摩诃婆罗多 · 章 3.231
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.231.1
यदा स्कन्देन मातृणामेवमेतत्प्रियं कृतम् ।
अथनैमब्रवीत्स्वाहा मम पुत्रस्त्वमौरसः ॥ ३.२३१.१ ॥
当斯甘达为诸母如此行善之后,他对娑訶说:“你是我亲生的女儿。”
3.231.2
इच्छाम्यहं त्वया दत्तां प्रीतिं परमदुर्लभाम् ।
तामब्रवीत्ततः स्कन्दः प्रीतिमिच्छसि कीदृशीम् ॥ ३.२३१.२ ॥
我希望得到你所赐予的那种极难获得的恩惠。”于是斯甘达对她说:“你希望得到什么样的恩惠?”
3.231.3
दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज ।
बाल्यात्प्रभृति नित्यं च जातकामा हुताशने ॥ ३.२३१.३ ॥
啊,大臂者!我是达刹最心爱的女儿,名叫娑訶。自幼以来,我便常常心向火神。
3.231.4
न स मां कामिनीं पुत्र सम्यग्जनाति पावकः ।
इच्छामि शाश्वतं वासं वस्तु पुत्र सहाग्निना ॥ ३.२३१.४ ॥
孩儿啊,火神并不真正了解我这个心怀渴望的人。我愿与阿耆尼永远同住。
3.231.5
हव्यं कव्यंच यत्किंचिद्द्विजा मन्त्रसुसंस्तुतम् ।
होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वासमुद्धृतम् ॥ ३.२३१.५ ॥
女神啊,无论何种祭品(havya)或祭祖之供(kavya),婆罗门以咒语善加赞颂后,总是投入火中,并念诵“娑訶”而献上。
3.231.6
अद्यप्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः ।
एवमग्निसत्वया सार्धं सदा वत्स्यति शोभने ॥ ३.२३१.६ ॥
从今日起,品行端正、立于正道的人们将会奉献。如此,光彩的女神啊,阿耆尼将永远与你同在。
3.231.7
एवमुक्ता ततः स्वाहा तुष्टास्कन्देन पूजिता ।
पावकेन समायुक्ता भर्त्रा स्कन्दमपूजयत् ॥ ३.२३१.७ ॥
如此被告知后,斯瓦哈心满意足,受到斯建陀的尊敬,与帕瓦迦(火神)结合,与她的丈夫一同礼敬斯建陀。
3.231.8
ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत् ।
अभिगच्छ महादेवं पितरं त्रिपुरार्दनम् ॥ ३.२३१.८ ॥
于是造物主梵天对摩诃舍那(斯建陀)说:去见摩诃提婆,你的父亲,那摧毁三城者。
3.231.9
रुद्रेणाग्निं समाविश्य स्वाहामाविश्य चोमया ।
हितर्थं सर्वलोकानां जातस्त्वमपराजितः ॥ ३.२३१.९ ॥
由楼陀罗入于阿耆尼,并与优摩一同入于斯瓦哈,你为了一切世界的利益而诞生,成为不可战胜者。
3.231.10
उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना ।
अस्मिन्गिरौ निपतितं मिञ्जिकमिञ्जिकं यतः ॥ ३.२३१.१० ॥
摩诃罗陀(楼陀罗)将精液注入优摩的子宫;它落在这座山上,由此得名为弥因基卡-弥因基卡之地。
3.231.11
मिथुनं वै महाभाग तत्र तद्रुद्रसंभवम् ।
संभूतं लोहितोदे तु शुक्रशेषमवापतत् ॥ ३.२३१.११ ॥
啊,大福者!那里生出了由楼陀罗所生的那一对;而生于罗希托达的精液的残余部分落下了。
3.231.12
सूर्यरश्मिषु चाप्यनयदन्यच्चैवापतद्भुवि ।
आसक्तमन्यद्वृक्षेषु तदेवं प्चधाऽपतत् ॥ ३.२३१.१२ ॥
一部分被携入太阳的光线中,另一部分落到地上;另一部分粘附在树木上;如此,它以五种方式落下。
3.231.13
तत्र ते विविधाकारा गणा ज्ञेया मनीषिभिः ।
तव पारिषदा घोरा य एते पिशिताशिनः ॥ ३.२३१.१३ ॥
那里形态各异的众神灵,智者应当识知;这些食肉的可怖夜叉,都是你的随从。
3.231.14
एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम् ।
अपूजयदमेयात्मा पितरं पितृवत्सलः ॥ ३.२३१.१४ ॥
他说:「就这样吧。」无量心的、敬爱父亲的摩诃塞那礼拜了摩醯首罗。
3.231.15
अर्कपुष्पैस्तु ते पञ् गणाः पूज्या धनार्थिभिः ।
व्यादिप्रशमनार्थं चतेषां पूजां समाचरेत् ॥ ३.२३१.१५ ॥
求财者应以阿迦花供奉那五个群体;为平息疾病,也应当对他们行祭礼。
3.231.16
मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसंभवम् ।
नमस्कार्यं सदैवेह बालानां हितमिच्छता ॥ ३.२३१.१६ ॥
弥尼迦与弥尼迦姆,这对由楼陀罗所生的神,希望孩童安康者应当常在此处礼敬。
3.231.17
स्त्रियो मानुषमांसादा वृक्षका नाम नामतः ।
वृक्षेषु जातास्ता देव्यो नमस्कार्याः प्रजार्थिभिः ॥ ३.२३१.१७ ॥
食人肉的女子,名为树夜叉,生于树中;求子嗣者应礼敬这些女神。
3.231.18
एषामेव पिशाचानामसङ्ख्येयगणाः स्मृताः ।
घण्टायाः सपताकायाः शृणु मे संभवं नृप ॥ ३.२३१.१८ ॥
这些毕舍遮的无数群体被记述;大王,请听我讲述铃铛及其幡旗的起源。
3.231.19
ऐरावतस्य घण्टे द्वे वैजयन्त्याविति श्रुते ।
गुहस्य ते स्वयं दत्ते क्रमेणानाय्य धीमता ॥ ३.२३१.१९ ॥
据闻,爱罗婆多的两个铃和两面胜利旗,由智者亲自带来,依次交给了Guha(Skanda)。
3.231.20
एका तत्रविशाखस्य घण्टा स्कन्दस्य चापरा ।
पताका कार्तिकेयस् विशाखस्य च लोहिता ॥ ३.२३१.२० ॥
其中一个铃属于Viśākha,另一个属于Skanda;旗帜属于Kārtikeya,而红色旗属于Viśākha。
3.231.21
यानि क्रीडनकान्यस्य देवैर्दत्तानि वै तदा ।
तैरेव रमते देवो महासेनो महाबलः ॥ ३.२३१.२१ ॥
大力的神Mahāsena便以当时诸神赠予他的玩物为乐。
3.231.22
स संवृतः पिशाचानां गणैर्देवगणैस्तथा ।
शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृत्तः ॥ ३.२३१.२२ ॥
被毕舍遮众与天众环绕,他在金山上光辉闪耀,充满荣光。
3.231.23
तेन वीरेण शुशुभे स शैलः शुभकाननः ।
आदित्येनेवांशुमता मन्दरश्चारुकन्दरः ॥ ३.२३१.२३ ॥
因那位英雄,此山以美丽的森林而光辉,正如曼陀罗山在光芒的太阳照耀下,以美丽的洞穴而闪耀。
3.231.24
संतानकवनैः फुल्लैः करवीरवनैरपि ।
पारिजातवनैश्चैव जपाशोकवनैस्तथा ॥ ३.२३१.२४ ॥
山上还有盛开的Santānaka林、夹竹桃林、Pārijāta林、japā与aśoka林装点。
3.231.25
कदम्बतरुषण्डैश्च दिव्यैर्मृगगणैरपि ।
दिव्यैः पक्षिगणैश्चैव शुशुभे श्वेतपर्वतः ॥ ३.२३१.२५ ॥
白山因成簇的甘巴树、神圣的鹿群和神圣的鸟群而光彩熠熠。
3.231.26
तत्रदेवगणाः सर्वेसर्वे देवर्षयस्तथा ।
मेघतूर्यरवाश्चैव क्षुब्धोदधिसमस्वनाः ॥ ३.२३१.२६ ॥
那里有诸神的全部众队和神圣的仙人;云鼓之声响起,如同翻腾大海的轰鸣。
3.231.27
तत्रदेवाश्च गन्धर्वा नृत्यन्तेऽप्सरसस्तथा ।
हृष्टानां तत्रभूतानां श्रूयते निनदो महान् ॥ ३.२३१.२७ ॥
那里诸神与乾达婆起舞,阿普萨拉斯也在起舞;在场欢喜的众生发出巨大的喧声。
3.231.28
एवं सेन्द्रं जगत्सर्वं श्वेतपर्वतसंस्थितम् ।
प्रहृष्टं प्रेक्षते स्कन्दं न च ग्लायति दर्शनात् ॥ ३.२३१.२८ ॥
如此,连同因陀罗在内的整个世界,站在白山上,欢喜地注视着斯根达,看之不倦。