摩诃婆罗多 · 章 3.232
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.232.1
यदाऽभिषिक्तो भगवान्सैनापत्ये तु पावकिः ।
तदा संप्रस्थितः श्रीमान्हृष्टो भद्रवटं हरः ॥ ३.२३२.१ ॥
当尊贵的帕瓦基被任命为军队统帅时,光荣的哈罗欢喜地前往跋陀罗伐吒。
3.232.2
रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः ।
अनुयातः सुरैः सर्वैः सहस्राक्षपुरोगमैः ॥ ३.२३२.२ ॥
乘着如太阳般颜色的车,主神与帕尔瓦蒂同行,所有天神在千眼者(因陀罗)的率领下随后跟随。
3.232.3
सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे ।
उत्पपात दिवं शुभ्रं कालेनाभिप्रचोदितम् ॥ ३.२३२.३ ॥
套在那辆上等战车上的千头狮子,受时间驱使,腾空飞入光明的天空。
3.232.4
तेपिबन्त इवाकाशं त्रासयन्तक्षराचरान् ।
सिंहा नभस्यगच्छन्त नदन्तश्चारुकेसराः ॥ ३.२३२.४ ॥
仿佛要饮尽天空,使动与不动的众生恐惧,鬃毛美丽的狮子咆哮着飞入天空。
3.232.5
तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह ।
विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा ॥ ३.२३२.५ ॥
帕苏帕蒂与乌玛同坐在那辆车上,光辉如太阳伴着闪电,置身于带有彩虹的浓云之中。
3.232.6
अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह ।
आस्थाय रुचिरं याति पुष्पकं नरवाहनः ॥ ३.२३२.६ ॥
在他前方,尊贵的财神俱毗罗(Dhaneśa)与古耶迦一同乘坐华美的普什帕卡车前行,那是由人抬着的车辇。
3.232.7
ऐरावतं समास्थाय शक्रश्चापि सुरैः सह ।
पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम् ॥ ३.२३२.७ ॥
骑着爱罗婆多的因陀罗也与诸神一同跟在后面,随行于那位赐予恩惠、以牛为旗的神之后。
3.232.8
जृम्भकैर्यक्षरक्षोभिः स्रग्विभिः समलंकृतः ।
यात्यमोघो महायक्षो दक्षिणं पक्षमास्थितः ॥ ३.२३२.८ ॥
以吉利迦、夜叉、罗刹及戴花环的众随从庄严装饰,不败的大夜叉行进,居于右侧。
3.232.9
तस्य दक्षिणतो देवा बहवश्चित्रयोधिनः ।
गच्छन्ति वसुभिः सार्धं रुद्रैश्च सह संगताः ॥ ३.२३२.९ ॥
在他的右边,许多神明与奇异的战士一同前行,与婆苏和楼陀罗相会合。
3.232.10
यमश्च मृत्युना सार्धं सर्वतः परिवारितः ।
घोरैर्व्याधिशतैर्याति घोररूपवपुस्तथा ॥ ३.२३२.१० ॥
阎摩与死神一同前行,四面被数百种可怕的疾病所环绕,形貌与身躯皆骇人。
3.232.11
यमस्य पृष्ठतश्चैव रघोरस्त्रिशिखरः शितः ।
विजयो नाम रुद्रस्य याति शूलः स्वलंकृतः ॥ ३.२३२.११ ॥
在阎摩身后,行进着名为“胜利”的楼陀罗之三叉戟,骇人、三尖而锋利,装饰精美。
3.232.12
तमुग्रपाशो वरुणो भगवान्सलिलेश्वरः ।
परिवार्य शनैर्याति यादोभिर्विविधैर्वृतः ॥ ३.२३२.१२ ॥
水神之主、尊贵的伐楼那手持可怖的绳索,环绕着他缓缓前行,身边跟随着各种水中生物。
3.232.13
पृष्ठतोविजयस्यापि याति रुद्रस्य पट्टसः ।
गदामुसलशक्त्याद्यैर्वृतः प्रहरणोत्तमैः ॥ ३.२३२.१३ ॥
在胜利者之后,也有楼陀罗的 paṭṭasa 前行,周围环绕着棍棒、杵、长矛等上好兵器。
3.232.14
पट्टसं त्वन्वगाद्राजंश्छत्रं रौद्रं महाप्रभम् ।
कमण्डलुश्चाप्यनु तं महर्षिगणसेवितः ॥ ३.२३२.१४ ॥
大王啊,跟随 paṭṭasa 的是可怖而光辉极盛的伞盖,其后是由众大仙侍奉的水瓶。
3.232.15
तस्य दक्षिणतो भाति दण्डो गच्छञ्श्रिया वृतः ।
भृग्वङ्गिरोभिः सहितो दैधतैश्चानुपूजितः ॥ ३.२३२.१५ ॥
其右侧,权杖前行而闪耀,被荣光环绕,与婆利古及安吉罗斯同行,并受到提陀族的恭敬供奉。
3.232.16
एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः ।
याति संहर्षयन्सर्वांस्तेजसा त्रिदिवौकसः ॥ ३.२३२.१६ ॥
在他们之后,楼陀罗站在洁净的车上前行,以其光辉使一切天界居民欢喜。
3.232.17
ऋषयश्चापि देवाश्च गन्धर्वा भुजगास्तथा ।
नद्यो ह्रदाःसमुद्राश्चतथैवाप्सरसां गणाः ॥ ३.२३२.१७ ॥
仙人与诸天,乾闼婆与蛇族;还有河流、湖泊、海洋,以及阿普萨拉斯的群队。
3.232.18
नक्षत्राणि ग्रहाश्चैवदेवानां शिशवश्च ये ।
स्त्रियश्च विविधाकारा यान्ति रुद्रस्य पृष्ठतः ॥ ३.२३२.१८ ॥
星宿与行星,诸神的孩童,以及形态各异的女子,都跟随在楼陀罗之后。
3.232.19
सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः ।
पर्जन्यश्चाप्यनुययौ नमस्कृत्य पिनाकिनम् ॥ ३.२३२.१९ ॥
容貌美丽的优秀女子一路撒下花雨,云也向持弓者(毗那基)致敬后跟随而去。
3.232.20
छत्रं च पाण्डुरं सोमस्तस्य मूर्धन्यधारयत् ।
चामरे चापि वायुश्च गृहीत्वाऽग्निश्च धिष्ठितौ ॥ ३.२३२.२० ॥
月神在他头顶撑起白色华盖;风神与火神手持牦牛尾拂尘侍立。
3.232.21
शक्रश्च पृष्ठतस्तस्य याति राजञ्छ्रिया वृतः ।
सहराजर्षिभिः सर्वैः स्तुवानो वृषकेतनम् ॥ ३.२३२.२१ ॥
国王啊,因陀罗也在他身后前行,被光辉环绕,与众王仙一同赞颂持牛旗者。
3.232.22
गौरी विद्याऽथ गान्धारी केशिनी मित्रसाह्वया ।
सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः ॥ ३.२३२.२२ ॥
高丽、毗陀、乾陀利、鸡舍尼以及名为弥多罗的女神,与萨维特丽一同,都走在帕尔瓦蒂身后。
3.232.23
तत्र विद्यागणाः सर्वेये केचित्कविभिः स्मृताः ।
तस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे ॥ ३.२३२.२३ ॥
在那里,诗人们所传颂的一切智慧众神,与因陀罗等诸天,在军队前列遵从他的命令。
3.232.24
गृहीत्वा तु पताकां वै यात्यग्रे राक्षसो ग्रहः ।
व्यापृतस्तु श्मशाने यो नित्यं रुद्रस् वै सखा।
पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः ॥ ३.२३२.२४ ॥
手持旗帜,罗刹星走在前面;那便是毗陵伽,药叉之王,常在火葬场忙碌,是楼陀罗的朋友,给世界带来喜乐。
3.232.25
एबिश्च सहितो देवस्तत्रयाति यथासुखम् ।
अग्रतः पृष्ठतस्चैवं न हि तस्य गतिर्ध्रुवा ॥ ३.२३२.२५ ॥
与这些随从同行,神祇悠然前往那里;无论前后,他的行进都不固定。
3.232.26
रुद्रं सत्कर्मभिर्मर्त्याः पूजयन्तीह दैवतम् ।
शिवमित्येव यं प्राहुरीशं रुद्रं पिनाकिनम् ॥ ३.२३२.२६ ॥
凡人以善行在此崇拜神祇楼陀罗,人们称他为湿婆,主宰者楼陀罗,持毗那迦弓者。
3.232.27
एवं सर्वे सुरगणास्तदा वै प्रीतमानसाः ।
भावैस्तु विविधाकारैः पूजयन्ति महेश्वरम् ॥ ३.२३२.२७ ॥
于是诸天神众心怀欢喜,以种种心意礼拜大自在天。
3.232.28
कदेवसेनापतिस्त्वं देवसेनाभिरावृतः ।
अनुदच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः ॥ ३.२३२.२८ ॥
诸天军的统帅啊,你被天军环绕,跟随天神之主而行,你敬重婆罗门,是迦利底迦之子。
3.232.29
अथाब्रवीन्महासेनं महादेवो बृहद्वचः ।
सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः ॥ ३.२३२.२९ ॥
于是大天对大军说了重要的话:'要永远不倦地守护第七群风神。'
3.232.30
सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो ।
यदन्यदपि मे कार्यं देव तद्वद माचिरम् ॥ ३.२३२.३० ॥
主啊,我将守护第七群风神。天神啊,若我还有别的职责,请速告诉我。
3.232.31
कार्येष्वहं त्वया पुत्र संद्रष्टव्यः सदैव हि ।
दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि ॥ ३.२३२.३१ ॥
孩子,在你的事务中,你应当始终来见我。因见我并以虔诚,你将获得至高的福祉。
3.232.32
इत्युक्त्वा विससर्जैनं परिष्यज्य महेश्वरः ।
स्कन्दं सहोमया प्रीतो ज्वलन्तमिव तेजसा ॥ ३.२३२.३२ ॥
说完这话,大神拥抱了他并让他离去;与乌玛一同欢喜,他送别了光芒四射、仿佛燃烧一般的斯堪达。
3.232.33
विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत् ।
सहसैव महाराजदेवान्सर्वान्प्रमोहयत् ॥ ३.२३२.३३ ॥
斯堪达被送走之后,于是出现了巨大的凶兆,大王啊,它忽然使所有的神灵迷惑。
3.232.34
जज्वाल स्वं सनक्षत्रं प्रमूढं भुवनं भृशम् ।
चचाल व्यनदच्चोर्वी तमोभूतं जगत्प्रभो ॥ ३.२३२.३४ ॥
连同群星的世界大为迷惑而燃烧;大地震动并咆哮,主啊,宇宙变成了黑暗。
3.232.35
ततस्तद्दारुणं दृष्ट्वा क्षुभितः शंकरस्तदा ।
उमा चैवमहाभाग देवाश्च समहर्षयः ॥ ३.२३२.३५ ॥
于是,见到那可怕的景象,湿婆当时也惶恐不安;啊,有福的人,乌玛也是,诸神与大仙也是。
3.232.36
ततस्तेषु प्रमूढेषु पर्वताम्बुदसन्निभम् ।
नानाप्रहरणं घोरमदृश्यत महद्बलम् ॥ ३.२३२.३६ ॥
那时,众人都陷入迷惑,忽然出现了一支庞大的军队,如山似云,持有种种可怕的兵器。
3.232.37
तद्वै घोरमसङ्ख्येयं गर्जच्च विविधा गिरः ।
अभ्यद्रवद्रणए देवान्भगवन्तं च शंकरम् ॥ ३.२३२.३७ ॥
那可怕、无数、以各种声音咆哮的大军,在战场上扑向众神与尊贵的湿婆(Śaṅkara)。
3.232.38
तैर्विसृष्टान्यनीकेषु बाणजालान्यनेकशः ।
पर्वताश्च शतघ्न्यश्च प्रासासिपरिघा गदाः ॥ ३.२३२.३८ ॥
他们屡次向军阵投掷箭网、山岳、百杀器、长矛、剑、铁棒与战槌。
3.232.39
निपतद्भिश्च तैर्घोरैर्देवानीकं महायुधैः ।
क्षणेन व्यद्रवत्सर्वं विमुखं चाप्यदृश्यत ॥ ३.२३२.३९ ॥
那些可怕的巨大兵器落下时,众神的全军顷刻溃散,可见他们背转脸逃走。
3.232.40
निकृत्तयोधनागाश्वं कृत्तायुधमहारथम् ।
दानवैरर्दितं सैन्यं देवानां विमुखं बभौ ॥ ३.२३२.४० ॥
战士、象与马被斩杀,兵器折断,大战车武士倒下,被檀那婆所害的众神之军,显得背转而去。
3.232.41
असुरैर्वध्यमानं तत्पावकैरिव काननम् ।
अपतद्दग्धभूयिष्ठं महाद्रुमवनं तथा ॥ ३.२३२.४१ ॥
那支军队被阿修罗杀戮,倒下如同被烈火焚烧的森林,大树之林大多已被烧尽。
3.232.42
ते विभिन्नशिरोदेहाः प्राद्रवन्तो दिवौकसः ।
न नाथमधिगच्छन्ति वध्यमाना महारणे ॥ ३.२३२.४२ ॥
头颅与身躯被撕裂的天界居民,在大战中被杀,逃窜之际找不到任何庇护者。
3.232.43
अथ तद्विद्रुतं सैन्यं दृष्ट्वा देवः पुरंदरः ।
आश्वासयन्नुवाचेदं बलभिद्दानवार्दितम् ॥ ३.२३२.४३ ॥
此时,天神补兰陀罗见军队四散奔逃,便安慰他们,那些被檀那婆所困扰的人,并说了这些话。
3.232.44
भयं त्यजत भद्रं व शूराः शस्त्राणि गृह्णत ।
कुरुध्वंविक्रमे बुद्धिं मा वः काचिद्व्यथा भवेत् ॥ ३.२३२.४४ ॥
勇士们,舍弃恐惧,愿你们平安;拿起武器。专心于勇武,愿你们不受任何苦痛。
3.232.45
जयतैनाम्सुदुर्वृत्तान्दानवान्घोरदर्शनान् ।
अभिद्रवत भद्रं वो मया सह महासुरान् ॥ ३.२३२.४५ ॥
战胜这些极为恶劣、相貌可怖的檀那婆;与我一同冲向这些大阿修罗。愿你们平安。
3.232.46
शक्रस् वचनं श्रुत्वा समाश्वस्ता दिवौकसः ।
दानवान्प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम् ॥ ३.२३२.४६ ॥
天界的居民听了帝释天的话,安心下来,以帝释天为依靠,与檀那婆作战。
3.232.47
ततस्ते त्रिदशाः सर्वेमरुतश्च महाबलाः ।
प्रत्युद्ययुर्महाभागाः साध्याश्च वसुभिः सह ॥ ३.२३२.४७ ॥
于是,那些三十三天神、大力的摩禄多、大福的萨陀耶神,与婆苏们一同迎上前去。
3.232.48
तैर्विसृष्टान्यनीकेषु क्रुद्धैः शस्त्राणि संयुगे ।
शराश्च दैत्यकायेषु पिबन्ति रुधिरं बहु ॥ ३.२३२.४८ ॥
那些愤怒的天神在战斗中投向军阵的兵器与箭矢,饮尽了达伊帝耶们身体里的许多鲜血。
3.232.49
तेषां देहान्विनिर्भिद्य शरास्ते निशितास्तदा ।
निपतन्तोऽभ्यदृश्यन्त नगेभ्य इव पन्नगाः ॥ ३.२३२.४९ ॥
利箭穿透他们的身体,那锋利的箭矢此时看去如同蛇从山象身上坠落。
3.232.50
तानि दैत्यशरीराणि निर्भिन्नानिस्म सायकैः ।
अपतन्भूतलेराजंश्छिन्नाभ्राणीव सर्वशः ॥ ३.२३२.५० ॥
那些被箭矢穿透的魔身,大王啊,如被切断的云朵般全部坠落于地。
3.232.51
ततस्तद्दानवं सैन्यं सर्वैर्देवगणैर्युधि ।
त्रासितं विविधैर्बाणैः कृतंचैव पराङ्युखम् ॥ ३.२३२.५१ ॥
于是那支达那婆军队在战场上被诸天众以种种箭矢所惊吓,便转身逃走。
3.232.52
अथोत्क्रुष्टं तदा हृष्टैः सर्वैर्देवैरुदायुधैः ।
संहतानि च तूर्याणि प्रावाद्यन्त ह्यनेकशः ॥ ३.२३२.५२ ॥
于是所有欢喜的诸神举起兵器,发出巨大的呼喊,许多乐器齐声奏响。
3.232.53
एवमन्योन्रसंयुक्तं युद्धमासीत्सुदारुणम् ।
देवानां दानवानां च मांसशोणितकर्दमम् ॥ ३.२३२.५३ ॥
如此,诸天与达那婆相互纠缠的战斗变得极为惨烈,血肉泥泞遍地。
3.232.54
अनयो देवलोकस्य सहसैवाभ्यदृश्यत ।
तथहि दानवा घोरा विनिघ्नन्ति दिवौकसः ॥ ३.२३२.५४ ॥
因为这两者,天界忽然显现;因为可怖的达那婆正在击杀天界的居民。
3.232.55
ततस्तूर्यप्रणादाश्च भेरीणां च महास्वनाः ।
बभूवुर्दानवेन्द्राणां सिंहनादाश्च दारुणाः ॥ ३.२३२.५५ ॥
此时,檀那婆之王们的号角声、大鼓的巨响与可怖的狮吼声同时响起。
3.232.56
अथ दैत्यबलाद्घोरान्निष्पपात महाबलः ।
दानवो महिषो नाम प्रगृह्य विपुलं गिरिम् ॥ ३.२३२.५६ ॥
于是,从凶恶的提迪亚军中走出了名叫摩希沙的大力檀那婆,高举着一座巨大的山岳。
3.232.57
ते तं धनैरिवादित्यं दृष्ट्वासंपरिवारितम् ।
तमुद्यतगिरिं राजन्व्यद्रवन्त दिवौकसः ॥ ३.२३२.५७ ॥
大王啊,众天神见他高举山岳,如同被云层包围的太阳,便纷纷逃散了。
3.232.58
अथाभिद्रुत्य महिषो देवांश्चिक्षेप तं गिरिम् ।
महाकायं महाराज सतोयमिव तोयदम् ॥ ३.२३२.५८ ॥
于是摩希沙冲向众神,大王啊,他掷出那座庞大的山岳,宛如满载雨水的云团。
3.232.59
पतता तेन गिरिणा देवसैन्यस् पार्थिव ।
भीमरूपेण निहतमयुतं प्रापतद्भुवि ॥ ३.२३२.५९ ॥
大王啊,那座坠落的、形貌可怖的山岳,使众天神军中一万名战士被打倒,坠落于大地。
3.232.60
अथ तैर्दानवैः सार्धं महिषस्त्रासयन्सुरान् ।
अभ्यद्रवद्रणे तूर्णं सिंहः क्षुद्रमृगानिव ॥ ३.२३२.६० ॥
于是摩希沙与那些檀那婆一同惊吓众神,在战场上迅速扑向他们,如同狮子扑向小鹿。
3.232.61
तमापतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः ।
व्यद्रवन्तरणे बीता विकीर्णायुधकेतनाः ॥ ३.२३२.६१ ॥
众天神与因陀罗看见水牛冲来,惊恐万分,逃离战场,兵器与旗帜散落一地。
3.232.62
ततःस महिषः क्रुद्धस्तूर्णं रुद्ररथं ययौ ।
अभिद्रुत्य च जग्राह रुद्रस् रथकूवरम् ॥ ३.२३२.६२ ॥
于是愤怒的水牛迅速冲向楼陀罗的战车,扑上去抓住了楼陀罗战车的车辕。
3.232.63
यदा रुद्ररथं क्रुद्धो महिषः सहसा गतः ।
रेसतू रोदसी गाढं मुमुहुश् महर्षयः ॥ ३.२३२.६३ ॥
当愤怒的水牛突然抵达楼陀罗的战车时,天地剧烈震动,大仙们都陷入了迷乱。
3.232.64
अनदंश्चमहाकाया दैत्या जलधरोपमाः ।
आसीच्चनिश्चितं तेषां जितमस्माभिरित्युत ॥ ३.२३२.६४ ॥
身躯庞大的达提耶如雨云般怒吼,他们确信自己已经战胜了我们。
3.232.65
तथाभूते तु भगवानाहूय गुहमात्मजम् ।
दौरात्म्यं पश्य पुतर् त्वं दानवस्य दुरात्मनः।
जहि शीघ्रं दुराचारं द्रष्टुमिच्छामि ते बलम् ॥ ३.२३२.६५ ॥
此时,世尊召唤他的儿子古诃说:“孩子,看看这个恶毒达那婆的罪行;快快杀死这个作恶之人。我想看看你的力量。”
3.232.66
इत्युक्ताव भगवान्स्कन्दं परिपूज्य महेश्वरः ।
अयोजयन्निग्रहार्थं महिषस् गतायुषः।
सस्मार च तदा स्कन्दं मृत्युं तस्य दुरात्मनः ॥ ३.२३२.६६ ॥
如此说毕,大自在天礼敬塞建陀,派他去制服水牛;因那恶意之人的寿命将尽,他便忆起塞建陀以及注定降临于那人的死亡。
3.232.67
महिषोऽपि रथं दृष्ट्वा रौद्रं रुद्रस् चानदत् ।
देवान्संत्रासयंश्चापि दैत्यांस्चापिप्रहर्षयत् ॥ ३.२३२.६७ ॥
摩希沙见那可怖的战车,也像楼陀罗一样咆哮,使诸神惊恐,使达蒂亚们欢喜。
3.232.68
ततस्तस्मिनभये घोरे देवानां समुपस्थिते ।
आजगाम महासेनः क्रोधात्सूर्य इव ज्वलन् ॥ ३.२३२.६८ ॥
那时,诸神遭遇这可怖的恐惧,大天将怒火如太阳般燃烧着到来。
3.232.69
लोहिताम्बरसंवीतो लोहितस्रग्विभूषणः ।
लोहिताश्वो महाबाहुर्हिरण्यकवचः प्रभुः ॥ ३.२३२.६९ ॥
身穿红衣,佩戴红色花环,驾红色骏马,臂膀强大,身披金甲,主宰者。
3.232.70
रथमादित्यसंकाशमास्थितः कनकप्रभम् ।
तं दृष्ट्वा दैत्यसेना सा व्यद्रवत्सहसा रणे ॥ ३.२३२.७० ॥
见他乘坐如太阳般、金光灿烂的战车,达蒂亚大军在战场上猝然溃逃。
3.232.71
स चापि तां प्रज्वलितां महिषस् विदारिणीम् ।
मुमोच शक्तिं राजेनद्र महासेनो महाबलः ॥ ३.२३२.७१ ॥
大力的摩诃色那也掷出那道燃烧的、能劈裂水牛魔的枪矛,王中之王啊。
3.232.72
सा मुक्ताऽभ्यहरत्तस्य महिषस्य शिरो महत् ।
पपात भिन्ने शिरसि महिषस्त्यक्तजीवितः ॥ ३.२३२.७२ ॥
投出的那枪击中摩希沙的大头;头颅碎裂,摩希沙失去生命倒下。
3.232.73
पतता शिरसा तेन द्वारं षोडशयोजनम् ।
पर्वताभेन पिहितं तदाऽगम्यं ततोऽभवत्।
उत्तराः कुरवस्तेन गच्छन्त्यद्य यथासुम् ॥ ३.२३२.७३ ॥
那坠落的头颅使宽十六由旬的门如山般闭塞,从此便无法通行。至今北方的俱卢人仍借此路安然往来。
3.232.74
क्षिप्ताक्षिप्ता तु सा शक्तिर्हत्वा शत्रून्सहस्रशः ।
स्कन्दहस्तमनुप्राप्ता दृश्यते देवदानवैः ॥ ३.२३२.७४ ॥
那枪被掷出又回返,杀死了成千上万的敌人,回到了斯堪达的手中——众神与魔众都看见了。
3.232.75
प्रायः शरैर्विनिहता महासेनेन धीमता ।
शेषा दैत्यगणा घोरा भीतास्त्रस्ता दुरासदैः।
स्कन्दपारिषदैर्हत्वा भक्षिताश्च सहस्रशः ॥ ३.२३२.७५ ॥
多数死于智慧的摩诃塞那之箭;余下的凶猛大阿修罗众惊恐战栗,被不可抵挡的斯堪达随从杀死,并被成千上万地吞食。
3.232.76
दनवान्भक्षयन्तस्ते प्रपिबन्तश्च शोणितम् ।
क्षणान्निर्दानवं सर्वमकार्षुर्भृशहर्षिताः ॥ ३.२३२.७६ ॥
他们吞食达那婆、饮其血,极其欢喜,顷刻之间便将一切清除为无达那婆之地。
3.232.77
तमांसीवयथा सूर्यो वृक्षानग्निर्घनान्खगः ।
तथास्कन्दोऽजयच्छत्रून्स्वेन वीर्येण कीर्तिमान् ॥ ३.२३२.७७ ॥
如同太阳战胜黑暗,火焰战胜茂密的森林,鸟(迦楼罗)战胜蛇,同样,声名显赫的斯堪达以自身的威力战胜了敌人。
3.232.78
संपूज्यमानस्त्रिदशैरभिवाद्य महेश्वरम् ।
शुशुभे कृतिकापुत्रः प्रकीरणांशुरिवांशुमान् ॥ ३.२३२.७८ ॥
受众神礼敬,向摩诃提婆(湿婆)致敬之后,迦利底迦之子闪耀如光芒四射的太阳。
3.232.79
नष्टशत्रुर्यदा स्कन्दः प्रयातस्तु महेश्वरम् ।
तदाऽब्रवीन्महासेनं परिष्वज्य पुरंदरः ॥ ३.२३२.७९ ॥
当斯干陀消灭敌人、前往摩诃提婆之时,补兰陀罗(因陀罗)拥抱大军,说道:
3.232.80
ब्रह्मदत्तवरः स्कन्द त्वयाऽयं महिषो हतः ।
हजय्यो युधि देवानां दानवः स महाबलः ॥ ३.२३२.८० ॥
斯干陀啊,你杀死了这只获得梵天恩赐的水牛魔,那位在战斗中为诸神所不能战胜的大力达那婆。
3.232.81
देवास्तृणसमा यस्य वबूवुर्जयतांवर ।
सोऽयं त्वया महाबाहो शमितो देवकण्टकः ॥ ३.२३२.८१ ॥
诸神在他面前如同草芥——胜利者中最优秀者啊,大臂者啊!诸神的这根刺,已被你平息了。
3.232.82
शतं महिषतुल्यानां दानवानां त्वय रणे ।
निहतंदेवशत्रूणां यैर्वयं पूर्वतापिताः ॥ ३.२३२.८२ ॥
你在战斗中杀死了百名如水牛般的达那婆——那些曾经折磨我们的诸神之敌。
3.232.83
तावकैर्भक्षिताश्चान्ये दानवाः शतसङ्घशः ।
अजेयस्त्वं रणेऽरीणामुमापतिरिव प्रभुः ॥ ३.२३२.८३ ॥
其他达那婆成百上千地被你的部下吞食;在战斗中你对敌人而言无法战胜,如同乌玛帕提(湿婆)之主。
3.232.84
एतत्ते प्रथमं देव ख्यातं कर्म भविष्यति ।
त्रिषु लोकेषु कीर्तिश्च तवाक्षय्या भविष्यति।
वशगाश्च भविष्यनति सुरास्तव महाभुज ॥ ३.२३२.८४ ॥
神啊,这将是你第一件著名的功绩;在三界之中,你的名声将永不衰竭;大臂者啊,诸神都将服从于你。
3.232.85
महासेनमेवमुक्त्वा निवृत्तः सह दैवतैः ।
अनुज्ञातो भगवता त्र्यम्बकेण शचीपतिः ॥ ३.२३२.८५ ॥
对摩诃塞那如此说后,他与诸天一同返回;蒙世尊三眼神(湿婆)允许,舍脂之主(因陀罗)返回。
3.232.86
गतो भद्रवटंरुद्रो निवृत्ताश्च दिवौकसः ।
उक्ताश्च देवा रुद्रेण स्कन्दं पश्यत मामिव ॥ ३.२३२.८६ ॥
楼陀罗前往跋陀罗伐吒,天界居民返回;楼陀罗对诸天说:“你们看待塞建陀,如同看待我一样。”
3.232.87
स हत्वा दानवगणान्पूज्यमानो महर्षिभिः ।
एकाह्नैवाजयत्सर्वं त्रैलोक्यं वह्निनन्दनः ॥ ३.२३२.८७ ॥
他杀尽檀那婆众,受诸大仙尊崇,火神之子一日之内便征服了三界。
3.232.88
स्कन्दस् य इदं विप्रः पठेज्जन्म समाहितः ।
शृणुयाद्ब्राह्मणेभ्यो यः श्रावयेद्वाविचेतनम् ॥ ३.२३२.८८ ॥
婆罗门若以专注之心诵读此塞建陀的出生故事,若从婆罗门处听闻,或使无知者听闻——
3.232.89
धनमायुर्यशो दीप्तिं पुत्राञ्शत्रुजयंतथा ।
सपुष्टिमिहसंप्राप्य स्कन्दसालोक्यमाप्नुयात् ॥ ३.२३२.८९ ॥
财富、长寿、名声、光辉、子嗣、战胜敌人与兴盛——于此世获得这些,便得到塞建陀的世界。