摩诃婆罗多 · 章 3.233
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.233.1
भगवञ्श्रोतुमिच्छामि नामानि च महात्मनः ।
तरिषु लोकेषु यान्यस्य विख्यातानि द्विजोत्तम ॥ ३.२३३.१ ॥
尊者啊,我愿听闻那位大德者的名号,即在三界中享有盛名者,哦,再生者中的最优者。
3.233.2
इत्युक्तः पाण्डवेयेन महात्मा ऋषिसन्निधौ ।
उवाच भगवांस्तत्र मार्कण्डेयो महातपाः ॥ ३.२३३.२ ॥
般度之子如此发问后,在诸仙面前,大苦行者薄伽梵摩根德耶便在那里说道。
3.233.3
आगेयश्चैव स्कनदश्च दीप्तकीर्तिरनामयः ।
मयूरकेतुर्धर्मात्मा भूतेशो महिषार्दनः ॥ ३.२३३.३ ॥
阿耆尼之子,光辉名声者,无病者,孔雀旗者,法魂者,众生之主,杀灭水牛魔者。
3.233.4
कामजित्कामदः कान्तः सत्यवाग्भुवनेश्वरः ।
शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः ॥ ३.२३३.४ ॥
胜欲者,赐予欲望者,可爱者,言语真实者,世界之主,童子,迅疾者,清净者,猛烈者,光彩辉煌者,面容吉祥者。
3.233.5
अमोघस्त्वनघो रौद्रः प्रियश्चन्द्राननस्तथा ।
दीप्तशक्तिः प्रशान्तात्मा नद्रकुक्कुटमोहनः ॥ ३.२३३.५ ॥
无误者,无罪者,猛烈者,可爱者,月面者,同样具有光辉力量者,心意寂静者,迷惑鸡旗者。
3.233.6
षष्ठीप्रियश्च धर्मात्मा पवित्रो मातृवत्सलः ।
कन्याभर्ता विभक्तश्च स्वाहेयो रेवतीसुतः ॥ ३.२३३.६ ॥
六日所爱者,法魂者,清净者,慈爱诸母者,少女之夫,卓异者,斯瓦诃之子,罗瓦蒂之子。
3.233.7
प्रभुर्नेता विशाखश्च नैगमेयः सुदुश्चरः ।
सुव्रतो ललितश्चैवबालक्रीडनकप्रियः ॥ ३.२३३.७ ॥
主宰者、领袖、毗舍迦与那伽梅耶,极难接近;持守善愿,优雅,喜爱孩童的游戏。
3.233.8
खचारी ब्रह्मचारी च शूरः शरवणोद्भवः ।
विश्वामित्रप्रियश्चैव देवसेनाप्रियस्तथा।
वासुदेवप्रियश्चैव प्रियः प्रियकृदेव तु ॥ ३.२३३.८ ॥
翱翔天空、梵行、英勇,生于芦苇丛中;为毗首彌多罗所爱,为天军所爱,为瓦苏提瓦所爱;受爱戴,且行可悦之事。
3.233.9
नामान्येतानि दिव्यानि कार्तिकेयस्य यः पठेत् ।
स्वर्गं कीर्तिं धनं चैव स लभेन्नात्र संशयः ॥ ३.२३३.९ ॥
凡诵读迦尔提刻雅这些神圣之名者,必得天界、名声与财富,此中无疑。
3.233.10
स्तोष्यामि देवैर्ऋषिभिश्च जुष्टं ।
शक्त्या गुहंनामभिरप्रमेयम्।
षडाननं शक्तिधरं सुवीरं ।
निबोध चैतानि कुरुप्रवीर ॥ ३.२३३.१० ॥
我将以诸名赞颂为诸天与仙人所奉事、不可测度的古诃,六面、执枪、勇猛的英雄。俱卢中的英杰,请听!
3.233.11
ब्रह्मण्यो वै ब्रहमजो ब्रह्मविच्च ।
ब्रह्मेशयो ब्रह्मवतांवरिष्ठः।
ब्रह्मप्रियो ब्राह्मणसर्वमन्त्री ।
त्वं ब्रह्मणां ब्राह्मणानांच नेता ॥ ३.२३३.११ ॥
护持婆罗门者,生于梵,知梵者,安住于梵,持梵者中之最胜,梵所爱,诸婆罗门之谋士;你是梵智与婆罗门的导师。
3.233.12
स्वाहा स्वधा त्वंपरमं पवित्रं ।
मन्त्रस्तुतस्त्वंप्रथितः षडर्चिः।
संवत्सरस्त्वमृतवश्च षड्वै ।
मासार्धमासाश्चदिनं दिशश्च ॥ ३.२३३.१२ ॥
娑婆诃与斯瓦陀,你是至高的净化者。被咒语赞颂,你以六焰之名闻名。你是年,也确实是六季;月、半月、日与方位也都是你。
3.233.13
त्वंपुष्कराक्षस्त्वरविन्दवक्रः ।
सहस्रचक्षोसि सहस्रबाहुः।
त्वं लोकपालः परमं हविश्च ।
त्वं भावनः सर्वसुरासुराणाम् ॥ ३.२३३.१३ ॥
你是莲花眼,你是莲花面。你有千眼千臂。你是世界的守护者,也是至高的供物;你是一切天神与阿修罗的护持者。
3.233.14
त्वमेव सेनाधिपतिः प्रचण्डः ।
प्रभुर्विभुश्चाप्यथ शक्रजेता।
सहस्रपात्त्वं धरणी त्वमेव ।
सहस्रतुष्टिश्च सहस्रभुक्व ॥ ३.२३३.१४ ॥
你正是猛烈的军队统帅。你是主宰与遍在者,也是战胜帝释天者。你是千足者,你就是大地;你具有千种满足,并享受千种乐趣。
3.233.15
सहस्रशीर्षस्त्वमनन्तरूपः ।
सहस्रपात्त्वंदशशक्तिधारी।
गङ्गासुतस्त्वं स्वमतेन देव ।
स्वाहामहीकृत्तिकानां तथैव ॥ ३.२३३.१५ ॥
你千首而形体无尽;你千足,也是执持十种力量者。天神啊,由你自己的意愿,你是恒河之子;娑婆诃、大地与昴宿诸女也同样就是你。
3.233.16
त्वं क्रीडसे षण्मुख कुक्कुटेन ।
यथेष्टनानाविधकामरूपी।
दीक्षाऽसि सोमो मरुतः सदैव ।
धर्मोऽसि वायुरचलेन्द्र इन्द्रः ॥ ३.२३३.१६ ॥
六面者啊,你与公鸡嬉戏,随意化作种种形相。你是灌顶礼,你是苏摩,诸摩录多也常是你。你是法,你是风神伐由,也是阿恰拉与因陀罗,啊因陀罗。
3.233.17
सनातनानामपि शाश्वतस्त्वं ।
प्रभुः प्रभूणामपि चोग्रधन्वा।
ऋतस्य कर्ता दितिजान्तकस्त्वं ।
जता रिपूणां प्रवरः सुराणाम् ॥ ३.२३३.१७ ॥
你是永恒者中的永恒者,主宰中的主宰,持猛烈之弓。你是秩序(ṛta)的creator,提提之子的毁灭者,敌人的征服者,诸天神中最杰出者。
3.233.18
सूक्ष्मं तपस्तत्परमं त्वमेव ।
परावरज्ञोसि परावरस्त्वम्।
धर्मस्य कामस्य परस्य चैव ।
त्वत्तेजसा कत्स्नमिदं महात्मन् ॥ ३.२३३.१८ ॥
微妙的苦行与至上的苦行唯你独有。你是知晓上与下者,你即是上与下。你也属于法、欲,以及至上者。伟大的灵魂啊,这整个宇宙都被你的光辉所遍布。
3.233.19
व्याप्तं जगत्सर्वसुरप्रवीर ।
शक्त्या मया संस्तुत लोकनाथ।
नमोस्तु ते द्वादशनेत्रबाहो ।
अतः परं वेद्मि गतिं न तेऽहम् ॥ ३.२३३.१९ ॥
世界被遍布。诸神中的英雄啊,世界之主,我以我的力量赞颂你。向你致敬,十二眼十二臂者。在此之上,我不知你的去处。
3.233.20
स्कन्दस्य य इदं विप्रः पठेज्जन्म समाहितः ।
श्रावयेद्ब्राह्मणेभ्यो यः शृणुयाद्वा द्विजेरितम् ॥ ३.२३३.२० ॥
凡婆罗门以专注之心诵读此斯建陀的出生故事,或使婆罗门听闻,或聆听二生者所说此事者。
3.233.21
धनमायुर्यशो दीप्तं पुत्राञ्शत्रुजयं तथा ।
स पुष्टितुष्टी संप्राप्य स्कन्दसालोक्यमाप्नुयात् ॥ ३.२३३.२१ ॥
他获得财富、长寿、光辉的名声、子嗣以及战胜敌人,并得到养育与满足,从而获得斯建陀的同住世界(sālokya)。