि कार्येषु बलसूदनः ॥ ३.२२९.१७ ॥
他摧毁恶行者,赐福给坚守誓愿者。杀伐波罗者在诸事中统御众生。
3.229.18
असूर्ये च भवेत्सूर्यस्तथाऽचनद्रे च चन्द्रमाः ।
भवत्यग्निश्च वायुश्च पृथिव्यापश्च स्वं तथा ॥ ३.२२९.१८ ॥
无日之处,他便成为太阳;无月之处,他便成为月亮。他成为火、风、地与水,也成为他自身的本性。
3.229.19
एतदिन्द्रेण कर्तव्यमिन्द्रे हि विपुलं बलम् ।
त्वं च वीर बली श्रेष्ठस्तस्मादिन्द्रो भवस्व न ॥ ३.२२९.१९ ॥
此事应由因陀罗来做,因为因陀罗拥有巨大的力量。而你,英雄,强大而卓越;因此你应成为因陀罗,不要推辞。
3.229.20
भवस्वेन्द्रो महाबाहो सर्वेषां नः सुखावहः ।
अभिषिच्यस्व चैवाद्य प्राप्तरूपोऽसि सत्तम ॥ ३.२२९.२० ॥
成为因陀罗吧,大臂者,你为我们所有人带来幸福。今日便应受灌顶,因为你已获得合适的形貌,善人中的最优者。
3.229.21
शाधि त्वमेव त्रैलोक्यमव्याग्रे निजये रतः ।
अहं ते किंकरः शक्र न ममेन्द्रत्वमीप्सितम् ॥ ३.२२९.२१ ॥
你自己统治三界,无所分心地乐于征服。喜阿,我是你的仆从;因陀罗之位并非我所求。
3.229.22
बलंतवाद्भुतं वीर त्वं देवानामरीञ्जहि ।
अवज्ञास्यन्ति मां लोका वीर्यण तव विस्मिताः ॥ ३.२२९.२२ ॥
你的力量奇妙无比,英雄。请你诛灭诸神的敌人。世间因你的英勇而惊叹,将会轻视我。
3.229.23
इन्द्रत्वे तु स्थितं वीर बलहीनं पराजितम् ।
त्वत्तेजसाऽवमंस्यन्ति लोका मां सुरसत्तम ॥ ३.२२९.२३ ॥
虽立于因陀罗之位,英雄啊,我却力量衰弱、已被击败。因你的光辉,世界将轻视我,诸神中的最优者啊。
3.229.24
आवयोश्च मिथो भेदे प्रयतिष्यन्त्यतन्द्रिताः ।
भेदिते च त्वयि विभो लोको द्वैधमुपेष्यति ॥ ३.२२९.२४ ॥
若你我二人之间生出分裂,人们将不知疲倦地争斗。大能者啊,若你被分裂,世界将陷入二元对立。
3.229.25
द्विधाभूतेषु लोकेषु निश्चितेष्वावयोस्तथा ।
विग्रहः संप्रवर्तेत भूतभेदान्महाबल ॥ ३.२२९.२५ ॥
当世界一分为二,且我们二者之间已经决定,战争便会爆发,啊大力者,因众生的分裂。
3.229.26
तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि ।
तस्मादिन्द्रो भवानेव भविता मा विचारय ॥ ३.२२९.२६ ॥
在那里,于战斗中,孩子,你将如你所愿战胜我。因此你自己将成为因陀罗;不要犹豫。
3.229.27
त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च ।
करोमि किं च तेशक्र शासनात्तद्ब्रवीहि मे ॥ ३.२२९.२७ ॥
你自己就是国王,愿你安好;你是三界之王,也是我的王。啊帝释,依你的命令我该做什么?请告诉我。
3.229.28
अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल ।
यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया ॥ ३.२२९.२८ ॥
啊大力者,凭你的话,我将成为因陀罗,如果你坚定说出的这番话是真实的。
3.229.29
यदि वा शासनं स्कन्द कर्तुमिच्छसि मे शृणु ।
अभिषिच्यस्व देवानां सैनापत्ये महाबल ॥ ३.२२९.२९ ॥
或者,啊斯卡达,如果你想遵从我的命令,请听:啊大力者,受膏为诸神的军队统帅。
3.229.30
दानवानां विनाशाय देवानामर्थसिद्धये ।
गोब्राह्मणहितार्थाय सैनापत्येऽभिषिञ्च माम् ॥ ३.२२९.३० ॥
为了消灭檀那婆,为了成就诸神的目标,为了牛与婆罗门的福祉,请为我加冕为军队统帅。
3.229.31
सोऽभिषिक्तो मघवता सर्वैर्देवगणैः सह ।
अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः ॥ ३.२२९.३१ ॥
他被因陀罗和众天神所灌顶,在那里受到大仙们的敬拜,光辉异常。
3.229.32
तत्र तत्काञ्चनं छत्रं ध्रियमाणं व्यरोचत ।
तथैव सुसमिद्धस्य पावकस्यात्ममण्डलम् ॥ ३.२२९.३२ ॥
那被举起的金色华盖在那里闪耀,正如熊熊燃烧的火焰自身的光轮闪耀一般。
3.229.33
विश्वकर्मकृता चास्य दिव्या माला हिरण्मयी ।
आबद्धा त्रिपुरघ्नेन स्वयमेव यशस्विना ॥ ३.२२९.३३ ॥
毗首羯摩所造的神圣金色花环,由杀死三城者、光荣的主亲自为他系上。
3.229.34
आगम्य मनुजव्याघ्र सह देव्या परंतप ।
अर्चयामास सुप्रीतो भगवान्गोवृषध्वजः ॥ ३.२२९.३४ ॥
人中之虎,焚烧敌人者啊!与天后一同来到的、以牛为旗的世尊,甚为欢喜,礼敬了他。
3.229.35
रुद्रमग्निं द्विजाः प्राहू रुद्रसूनुस्ततस्तु सः ।
कीर्त्यते सुमहातेजाः कुमारोऽद्भुतदर्शनः ॥ ३.२२९.३५ ॥
再生者称楼陀罗为火神,因此他被称为楼陀罗之子,那位光辉巨大、形貌奇特的童子。
3.229.36
रुद्रेण शुक्रमुत्सृष्टं तच्छ्वेतः पर्वतोऽभवत् ।
पावकस्येनद्रियं श्वेते कृत्तिकाभिः कृतं नगे ॥ ३.२२९.३६ ॥
楼陀罗所泄之精,化为白山;属于因陀罗的火之部分,由昴宿女在白山上所成。
3.229.37
पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वेदिवौकसः ।
रुद्रसूनुं ततः प्राहुर्गुहं गुणवतांवरम् ॥ ३.२२९.३७ ॥
诸天众生见他受楼陀罗尊崇,便称呼楼陀罗之子、德行最优者为古诃。
3.229.38
अनुप्रविश्य रुद्रेण वह्निं जातो ह्ययं शिशुः ।
तत्र जातस्ततः स्कन्दो रुद्रसूनुस्ततोऽभवत् ॥ ३.२२९.३८ ॥
楼陀罗进入火中,此婴孩便诞生了;在那里出生的他成为斯犍陀,之后又成为楼陀罗之子。
3.229.39
रुद्रस्य वह्नेः स्वाहायाः षण्णां स्त्रीणां च तेजसा ।
जातः स्कन्दः सुरश्रेष्ठो रुद्रसूनुस्ततोऽभवत् ॥ ३.२२९.३९ ॥
斯犍陀由楼陀罗、火神、斯瓦哈及六位女神的光辉所生,成为诸神中最优者,之后又成为楼陀罗之子。
3.229.40
अरजे वाससी रक्ते वसानः पावकात्मजः ।
भाति दीप्तवपुः श्रमान्रक्ताभ्राभ्यामिवांशुमान् ॥ ३.२२९.४० ॥
火神之子身着纯净的红色衣裳,光辉的身躯如同被红云包裹的太阳般闪耀。
3.229.41
कुक्कुटश्चाग्निना दत्तस्तस् केतुरलंकृतः ।
रथे समुच्छितो भाति कालाग्निरव लोहितः ॥ ३.२२९.४१ ॥
火神所赐的雄鸡装饰着他的旗帜;旗帜高扬于战车之上,闪耀如赤色的时间之火。
3.229.42
या चेष्टा सर्वभूतानां प्रभा शक्तिर्बलं तथा ।
अग्रतस्तस्य सा शक्तिर्देवानां जयवर्धनी ॥ ३.२२९.४२ ॥
凡一切众生的行动、光辉、力量与威力,皆在他面前;此力能增益诸神的胜利。
3.229.43
विवेश कवचं चास्य शरीरं सहजं तथा ।
युध्यमानस्य देवस्य प्रादुर्भवति तत्सदा ॥ ३.२२९.४३ ॥
她进入了他的铠甲与他天生的身体;在那作战的神身上,她时时显现。
3.229.44
शक्तिर्धर्मो बलं तेजः कान्तत्वं सत्यमुन्नतिः ।
ब्रह्मण्यत्वमसंमोहो भक्तानां परिरक्षणम् ॥ ३.२२९.४४ ॥
力量、法、勇力、光辉、柔美、真实、崇高、敬奉婆罗门、不迷惑,以及护佑信徒。
3.229.45
निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम् ।
स्कन्देन सह जातानि सर्वाण्येव जनाधिप ॥ ३.२२९.४५ ॥
斩杀敌人与守护世界;人主啊,这一切都与斯堪达一同诞生。
3.229.46
एवं देवगणैः सर्वैः सोऽभिषिक्तः स्वलंकृतः ।
बभौ प्रतीतः सुमनाः परिपूर्णेन्दुदर्शनः ॥ ३.२२९.४६ ॥
他受到诸天神众的全部灌顶,装饰庄严,心中欢喜,名声显扬,容貌如满月,光彩照人。
3.229.47
इष्टैः स्वाध्यायघोषैश्च देवतूर्यवरैरपि ।
देवगन्धर्वगीतैश्च सर्वैरप्सरसां गणैः ॥ ३.२२९.४७ ॥
伴随着悦耳的诵读之声、上好的天界乐器、诸天与乾闼婆的歌唱,以及众阿普萨拉斯的全部队伍。
3.229.48
एतैश्चान्यैश्च बहुभिस्तुष्टैर्हृष्टैः स्वलंकृतः ।
सुसंवृतः पिशाचानां गणैर्देवगणैस्तथा।
क्रीडन्भाति तदा देवैरभिषिक्तश्च पावकिः ॥ ३.२२९.४८ ॥
他与他们及众多其他欢喜满意之人一同庄严华饰,被夜叉群与诸天众簇拥着,嬉戏游乐,此时火神之子光彩照耀,受到诸神灌顶。
3.229.49
अभिषिक्तं महासेनमपश्यन्त दिवौकसः ।
विनिहत्य तमः सूर्यं यथैवाभ्युदितं तथा ॥ ३.२२९.४९ ॥
天上的居民看见受灌顶的摩诃塞那,如同驱散黑暗后升起的太阳。
3.229.50
अथैनमभ्ययुः सर्वा देवसेनाः सहस्रशः ।
अस्माकं त्वं पतिरिति ब्रुवाणाः सर्वतो दिशः ॥ ३.२२९.५० ॥
于是来自四面八方的成千上万神军走近他,说:“你是我们的主。”
3.229.51
ताः समासाद्य भगवान्सर्वभूतगणैर्वृतः ।
अर्चितस्तु स्तुतश्चैव सान्त्वयामास ता अपि ॥ ३.२२९.५१ ॥
他走近她们,被一切众生之群环绕的世尊,受人礼敬赞颂,也安慰了她们。
3.229.52
शतक्रतुश्चाभिषिच्य स्कन्दं सेनापतिं तदा ।
सस्मार तां देवसेनां या सा तेन विमोक्षिता ॥ ३.२२९.५२ ॥
于是百祭者(因陀罗)为塞建陀受灌顶为元帅后,想起了那支被他解救出来的神军。
3.229.53
अयं तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम् ।
संचिन्त्य त्वानयामास देवसेनां ह्यलंकृताम् ॥ ३.२२९.५३ ॥
他想:“此人必定是她的夫婿,由梵天亲自安排。”于是把盛装的神军带到他面前。
3.229.54
स्कन्दं प्रोवाच बलभिदियं कन्या सुरोत्तम ।
अजाते त्वयि निर्दिष्टा तव पत्नी स्वयंभुवा ॥ ३.२२९.५४ ॥
摧毁波罗的因陀罗对塞建陀说:“诸神中最殊胜者啊,这位少女在你出生之前,就由自生者(梵天)指定为你的妻子。”
3.229.55
तस्मात्त्वमस्या विधिवत्पाणिं मन्त्रपुरस्कृतम् ।
गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसा ॥ ३.२२९.५५ ॥
因此你应依仪轨,伴随咒语握住她的手;握住这位如莲花般光辉的女神的右手。
3.229.56
एवमुक्तः स जग्राह तस्याः पाणिं यथाविधि ।
बृहस्पतिर्मन्त्रविद्धि जजाप च जुहाव च ॥ ३.२२९.५६ ॥
受此一说,他依仪轨握住了她的手。精通咒语的布利哈斯帕蒂低声诵咒并献上供品。
3.229.57
एवं स्कन्दस्य महिषीं देवसेनां विदुर्जनाः ।
षष्ठीं यां ब्राह्मणाः प्राहुर्लक्ष्मीमासां सुखप्रदाम् ॥ ३.२२९.५७ ॥
如此,世人称斯坎达的正妃为提婆塞娜;婆罗门所称的赐予幸福的女神舍师提、吉祥天,也在这些女神之中。
3.229.58
सिनीबालीं कुहूं चैव सद्वृत्तिमपराजिताम् ।
इत्येवमादिभिर्देवी नामभिः परिकीर्त्यते ॥ ३.२२९.५८ ॥
她也以西尼瓦利、库胡、善行、无胜等名号被赞颂,以及其他类似的名字。
3.229.59
यदा स्कन्दः पतिर्लब्धः शाश्वतो देवसेनया ।
तदा तमाश्रयल्लक्ष्मीः स्वयं देवी शरीरिणी ॥ ३.२२९.५९ ॥
当提婆塞娜得到斯坎达作为永恒的丈夫时,吉祥天女本人化为有形之身,前来投靠他。
3.229.60
श्रीजुष्टः पञ्चमीस्कन्दस्तस्माच्छ्रीः पञ्चमी स्मृता ।
षष्ठ्यां कृतार्थोऽभूद्यस्थात्तस्मात्षष्ठी महातिधिः ॥ ३.२२९.६० ॥
受吉祥天眷爱的斯坎达与第五日相连,因此吉祥天被称为般遮弥;他在第六日得以圆满,因此舍师提是大客人。