Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.234

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.234.1

उपासीनेषु विप्रेषु पाण्डवेषु च भारत ।
द्रौपदी सत्यभामा च विविशाते तदा समम् ॥ ३.२३४.१ ॥

婆罗多啊,当婆罗门与般度五子正坐着时,德罗波蒂与萨提亚巴摩同时走了进来。

3.234.2

प्रविश्य चाश्रमं पुण्यमुभे ते परमस्त्रियौ ।
जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः ॥ ३.२३४.२ ॥

两位至尊女子走进神圣的修行处,笑着、十分欢悦地在那里安然坐下。

3.234.3

चिरस् दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे ।
कथयामासतुश्चित्राः कथाः कुरुयदूचिताः ॥ ३.२३४.३ ॥

王中之王啊,二人久别重逢,彼此以温言相待,开始讲述各种适合俱卢族与耶度族的奇异故事。

3.234.4

अथाब्रवीत्सत्यभामा कृष्णस् महिषी प्रिया ।
सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा ॥ ३.२३४.४ ॥

于是克里希那心爱的正妃、萨特拉吉特之女、腰身纤细的萨提亚巴摩,私下对耶纳塞纳之女德罗波蒂说了这番话。

3.234.5

केन द्रौपदि वृत्तेन पाण्डवानधितिष्ठसि ।
लोकपालोपमान्वीरान्नूनं परमसंमतान् ॥ ३.२३४.५ ॥

德罗波蒂啊,你以何种品行统御般度五子?他们如世界护法般英勇,必定极受敬重。

3.234.6

कथं च वशगस्तुभ्यं न कुप्यन्ति च ते शुभे ।
तव वश्या हि सतत पाण्डवाः प्रियदर्शने ॥ ३.२३४.६ ॥

吉祥的女子啊,他们为何顺从于你、不对你发怒?美貌的女子啊,般度五子总是受你支配。

3.234.7

न चान्योन्यमसूयन्ते कथं वा ते सुमध्यमे ।
मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद्ब्रवीहि मे ॥ ३.२३४.७ ॥

纤腰的女子啊,他们为何彼此不嫉妒?他们都注视着你的面容。请把这真相告诉我。

3.234.8

व्रतचर्या तपो वाऽपि स्नानमन्त्रौषधानि वा ।
विद्यावीर्यं मूलवीर्यंजपहोमागदास्तथा ॥ ३.२३४.८ ॥

持守誓愿、苦行、沐浴、咒语、草药、知识的力量、草根的力量、诵念、火祭与药物。

3.234.9

ममाद्याचक्ष्वपाञ्चालि यशस्यं भगवेतनम् ।
येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः ॥ ३.२३४.९ ॥

般遮罗的女儿啊,现在请告诉我那使人荣耀的神圣方法,使克里希那永远在我掌控之下,顺从于我。

3.234.10

एवमुक्त्वासत्यभामा विरराम यशस्विनी ।
पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम् ॥ ३.२३४.१० ॥

说完这番话,荣耀的萨提亚巴玛沉默了。于是忠贞的、极有福分的德罗波蒂回答了她。

3.234.11

असत्स्त्रीणां समाचरं सत्ये मामनुपृच्छसि ।
असदाचरिते मार्गे कथं स्यादनुकीर्तनम् ॥ ३.२३४.११ ॥

你确实在问我不贞女子的行为。走上邪恶之路的人的事,我怎能述说?

3.234.12

अनुप्रश्नः संशयो वा नैष त्वय्युपपद्यते ।
कथं ह्युपेता बुद्ध्या त्वंकृष्णस् महिषी प्रिया ॥ ३.२३४.१२ ॥

这样追问或怀疑,对你并不相称。你既有智慧,又是克里希那心爱的正宫,怎能这样问呢?

3.234.13

यदैव भर्ता जानीयानमन्त्रमूलपरां स्त्रियम् ।
उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव ॥ ३.२३४.१३ ॥

丈夫一旦得知妻子沉迷于咒语之根,便会惶恐不安,如同毒蛇潜入家中。

3.234.14

उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम् ।
न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकारणात् ॥ ३.२३४.१४ ॥

惶恐者何来安宁,不安者何来快乐?因咒语之故,丈夫绝不可受妻子掌控。

3.234.15

किमत्रप्रहिताश्चापि गदाः परमदारुणाः ।
मूलप्रवादैर्हि विषं प्रयच्छन्ति जिघांसवः बब ॥ ३.२३४.१५ ॥

至于此处所送的极其可怕的药物又当如何?欲害人者以根咒之言施予毒药。

3.234.16

जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते ।
तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम् ॥ ३.२३४.१६ ॥

凡人以舌或以皮肤所用之物,其中所施之粉末必定迅速致死,毋庸置疑。

3.234.17

जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा ।
अपुमांसः कृताः स्त्रीभिर्जडान्धवधिरास्तथा ॥ ३.२३४.१७ ॥

丈夫被妻子害得患上水肿、白癜风,头发变白,丧失阳刚,变得呆钝、盲且聋。

3.234.18

पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत ।
न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथंचन ॥ ३.२३४.१८ ॥

然而那些随从罪恶的罪妇会折磨丈夫。妻子无论如何也绝不可做让丈夫不快之事。

3.234.19

वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु ।
तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि ॥ ३.२३४.१९ ॥

荣耀的萨提亚婆玛啊,请听我讲述我对伟大的般度五子所行的全部真实之道。

3.234.20

अहंकारं विहायाहं कामक्रोधौ च सर्वदा ।
सदारान्पाण्डवान्नित्यं प्रयतोपचराम्यहम् ॥ ३.२३४.२० ॥

舍弃傲慢,始终放下欲望与愤怒,我总是怀着克制之心,侍奉与妻子们同在的般度五子。

3.234.21

प्रणयं प्रतिसंहृत्य निधायात्मानमात्मनि ।
शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षिणी ॥ ३.२३४.२१ ॥

收敛情爱,安住于自心,无有骄慢,乐于侍奉,我守护着夫君们的心意。

3.234.22

दुर्व्याहृताच्छङ्कमाना दुस्थिताद्दुरवेक्षितात् ।
दुरासिताद्दुर्व्रजितादिङ्गिताध्यासितादपि ॥ ३.२३४.२२ ॥

甚至畏惧粗言、失仪的姿态、不当的目光、不雅的坐姿、不雅的行走,以及不合宜的手势。

3.234.23

सूर्यवैश्वानरसमान्सोमकल्पान्महारथान् ।
सेवे चक्षुर्हणः पार्थानुग्रवीर्यप्रतापिनः ॥ ३.२३४.२३ ॥

我侍奉普利塔之子,他们是伟大的车战勇士,与太阳和火同等,如月亮般,能夺去敌人的视线,英勇威猛、威力赫赫。

3.234.24

देवो मनुष्यो गन्धर्वो युवा चापि स्वलंकृतः ।
द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः ॥ ३.२३४.२४ ॥

无论是天神、凡人、乾闼婆,还是盛装的少年,富有或俊美,在我看来都不算是另一个男子。

3.234.25

न भुक्तवति न स्नाते नासंविष्टे च भर्तरि ।
न संविशामि नाश्नामि न स्नाये कर्म कुर्वती ॥ ३.२३४.२५ ॥

夫主未食、未沐、未卧之时,我不坐,不食,不沐浴;operating家务时亦然。

3.234.26

क्षेत्राद्वनाद्वा ग्रामाद्वा भर्तारं गुहमागतम् ।
अभ्युत्थायाभिनन्दामि आसनेनोदकेन च ॥ ३.२३४.२६ ॥

夫君从田间、山林或村中归来,我便起身迎接,奉上座位与清水以示敬意。

3.234.27

प्रसन्नभाण्डा मृष्टान्ना काले भोजनदायिनी ।
संयता गुप्तधान्या च सुसंमृष्टनिवेशना ॥ ३.२३४.२७ ॥

器皿洁净,适时奉上精美饭食,克制自持,妥善保管谷物,把居室打扫得十分洁净。

3.234.28

अतिरस्कृतसंभाषा दुःस्त्रियो नानुसेवती ।
अनुकूलवती नित्यं भवाम्यनलसा सदा ॥ ३.२३४.२८ ॥

不以轻慢之言应对,不亲近品行不端的女子,我常常顺从,始终不懈怠。

3.234.29

अनर्म चापि हसितं द्वारि स्थानमभीक्ष्णशः ।
अवस्करे चिरस्थानं निष्कुटेषु च वर्जये ॥ ३.२३४.२९ ॥

我避免戏谑与嬉笑,不常伫立门口,也不在垃圾堆旁与偏僻角落久留。

3.234.30

अत्यालापमसन्तोषं परव्यापारसंकथाः ।
अतिहासातिरोषौ च क्रोधस्थानं च वर्जये ॥ ३.२३४.३० ॥

我避免多言、不知足、议论他人之事、过度嬉笑、过度愤怒以及引发怒气之处。

3.234.31

निरताऽहं सदा सत्ये पापानां च विवर्जने ।
सर्वथा भर्तुरहितं न ममेष्टं कथंचन ॥ ३.२३४.३१ ॥

我始终专注于真实,远离罪过;对丈夫有害之事,我绝不愿意以任何方式去做。

3.234.32

यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित् ।
सुमनोवर्णकापेता भवामि व्रतचारिणी ॥ ३.२३४.३२ ॥

当丈夫因家事远行时,我心情愉快,不施粉饰,持守誓愿。

3.234.33

यच्च भर्ता न पिबति यच्च भर्ता न सेवते ।
यच्च नाश्नाति मे भर्ता सर्वं तद्वर्जयाम्यहम् ॥ ३.२३४.३३ ॥

丈夫不饮用的、丈夫不享用的,以及丈夫不食用的,这一切我都戒绝。

3.234.34

यथोपदेशं नियता वर्तमाना वराङ्गने ।
स्वलंकृता सुप्रयता भर्तुः प्रियहिते रता ॥ ३.२३४.३४ ॥

美好肢体的女子啊,我依照教诲,克制地行事,衣饰整洁,自持谨慎,喜于丈夫所爱与所利之事。

3.234.35

ये च धर्माः कुटुम्बेषु श्वश्र्वामे कथिताः पुरा ।
अनुतिष्ठामि तान्सत्ये नित्यकालमतन्द्रिता ॥ ३.२३४.३५ ॥

家中婆婆往昔所讲的诸种本分,我始终如实奉行,从不懈怠。

3.234.36

भिक्षाबलिश्राद्धविधिस्थालीपाकाश्च पर्वसु ।
मान्यानां मानसत्कारा ये चान्ये विदिता मम ॥ ३.२३४.३६ ॥

乞食、供奉与祭祖之仪,节日里的煮食祭器之礼,以及对尊长的敬重与礼遇,还有我所知道的其他事项。

3.234.37

तान्सर्वाननुवर्तामि दिवारात्रमतन्द्रिता ।
विनयाननियमांश्चैव सदा सर्वात्मना श्रिता ॥ ३.२३४.३७ ॥

我日夜不知疲倦地侍奉他们所有人;谦逊与规矩,我始终全心全意地遵守。

3.234.38

मृदून्सतः सत्यशीलान्सत्यधर्मानुपालिनः ।
स देवः सा गतिर्नार्यास्तस्य का विप्रियं चरेत् ॥ ३.२३४.३८ ॥

他温和、品性真实、守护真正的法,是我的神明,也是女子的依归;谁会去做令他不快的事呢?

3.234.39

पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः ।
स देवः सा गतिर्नार्यास्तस्य काविप्रियं चरेत् ॥ ३.२३४.३९ ॥

依靠丈夫是我的法,被认为是女子永恒的职责。他是我的神明,也是女子的依归;谁会去做令他不快的事呢?

3.234.40

अहं पतीन्नातिशये नात्यश्ने नातिभूषये ।
नापि श्वश्रूं परिवदे सर्वदा परियन्त्रिता ॥ ३.२३४.४० ॥

我不在丈夫面前夸耀,不过量进食,不过度装饰自己,也从不非议婆婆;我始终自持。

3.234.41

अवधानेन सुभगे नित्योत्थिततयैव च ।
भर्तारो वशगा मह्यं गुरुशुश्रूषयैव च ॥ ३.२३४.४१ ॥

幸运的女子啊,凭借用心、始终早起以及侍奉长辈,我的丈夫们都顺从于我。

3.234.42

नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम् ।
स्वयं परिचराम्यतां पानाच्छादनभोजनैः ॥ ३.२३४.४२ ॥

我始终亲自侍奉高贵的贡蒂,她是英雄之母,言语诚实,我以饮食、衣物侍奉她。

3.234.43

नैतामतिशये जातु वस्त्रभूषणभोजनैः ।
न वदे चाप्यतिवाचा तां पृथां पृथिवीसमाम् ॥ ३.२३४.४३ ॥

我从不在衣饰、装饰和饮食上超过她,也不以过多的言辞赞美这位与大地相同的普利塔。

3.234.44

अष्टावग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा ।
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ॥ ३.२३४.४४ ॥

从前,在坚战的住所,每天有八千名婆罗门使用金器用餐。

3.234.45

अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः ।
त्रिंशद्दासीक एकैको यान्विभर्ति युधिष्ठिरः ॥ ३.२३४.४५ ॥

八十八千位已完成吠陀学习的居家者,坚战每人都以三十名婢女供养。

3.234.46

दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम् ।
ह्रियते रुक्मपात्रीभिर्यतीनामूर्ध्वरेतसाम् ॥ ३.२३४.४६ ॥

另有一万人,即禁欲的瑜伽士,为他们以金器盛送精心烹制的食物。

3.234.47

तान्सर्वानग्रहारेण ब्राह्मणान्वेदवादिनः ।
यथार्हं पूजयामि स्म पानाच्छादनभोजनैः ॥ ३.२३४.४७ ॥

对于所有诵说吠陀的婆罗门,我依礼以阿格拉哈拉布施,并以饮食、衣物和饮品加以敬奉。

3.234.48

शतं दासीसहस्राणि कौन्तेयस्य महात्मनः ।
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः ॥ ३.२३४.४८ ॥

这位伟大的贡蒂之子有十万名婢女,佩戴贝壳手镯和臂钏,戴金项链,装饰精美。

3.234.49

महार्हमाल्याभरणाः सुवर्णाश्चन्दनोक्षिताः ।
मणीन्हेम च विभ्रत्यो नृत्तगीतविशारदाः ॥ ३.२३४.४९ ॥

佩戴贵重花环与饰物,肤色如金,涂抹檀香,佩戴宝石与黄金,精通舞蹈与歌唱。

3.234.50

तासां नाम च रूपंच भोजनाच्छादनानि च ।
सर्वासामेव वेदाहं कर्म चैव कृताकृतम् ॥ ३.२३४.५० ॥

她们的名字与容貌,她们的饮食与衣着,以及她们所做与未做之事,我全都知道。

3.234.51

शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः ।
पात्रीपस्ता दिवारात्रमतिथीन्भोजयन्त्युत ॥ ३.२३४.५१ ॥

这位睿智的贡蒂之子有十万名婢女,她们日夜从器皿中盛食,款待宾客。

3.234.52

शतमश्वसहस्राणि दशनागायुतानि च ।
युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः ॥ ३.२३४.५२ ॥

在坚战的随从之中,因陀罗普拉斯塔的居民拥有十万匹马与十阿由塔的大象。

3.234.53

एतदासीत्तदा राज्ञो यन्महीं पर्यपालयत् ।
येषां सङ्ख्याविधिं चैव प्रदिशामि शृणोमि च ॥ ३.२३४.५३ ॥

当国王统治大地之时,他所拥有的便是这些;我将说明清点它们的方法,你且听着。

3.234.54

अन्तःपूराणां सर्वेषां भृत्यानां चैव सर्वशः ।
आगोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ॥ ३.२३४.५४ ॥

后宫的所有女子与所有仆役,从牧牛人到牧羊人,他都知晓其所做与未做之事。

3.234.55

सर्वं राज्ञः समुदयमायं च व्ययमेव च ।
एकाऽहंवेद्मि कल्याणि पाण्डवानां यशस्विनि ॥ ३.२३४.५५ ॥

吉祥而荣耀的女子啊,般度之子的国王的一切收入与支出,唯有我一人知晓。

3.234.56

मयि सर्वं समासज्यकुटुम्बं भरतर्षभाः ।
उपासनरताः सर्वे घटयन्ति वरानने ॥ ३.२३४.५६ ॥

婆罗多族的雄牛们啊,美丽面容的女子啊,一切托付于我,全家人专心服务,各自完成所任之事。

3.234.57

तमहं भारमासक्तमनाधृष्यं दुरात्मभिः ।
सुखं सर्वंपरित्यज्यरात्र्यहानि घटामि वै ॥ ३.२३४.५७ ॥

那份心念系于其上、恶人无法触动的重担,我舍弃一切安逸,日夜承担。

3.234.58

अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम् ।
एकाहं वेद्मि कोशं वै पतीनां धर्मचारिणाम् ॥ ३.२३४.५८ ॥

如伐楼那般不可侵犯,如满载珍宝的大海,唯有我知晓遵循法则的夫君们的宝库。

3.234.59

अनिशायां निशायां च विहाय क्षुत्पिपासयोः ।
आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे ॥ ३.२३४.५९ ॥

昼夜舍弃饥渴,侍奉使俱卢子孙欢悦,对我而言,夜与昼是一样的。

3.234.60

प्रथमं प्रतिबुध्यामि चरमं संविशामि च ।
नित्यकालमहं सत्ये एतत्संवननं मम ॥ ३.२३४.६० ॥

我最先醒来,最后就寝;永远安住于真实,这便是我的誓愿。

3.234.61

एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत् ।
असत्स्त्रीणां समाचारं नाहं कुर्यां न कामये ॥ ३.२३४.६१ ॥

我知道对丈夫的这种崇高行为。我不会做邪恶女人的行为,也不会去渴望它。

3.234.62

तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा ।
उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीं ॥ ३.२३४.६२ ॥

萨提亚听到黑天女所说的这番合乎法的话语后,尊敬地对行法的般遮罗公主说道。

3.234.63

अभिपन्नाऽस्मि पाञ्चालि याज्ञसेनि क्षमस्व मे ।
कामकारः सखीनं हि सोपहासं प्रभाषितम् ॥ ३.२३४.६३ ॥

般遮罗公主啊,祭祀所生的公主啊,我有过错,请宽恕我。女伴的话出于自愿,带着戏谑说的话也是如此。