マハーバーラタ · 章 3.235
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.235.1
इमं तु ते मार्गमपेतदोषं ।
वक्ष्यामि चित्तग्रहणाय भर्तुः।
अस्मिन्यथावत्सखि वर्तमाना ।
भर्तारमाच्छेत्स्यसि कामिनीभ्यः ॥ ३.२३५.१ ॥
友よ、夫の心を得るための、欠けたところのない道をあなたに語りましょう。そのように正しく振る舞えば、夫を他の女たちから取り戻すことができるでしょう。
3.235.2
नैतादृशं दैवतमस्ति किंचि-
त्सर्वेषुलोकेषु सदेवकेषु।
यथा पतिस्तस्य तु सर्वकामा ।
लभ्याः प्रसादे कुपितश् हन्यात् ॥ ३.२३५.२ ॥
あらゆる世界、神々を含む世界においても、夫のような神はほかにありません。その寵愛によってすべての願いは得られ、怒れば打ち倒すこともあるのです。
3.235.3
तस्मादपत्यं विविधाश् भोगाः ।
शय्यासनान्यद्भुतदर्शनानि।
वस्त्राणि माल्यानि तथैव गन्धाः ।
स्वर्गश्चलोको विपुला च कीर्तिः ॥ ३.२३५.३ ॥
それゆえ、子孫、さまざまな楽しみ、見目麗しい寝台と座席、衣服、花飾り、香、天界、そして大いなる名声が得られるのです。
3.235.4
सुखं सुखनेह न जातु लभ्यं ।
दुःखेन साध्वी लभते सुखानि।
सा कृष्णमाराधय सौहृदेन ।
प्रेम्णा च नित्यं प्रतिकर्मणा च ॥ ३.२३५.४ ॥
この世では、幸福は安楽によって得られることは決してありません。貞淑な女は苦しみを通して幸福を得るのです。あなたはクリシュナを愛情と慈しみ、そして常に細やかな奉仕によって喜ばせなさい。
3.235.5
स्नानासनैश्चारुभिरग्रमाल्यै-
र्दाक्षिण्ययोगैर्विविधैश्च गन्धैः।
अस्याः प्रियोस्मीति यथा विदित्वा ।
त्वामेव संश्लिष्यति सर्वभावैः ॥ ३.२३५.५ ॥
沐浴と座席の心遣いにより、美しい上等の花飾りにより、巧みな礼儀により、さまざまな香りにより、「私は彼女に愛されている」と知って、彼は全身全霊であなたを抱きしめるでしょう。
3.235.6
श्रुत्वा स्वरं द्वारगतस् भर्तुः ।
प्रत्युत्थिता तिष्ठ गृहस्य मध्ये।
दृष्ट्वा प्रविष्टं त्वरिताऽसनेन ।
पाद्येन चैनं प्रतिपूजयस्व ॥ ३.२३५.६ ॥
夫の声を聞き、戸口に立つ彼を見て、立ち上がって家の中央に立ちなさい。彼が入ってくるのを見たら、すぐに座を勧め、足を洗う水で彼を敬いなさい。
3.235.7
संप्रेषितायामथ चैव दास्या-
मुत्थाय सर्वं स्वयमेव कार्यम्।
जानातु कृष्णस्तव भावमेतं ।
सर्वात्मना मां भजतीति सत्ये ॥ ३.२३५.७ ॥
侍女を遣わした後も、立ち上がって自分ですべてを行うべきです。クリシュナにあなたのこの心を知らせなさい。彼は全身全霊で私に仕えているのですから。
3.235.8
त्वत्संनिधौ यत्कथयेत्पतिस्ते ।
यद्यप्यगुह्यं परिरक्षितव्यम्।
काचित्सपत्नी तव वासुदेवं ।
प्रत्यादिशेत्तेन भवेद्विरागः ॥ ३.२३५.८ ॥
あなたの前で夫が語ることは、秘密でなくとも守るべきです。もしあなたの競争相手の誰かがヴァースデーヴァを拒めば、それによって離反が生じるかもしれません。
3.235.9
प्रियांश्च रम्यांश्च हितांश् भर्तु-
स्तान्भोजयेथा रविविधैरुपायैः।
द्वेष्यैरुपेक्ष्यैरहितैश् तस्य ।
भिद्स्वनित्यं कुहकोद्धतैश्च ॥ ३.२३५.९ ॥
夫にとって愛しく、好ましく、有益な人々を、様々な方法で養いなさい。夫を憎む者、顧みるべきでない者、害をなす者、欺瞞や驕りに満ちた者からは、常に遠ざかりなさい。
3.235.10
मदं प्रमादं पुरुषेषु हित्वा ।
संयच्छ मानं प्रतिगृह् वाचम्।
प्रद्युम्नसाम्बावपि ते कुमारौ ।
नोपासितव्यौ रहिते कदाचित् ॥ ३.२३५.१० ॥
男たちに対する陶酔と怠慢を捨てなさい。慢心を抑え、言葉は慎重に受け取りなさい。プラデュムナとサーンバ、あなたの二人の息子も、人目のない所で彼らに近づいてはなりません。
3.235.11
महाकुलीनाभिरपापिकाभिः ।
स्त्रीभिः सतीभिस्तव सख्यमस्तु।
चण्डाश् शौण्डाश्च महाशनाश्च ।
चोराश्च दुष्टाश्चपलाश्च वर्ज्याः ॥ ३.२३५.११ ॥
高貴な家に生まれ、罪なく、貞淑な女性たちとだけ友となるがよい。怒りっぽい者、酒におぼれる者、大食の者、盗人、邪悪な者、移り気な者は避けるべきである。
3.235.12
एतद्यशस्यं भगवेतनं च ।
स्वार्थं तदा शत्रुनिबर्हणं च।
महार्हमाल्याभरणाङ्गरागा ।
भर्तारमाराधय पुण्यगन्धैः ॥ ३.२३५.१२ ॥
これは名声と幸運をもたらし、あなた自身の利益となり、敵の滅亡にもつながる。高価な花環、装飾品、身体に塗る香油、清らかな香りで夫を喜ばせなさい。