Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.230

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.230.1

श्रिया जुष्टं महासेनं देवसेनापतीकृतम् ।
सप्तर्षिपत्नयः षड् देव्यस्तत्सकाशमथागमन् ॥ ३.२३०.१ ॥

身披光辉、被任为诸天军统帅的大将(室建陀)——那时,七仙之六位妻子、诸女神来到他面前。

3.230.2

ऋषिभिः संपरित्यक्ता धर्मयुक्ता महाव्रताः ।
द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम् ॥ ३.२३०.२ ॥

她们被诸仙完全抛弃,持守法度,发大愿,急速前来,向诸天军统帅、主神说道。

3.230.3

वयं पुत्र परित्यक्तां भर्तृभिर्देवसंमितैः ।
अकारणाद्रुषा तैस्तु पुण्यस्थानात्परिच्युताः ॥ ३.२३०.३ ॥

孩子啊,我们被如同诸神的丈夫抛弃;他们无故怀怒,把我们从圣地推落下来。

3.230.4

अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम् ।
तत्सत्यमेतत्संश्रुत्य तस्मान्नस्त्रातुमर्हसि ॥ ३.२३०.४ ॥

有人说你是我们所生;既听闻此为真实,你理当护佑我们。

3.230.5

अक्षयश्च भवेत्स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो ।
त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव ॥ ३.२३०.५ ॥

主啊,愿因你的恩典,我们的天界永不消失;我们也希望你成为我们的儿子。如此行事,你便可免除恩债。

3.230.6

मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः ।
यद्वापीच्छत तत्सर्वं संभविष्यति वस्तथा ॥ ३.२३०.६ ॥

你们都是我的母亲,无瑕的女神们;我是你们的儿子。凡你们所愿,都将如你们所愿地成就。

3.230.7

विवक्षन्तं ततः शक्रं किं कार्यमिति सोऽब्रवीत् ।
उक्तः स्कन्देन ब्रूहिति सोऽब्रवीद्वासवस्ततः ॥ ३.२३०.७ ॥

于是帝释欲言,问道:“当做何事?”斯根陀说:“说吧。”于是婆薮便说道。

3.230.8

अभिजित्स्पर्धमाना तु रोहिण्या कन्यसी स्वसा ।
इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता ॥ ३.२३०.८ ॥

阿毗之与罗希尼相争,虽为幼妹,却想要长幼之序,便前往森林修苦行。

3.230.9

तत्र मूढोस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम् ।
कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय ॥ ३.२३०.९ ॥

我在那里感到困惑。愿你平安。宿星已从天空坠落。斯根陀啊,请与梵天一同思考这至上的时机。

3.230.10

धनिष्ठादिस्तदा कालो ब्रह्मणा परिकल्पितः ।
रोहिणी ह्यभवत्पूर्वमेवं सङ्ख्या समाभवत् ॥ ३.२३०.१० ॥

于是梵天确定了以达尼什塔开始的时间。先前罗希尼为首,于是便形成了这样的计算。

3.230.11

एवमुक्ते तु शक्रेण त्रिदिवं कृत्तिका गताः ।
नक्षत्रं शकटाकारं भाति तद्वह्निदैवतम् ॥ ३.२३०.११ ॥

帝释如此说后,昴宿诸女升往天界。那以火为神的星宿,形如车辆而闪耀。

3.230.12

विनता चाब्रवीत्स्कन्दं मम त्वं पिण्डदः सुतः ।
इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम् ॥ ३.२३०.१२ ॥

毗那陀对斯根陀说:“你是为我供奉祭品的儿子。孩子啊,我总想与你同住。”

3.230.13

एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात्प्रशाधि माम् ।
स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा ॥ ३.२३०.१३ ॥

斯kanda说:就这样吧,向你致敬。出于子爱,请教导我。女神啊,受儿媳们敬奉,你将永远居住。

3.230.14

अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत् ।
वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः।
इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः ॥ ३.२३०.१४ ॥

于是众母对斯卡达说:我们是整个世界的母亲,为诗人所赞颂。我们希望成为你的母亲;请礼敬我们。

3.230.15

तासां तु वचनं श्रुत्वास्कन्दो वचनमब्रवीत् ।
मातरो हि भवत्यो मे भवतीनामहं सुतः।
उच्यतां यन्मया कार्यं भवतीनामथेप्सितम् ॥ ३.२३०.१५ ॥

斯卡达听了她们的话,说:你们确实是我的母亲,我是你们的儿子。请告诉我,你们所愿,我应做什么。

3.230.16

यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः ।
अस्माकं तु भवेत्स्थानं तासां चैव न तद्भवेत् ॥ ३.२३०.१६ ॥

那些先前被安置于此世界的母亲们——这个位置应归于我们,而不应归于她们。

3.230.17

भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ ।
प्रजाऽस्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः ॥ ३.२३०.१७ ॥

愿我们在世间受人敬拜,她们则不受敬拜。众神之首啊,她们夺走了我们的子嗣;为了你,请将她们交给我们。

3.230.18

वृत्ताः प्रजा न ताः प्रक्या भवतीभिर्निषेवितुम् ।
अन्प्रां वः कां प्रयच्छामि प्रजां यां मनसेच्छथा ॥ ३.२३०.१८ ॥

斯建陀说:“那些子嗣早已注定,不适合你们众母享用。食物为生的你们,我该赐予何种子嗣?请说出你们心中所愿。”

3.230.19

इच्चाम तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः ।
त्वया सह पृथग्भूता ये च तासामथेश्वराः ॥ ३.२३०.१९ ॥

众母说:“我们想享用那些母亲的子嗣,请赐给我们。与你分开的那些主宰者,也请与你一同赐给我们。”

3.230.20

प्रजा वो दद्मि कष्टं तु भवतीभिरुदाहृतम् ।
परिरक्षत भद्रं वः प्रजा साधुनमस्कृताः ॥ ३.२३०.२० ॥

斯建陀:“我将子嗣赐予你们,但也请接受你们所说的那句严厉之言。愿你们平安;请护佑那些受到恰当敬奉的子嗣。”

3.230.21

परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि ।
त्वया नो रोचते स्कन्द सहवासश्चिरंप्रभो ॥ ३.२३०.२१ ॥

众母说:“斯建陀,愿你平安;我们将依你所愿护佑子嗣。斯建陀,主上,我们乐意与你长久相处。”

3.230.22

यावत्षोडश वर्षाणि भवन्ति तरुणाः प्रजाः ।
प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः ॥ ३.२३०.२२ ॥

斯建陀:“只要那些年轻的子嗣十六岁,就以各种形态折磨世人。”

3.230.23

अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम् ।
परमं तेन सहिताः सुखं वत्स्यथ पूजिताः ॥ ३.२३०.२३ ॥

斯建陀:“我将把我那猛烈不朽的自身赐予你们;与它相合,受人尊崇,你们将安乐地居住。”

3.230.24

ततः शरीरात्स्कन्दस्य परुषः पावकप्रभः ।
भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाबलः ॥ ३.२३०.२४ ॥

于是从斯甘达的身体中走出一个粗暴、如火光般明亮、大力无比的存在,要吞噬凡人的众生。

3.230.25

अपतत्सहसा भूमौ विसंज्ञोऽथ क्षुधार्दितः ।
स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद्ग्रहः ॥ ३.२३०.२५ ॥

他忽然倒在地上,昏迷不醒,饥饿所苦;得到斯甘达的许可后,他成为了可怖形貌的攫取之灵。

3.230.26

स्कन्दापस्मार इत्याहुर्गृहं तं द्विजसत्तमाः ।
विनता तु महारौद्रा कथ्यते शकुनिग्रहः ॥ ३.२३०.२६ ॥

诸位婆罗门中的最优者啊,人们称那攫取之灵为斯甘达的癫痫;而极其可怖的毗娜塔被称为攫取飞鸟之灵。

3.230.27

मातॄणां राक्षसंप्राहुस्तं विद्यात्पूतनाग्रहम् ।
कष्टा दारुणरूपेण घोररूपा निशाचरी ॥ ३.२३०.२७ ॥

人们称它为诸母的罗刹;应知它是普坦娜之灵:残酷的夜行女,形貌可怖而骇人。

3.230.28

पशाची रदारुणाकारा कथ्यते शीतपूतना ।
गर्भान्सा मानुषीणां तु हरते घोरदर्शना ॥ ३.२३०.२८ ॥

齿牙可怖、形貌骇人的女鬼称为寒冷普坦娜;她形貌恐怖,攫取人间妇女的胎儿。

3.230.29

अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः ।
सोऽपि बालान्महागोरो बाधते वै महाग्रहः ॥ ३.२३०.२९ ॥

人们称阿迭提为雷瓦蒂,她的灵是雷瓦塔;那位极白皙的大灵也折磨孩童。

3.230.30

दैत्यानां या दितिर्माता तामाहुर्मुखमण्डिकाम् ।
अत्यर्थं शिशुमांसेन संप्रहृष्टा दुरासदा ॥ ३.२३०.३० ॥

达提耶之母提提被称为面具母,因享用幼儿之肉而极为欢喜,变得难以接近。

3.230.31

कुमाराश्च कुमार्यश् ये प्रोक्ताः स्कन्दसंभवाः ।
तेऽपि गर्भभुजः सर्वे कौरव्यसुमहाग्रहाः ॥ ३.२३०.३१ ॥

据说由斯坎达所生的童男童女,都是食胎者,俱耶,他们都是大恶神。

3.230.32

तासामेव तु पत्नीनां पतयस्ते प्रकीर्तिताः ।
आजायमानान्गृह्णन्ति बालकान्रौद्रकर्मणः ॥ ३.२३०.३२ ॥

据说这些人是那些女神的丈夫;行残暴之事者抓取刚出生的婴儿。

3.230.33

गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप ।
शकुनिस्तामथारुह्यसह भुङ्क्ते शिशून्भुवि ॥ ३.२३०.३३ ॥

国王啊,智者称为牛母的苏拉比,沙古尼骑乘其上,在大地上吞食婴儿。

3.230.34

सरमा नाम या माता शुनां देवी जनाधिप ।
साऽपिगर्भान्समादत्ते मानुषीणां सदैव हि ॥ ३.२३०.३४ ॥

人主啊,名为萨拉玛的犬母女神,也总是夺取人类女子的胎儿。

3.230.35

पादपानां च या माता करञ्जनिलया हि सा ।
वरदा सा हि सौम्या च नित्यं भूतानुकम्पिनी ॥ ३.२३०.३५ ॥

她是树木之母,居于卡兰遮树中,能赐予恩惠;她温和,常怜悯众生。

3.230.36

करञ्जे तां नमस्यन्ति तस्मात्पुत्रार्थिनो नराः ।
इमे त्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः ॥ ३.२३०.३६ ॥

因此渴望儿子的人在卡兰Ja树中向她礼拜。还有这十八位其他的格拉哈,喜爱肉与蜜。

3.230.37

द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे ।
कद्रूः सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशत्यथ ॥ ३.२३०.३७ ॥

十个夜晚,他们始终停留在产房中。迦德卢化为细微之身,随后进入怀孕的女人体内。

3.230.38

भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते ।
गन्धर्वाणां तु या माता सा गर्भं गृह्य गच्छति ॥ ३.२३०.३८ ॥

她在那里吞噬那胎儿,并生下一条蛇。而乾闼婆之母则带走胎儿离去。

3.230.39

ततो विलीनगर्भा सा मानुषी भुवि दृश्यते ।
या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा ॥ ३.२३०.३९ ॥

随后胎儿消融,她便以人的形象出现在大地上。而阿普萨拉斯之母则抓住胎儿,留在那里。

3.230.40

उपविष्टं ततो गर्भं कथयनति मनीषिणः ।
लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता ॥ ३.२३०.४० ॥

此时智者说胎儿已安坐。她是血海之女,被尊为斯坎达的乳母。

3.230.41

लोहितायनिरित्येवं कदम्बे सा हि पूज्यते ।
पुरुषे तु यथा रुद्रस्तथाऽऽर्या प्रमदास्वपि ॥ ३.२३०.४१ ॥

她以罗希塔亚尼之名,在迦丹婆树中受到供奉。正如男子中有楼陀罗,女子中这位尊贵者也同样受到敬拜。

3.230.42

आर्या माता कुमारस्य पृथक्कामार्थमिज्यते ।
एवमेते कुमाराणां मया प्रोक्ता महाग्रहाः ॥ ३.२३०.४२ ॥

男孩的尊贵母亲为各自的愿望而受到供奉。如此,我已宣说了这些孩童的大摄取者。

3.230.43

यावत्षोडश वर्षाणि शिशूनां ह्यशिवास्ततः ।
ये च मातृगणाः प्रोक्ताः पुरुषाश्चैवये ग्रहाः ॥ ३.२३०.४३ ॥

直到十六岁,对于婴儿来说,有这些不吉的母众,以及所说的男性摄取者。

3.230.44

सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः ।
तेषां प्रशमनं कार्यं स्नानं धूपमथाञ्जनम्।
बलिकार्गेपहाराश् स्कन्दस्येज्या विशेषतः ॥ ३.२३०.४४ ॥

这些都被称为斯堪达的摄取者,有形之人应当时时认识。平息它们应当以沐浴、焚香、涂膏,以及食物和礼物的供奉,尤其是礼拜斯堪达。

3.230.45

एवमभ्यर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम् ।
आयुर्दीर्घं च राजेनद्रसम्यक्पूजानमस्कृताः ॥ ३.२३०.४५ ॥

如此妥善地礼拜和致敬之后,它们都会赐予人们吉祥与长寿,哦,诸王之王。

3.230.46

ऊर्ध्वं तु षोडशाद्वर्षाद्ये भवन्ति ग्रहा नृणाम् ।
तानहं संप्रवक्ष्यामि नमस्कृत्य महेश्वरम् ॥ ३.२३०.४६ ॥

十六岁之后降临于人的摄取者,我将在向摩醯首罗致敬之后完整宣说。

3.230.47

यः पश्यति नरो देवाञ्जाग्रद्वा शयितोपि वा ।
उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः ॥ ३.२३०.४७ ॥

人无论醒着还是睡着,若见到诸神,便很快发狂;这被称为神之摄取者。

3.230.48

आसीनश्च शयानश्च यः पश्यति नरः पितॄन् ।
उन्माद्यतिस तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः ॥ ३.२३०.४८ ॥

无论坐着还是躺着,见到祖灵的人很快就会发狂;应知他是被祖灵所执(pitṛ-graha)。

3.230.49

अवमन्यति यः सिद्धान्क्रुद्धाश्चापि शपन्ति यम् ।
उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः ॥ ३.२३०.४९ ॥

轻慢悉陀(siddha)、并被愤怒的悉陀诅咒之人,很快就会发狂;应知他是被悉陀所执(siddha-graha)。

3.230.50

उपाघ्राति च यो गन्धान्रसांश्चापि पृथग्विधान् ।
उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः ॥ ३.२३०.५० ॥

嗅闻各种香气、品尝各种味道之人,很快就会发狂;应知他是被罗刹所执(rākṣasa-graha)。

3.230.51

गन्धर्वाश्चापि यं दिव्याः संविशन्ति नरं भुवि ।
उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः ॥ ३.२३०.५१ ॥

凡人间被天界乾闼婆(gandharva)进入其身者,很快就会发狂;这正是乾闼婆所执(gāndharva-graha)。

3.230.52

अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं प्रति ।
उन्माद्यति स तु क्षिप्रं ग्रहः पैशाच एव सः ॥ ३.२३०.५२ ॥

被毕舍遮(piśāca)持续附身之人,很快就会发狂;这正是毕舍遮所执(paiśāca-graha)。

3.230.53

आविशन्ति च यं यक्षाः पुरुषं कालपर्यये ।
उनमाद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः ॥ ३.२३०.५३ ॥

于时运转换之际被夜叉(yakṣa)进入其身者,很快就会发狂;应知他是被夜叉所执(yakṣa-graha)。

3.230.54

यस् दोषैः प्रकुपितं चित्तं मुह्यति देहिनः ।
उनमाद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः ॥ ३.२३०.५४ ॥

若有身者心因过失而激动迷乱,便迅速发狂;其治法依照典籍。

3.230.55

वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शनात् ।
उन्माद्यति स तु क्षिप्रं सान्त्वं तस्य तु साधनम् ॥ ३.२३०.५५ ॥

因慌乱与恐惧,也因见到可怖之物,他便迅速发狂;其治法是安慰。

3.230.56

कश्चित्क्रीडितुकामो वै भोक्तुकामस्तथाऽपरः ।
अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः ॥ ३.२३०.५६ ॥

有人欲嬉戏,有人欲享受,又有人另有所欲;如此,此执有三种。

3.230.57

यावत्सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम् ।
अतः परं देहिनां तु ग्रहतुल्या भवेञ्जरा ॥ ३.२३०.५७ ॥

直到七十岁,这些执著仍附于人;此后,对于有身者而言,衰老便如同执著。

3.230.58

अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम् ।
आस्तिकं श्रद्दधानं च वर्जयन्ति तदा ग्रहाः ॥ ३.२३०.५८ ॥

诸根不散、自制、清净、常不懈怠、信奉、有信心者,诸执便会远离。

3.230.59

इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः ।
न स्पृशन्ति ग्रहा भक्तान्नरान्देवं महेश्वरम् ॥ ३.२३०.५९ ॥

如是,关于人之执著的此教诲已向你宣说。诸执不触及那些虔敬大自在天(摩醯首罗)的信徒。