Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.23

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.23.1

तस्मिन्दशार्हाधिपतौ प्रयाते ।
युधिष्ठिरो भीमसेनार्जुनौ च।
यमौ च कृष्ण च पुरोहितश्च ।
रथान्महार्हान्परमाश्वयुक्तान् ॥ ३.२३.१ ॥

十达尔哈之主离去后,坚战、怖军、阿周那、双生子、黑公主与家僧登上了以良马驾辕的贵重战车。

3.23.2

अस्थाय वीराः सहिता वनाय ।
प्रतस्थिरे भूतपतिप्रकाशाः।
हिरण्यनिष्कान्वसनानि गाश्च ।
गदाय शिक्षाक्षरमन्त्रविद्भ्यः ॥ ३.२३.२ ॥

众英雄一同登上战车,向森林出发,光辉如众生之主。他们将金币、衣物与牛布施给精通教义、音节与咒语的婆罗门。

3.23.3

प्रेष्याः पुरो विंशतिरात्तशस्त्रा ।
धनूंषि शस्त्राणि शरांश्च दीप्तान्।
मौर्वीश्च यन्त्राणि च सायकांश्च ।
सर्वे समादाय जघन्यमीयुः ॥ ३.२३.३ ॥

二十名持械侍从走在前面;他们携带全部弓、兵器、燃烧的箭、弓弦、器械与箭矢,前往后队。

3.23.4

तत्सतु वासांसि च राजपुत्र्या ।
धात्र्यश्च दास्यश्च विभूषणं च।
तदिन्द्रसेनस्त्वरितः प्रगृह्य ।
जघन्यमेवोपययौ रथेन ॥ ३.२३.४ ॥

因陀罗塞纳迅速取过公主的衣物、乳母、婢女与饰物,乘车前往后队。

3.23.5

ततः कुरुश्रेष्ठमुपेत्य पौराः ।
प्रदक्षिणं चक्रुरदीनसत्वाः।
तं ब्राह्मणाश्चाभ्यवदन्प्रसन्ना ।
मुख्याश्च सर्वे कुरुजाङ्गलानाम् ॥ ३.२३.५ ॥

随后,心志坚定的城民走近这位俱卢之最,向右绕行;欢喜的婆罗门以及俱卢与阇安伽罗之地的所有显要人物都与他交谈。

3.23.6

स चापि तानभ्यवदत्प्रसन्नः ।
सहैव तैर्भ्रातृभिर्धर्मराजः।
तस्थौ च तत्राधिपतिर्महात्मा ।
दृष्ट्वा जनौघं कुरुजाङ्गलानाम् ॥ ३.२३.६ ॥

他也欣然与他们交谈。法王与兄弟们一同站在那里;这位心胸广大的主君看见库鲁与劫盖罗的大群人众,便留在那里。

3.23.7

पितेव पुत्रेषु स तेषु भावं ।
चक्रे कुरूणामृषभो महात्मा।
ते चापि तस्मिन्भरतप्रबर्हे ।
तथा बभूवुः पितरीव पुत्राः ॥ ३.२३.७ ॥

如同父亲对儿子,那位心胸广大的库鲁雄牛对他们满怀慈爱;而他们对这位婆罗多中的至尊,也如同儿子对父亲。

3.23.8

ततस्तमासाद्य महाजनौघाः ।
कुरुप्रवीरं परिवार्य तस्थुः।
हानाथ हाधर्म इति ब्रुवाणा ।
हीताश्च सर्वेऽऽश्रुमुखा बभूवुः ॥ ३.२३.८ ॥

于是那些庞大的人群来到库鲁的这位首要英雄身边,将他围住站立,说:「唉!这真是非法(非达摩)啊!」众人皆悲痛不已,满面泪水。

3.23.9

वरः कुरूणामधिपः प्रजानां ।
पितेव पुत्रानपहाय चास्मान्।
पौरानिमाञ्जानपदांश्च सर्वान् ।
हित्वा प्रयातः क्वनु धर्मराजः ॥ ३.२३.९ ॥

库鲁与万民中最优秀的主君,如同父亲抛弃儿子一般,撇下我们、这些城中居民和所有乡间的人民,法王究竟去了哪里?

3.23.10

धिग्धार्तराष्ट्रं सुनृशंसबुद्धिं ।
धिक्सौबलं पापमतिं च कर्णम्।
अनर्थमिच्छन्ति नरेन्द्र पापा ।
ये धर्मनित्यस्य सतस्तवोग्राः ॥ ३.२३.१० ॥

可耻啊,德里塔拉什特拉之子,心地何等残忍!可耻啊,苏跋罗之子与心怀罪恶的迦尔纳!人王啊,那些恶人希望你遭受灾祸,而你始终坚守法,他们实在凶残。

3.23.11

स्वयं निवेश्याप्रतिमं महात्मा ।
पुरं महादेवपुरप्रकाशम्।
शतक्रतुप्रस्थममोघकर्मा ।
हित्वा प्रयातः क्वनु धर्मराजः ॥ ३.२३.११ ॥

这位大德亲自建造了一座无与伦比的城市,光辉如大神之城,如因陀罗之座。那行事无误的法王,舍弃此城,究竟去了何处?

3.23.12

चकार यामप्रतिमां महात्मा ।
सभां मयो देवसभाप्रकाशाम्।
तां देवगुप्तामिव देवमायां ।
हित्वाप्रयातः क्वनु धर्मराजः ॥ ३.२३.१२ ॥

大德摩耶所建的那座无与伦比的议会厅,光辉如诸神之会,仿佛诸神守护的神幻。法王舍弃它之后,究竟去了何处?

3.23.13

तान्धर्मकामार्थविदुत्तमौजा ।
बीभत्सुरुच्चैः सहितानुवाच।
आदास्यते वासमिमं निरुष्य ।
रवनेषु राजा द्विषतां यशांसि ॥ ३.२३.१३ ॥

精通法、欲、利的至上勇力者比跋图(阿周那)大声对聚集的他们说道:“在此居住之后,国王将在战斗中夺取敌人的声名。”

3.23.14

द्विजातिमुख्याः सहिताः पृथक्व ।
भवद्भिरासाद्य तपस्विनश्च।
प्रसाद्य धर्मार्थविदश्च वाच्या ।
यथार्थसिद्धिः परमा भवेन्नः ॥ ३.२३.१४ ॥

“诸位二生者中的上首,你们或共同或各自前往苦行者处,安抚通晓法与利的人,告诉他们:愿我们获得最高的真正成就。”

3.23.15

इत्येवमुक्ते वचनेऽऽर्जुनेन ।
ते ब्राह्मणाः सर्ववर्णाश्च राजन्।
मुदाऽभ्यनन्दन्सहिताश्च चक्रुः ।
प्रदक्षिणं धर्मभृतांवरिष्ठम् ॥ ३.२३.१५ ॥

阿周那说完这些话后,大王啊,那些婆罗门和所有种姓欢喜地赞许,并聚集起来,绕行那位持法者中的最上者。

3.23.16

आमन्त्र्य पार्थं च वृकोदरं च ।
धनंजयं याज्ञसेनीं यमौ च।
प्रतस्थिरे राष्ट्रमरपेतहार्षा ।
युधिष्ठिरेणानुमता यथास्वम् ॥ ३.२३.१६ ॥

与帕尔沙、狼腹、财征、耶阇西尼及双生子告别后,在坚战允许下,他们各自踏上道路,喜悦未减。