摩诃婆罗多 · 章 3.237
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.237.1
एवं वने वर्तमाना नराग्र्याः ।
शीतोष्णवातातपकर्शिताङ्गाः।
सरस्तदासाद्यवनं च पुण्यं ।
ततः परंकिमकुर्वन्त पार्थाः ॥ ३.२३७.१ ॥
如此居住在林中的人中俊杰们,身体被寒冷、炎热、风和日晒所消瘦。到达那片圣洁的森林与湖泊后,普利塔之子们接着做了什么?
3.237.2
सरस्तदासाद्य तु पाण्डुपुत्रा ।
जनं समुत्सृज्य विधाय चेष्टम्।
वनानि रम्याण्यथ पर्वतांश्च ।
नदीप्रदेशांश्च तदा विचेरुः ॥ ३.२३७.२ ॥
到达那片湖泊后,般度之子们离开了众人,安排好了自己的事务,然后游历于美丽的森林、山岭和河岸地带。
3.237.3
तथा वने तान्वसतः प्रवीरान् ।
स्वाध्यायवन्तश्च तपोधनाश्च।
अभ्याययुर्वेदविदः पुराणा-
स्तान्पूजयामासुरथो नराग्र्याः ॥ ३.२३७.३ ॥
当那些勇士住在林中时,致力于诵读吠陀、以苦行为财富、通晓吠陀的古代仙人前来拜访,人中的俊杰们恭敬地礼遇他们。
3.237.4
ततः कदाचित्कुशलः कथासु ।
विप्रोऽभ्यगच्छद्भुवि कौरवेयान्।
स तैः समेत्याथ यदृच्छयैव ।
वैचित्रवीर्यं नृपमभ्यगच्छत् ॥ ३.२३७.४ ॥
后来有一次,一位精通故事的婆罗门来到大地上的俱卢族人那里。与他们相见后,他偶然前往毗遮陀罗维利耶之子的国王那里。
3.237.5
अथोपविष्टः प्रतिसत्कृतश्च ।
वृद्धेन राज्ञा कुरुसत्तमेन।
प्रचोदितः संकथयांबभूव ।
धर्मानिलेन्द्रप्रभवान्यमौ च ॥ ३.२३७.५ ॥
随后他入座,受到年长的俱卢族之首国王的礼遇,在国王的催促下,开始讲述由法神、风神和因陀罗所生之子以及那对孪生兄弟的故事。
3.237.6
कृशांश्च वातातपकर्शिताङ्गान् ।
दुःखस्य चोग्रस् मुखे प्रपन्नान्।
तां चाप्यनाथामिव वीरनाथां ।
कृष्णां परिक्लेशगुणेन युक्ताम् ॥ ३.२३७.६ ॥
他看到他们消瘦,身体被风吹日晒所折磨,陷入了猛烈的悲痛之口;还有克里希纳(德罗波蒂),虽有英雄为её保护,却如同无依无靠,充满极度的苦难。
3.237.7
ततः कथास्तस्य निशम्य राजा ।
वैचित्रवीर्यः कृपयाऽभितप्तः।
वने तथा पार्थिवपुत्रपौत्रा-
ञ्श्रुत्वा तथा दुःखनदींप्रपन्नान् ॥ ३.२३७.७ ॥
于是,维奇特拉维利亚王(持国)听了他的叙述,因怜悯而深感痛苦;又听说森林中国王的儿子和孙子们陷入了悲痛之河。
3.237.8
प्रोवाच दैन्याभिहतान्तरात्मा ।
निश्वासवातोपहतस्तदानीम्।
वाचं कथंचित्स्थिरतामुपेत्य ।
तत्सर्वमात्मप्रभवं विचिन्त्य ॥ ३.२३७.८ ॥
他的内心被沮丧所击中,当时又被叹息之风所摧折;他勉强恢复了镇定,思索了一切皆出于自身的缘由,然后说道。
3.237.9
कथंनु सत्यः शुचिरार्यवृत्तः ।
श्रेष्ठः सुतानां मम धर्मराजः।
अजातशत्रुः पृथिवीतले स्म ।
शेते पुरा राङ्कवकूटशायी ॥ ३.२३७.९ ॥
究竟怎么会,那诚实、纯洁、行为高尚、我诸子中最优秀的法王(坚战),无敌于世,昔日睡在罗楞伽皮的床上,如今竟躺在地上?
3.237.10
प्रबोध्यते मागधसूतपुत्रै-
र्नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पः।
पतत्रिसङ्घैः स जघन्यरात्रे ।
प्रबोध्यते नूनमिलातलस्थः ॥ ३.२३७.१० ॥
往昔,他每日由摩揭陀歌者与御者之子赞颂唤醒,他如同因陀罗本人;如今,夜将尽时,他定然是被鸟群唤醒的,正躺在地上。
3.237.11
कथंनु वातातपकर्शिताङ्गो ।
वृकोदरः कोपपरिप्लुताङ्गः।
शेते पृथिव्यामतथोचिताङ्गः ।
कृष्णासमक्षं वसुधातलस्थः ॥ ३.२३७.११ ॥
被风与日晒消瘦了身体、被愤怒充满了身躯的狼腹(Vṛkodara),怎么会在黑公主(Kṛṣṇā)面前躺在地上?他的身体本不适于这样的境地。
3.237.12
तथाऽर्जुनः सुकुमारो मनस्वी ।
वशे स्थितो धर्मसुतस्य राज्ञः।
विदूयमानैरिव सर्वगात्रै-
र्ध्रुवं न शेते वसतीरमर्षात् ॥ ३.२३७.१२ ॥
同样,温柔而有志气的阿周那处于法之子国王的控制之下;然而他仿佛全身都在受苦,必定因愤懑而不在住所中安睡。
3.237.13
यमौ च कृष्णां च युधिष्ठिरं च ।
भीमं च दृष्ट्वा सुखविप्रयुक्तान्।
विनिःश्वसन्सर्प इवोग्रतेजा ।
ध्रुवं न शेते वसतीरमर्षात् ॥ ३.२३७.१३ ॥
看见双生子、黑公主、坚战与怖军失去了安乐,那位威光猛烈的人像蛇一样深深叹息,必定因愤懑而不在住所中安睡。
3.237.14
तथा यमौ चाप्यसुखौ सुखार्हौ ।
समृद्धरीपावमरौ दिवीव।
प्रजागरस्थौ ध्रुवमप्रशान्तौ ।
क्रोधेन सत्येन च वार्यमाणौ ॥ ३.२३७.१४ ॥
同样,双生子虽然值得享有安乐,却也不快乐;敌人富足,如同天上的诸神。那两人必定醒着、不安,被愤怒与真理所约束。
3.237.15
समीरणेनाथ समो बलेन ।
समीरणस्यैवसुतो बलीयान्।
स धर्मपासेन सितोऽग्रजेन ।
ध्रुवं विनिःश्वस्य सहत्यमर्षम् ॥ ३.२३७.१५ ॥
那与风同样有力、正是风神之子的更强者,被法之绳索所缚,被兄长所束,必定深深叹息,忍受着愤懑。
3.237.16
स चापिभूमौ परिवर्तमानो ।
वधं सुतानां मम काङ्क्षमाणः।
सत्येन धर्मेण च वार्यमाणः ।
कालंप्रतीक्षत्यधिको रणेऽन्यैः ॥ ३.२३७.१६ ॥
他在地上翻滚,渴望我的儿子们被杀,虽被真理与法所约束,仍在战场上等待时机,以胜过他人。
3.237.17
अजातशत्रौ तु जिते निकृत्या ।
दुःशासनो यत्परुषाण्यवोचत्।
तानि प्रविष्टानि वृकोदराङ्गं ।
दहन्ति कक्षाग्निरिवेन्धनानि ॥ ३.२३७.१७ ॥
当阿阇多舍图谋诡计战败之时,难近所说的那些粗暴之言进入了怖狼腹的身体,如林火焚烧柴薪一般烧灼着他。
3.237.18
न पापकं ध्यास्यति धर्मपुत्रो ।
धनंजयश्चाप्यनुवर्त्स्यते तम्।
अरण्यवासेन विवर्धते तु ।
भीमस्य कोपोऽग्निरिवानिलेन ॥ ३.२३७.१८ ॥
法之子不会想要作恶,财富征服者也会追随他;但因森林流放,怖狼腹的愤怒日益增长,犹如风助火势。
3.237.19
स तेन कोपेन विदीर्यमाणः ।
करं करेणाभिनिपीड्यवीरः।
विनिःश्वसत्युष्णमतीव घोरं ।
दहन्निवेमां मम पुत्रसेनाम् ॥ ३.२३७.१९ ॥
那位英雄被怒火撕裂,手按着手,吐出极其灼热而可怖的气息,仿佛要焚烧我这支儿子们的军队。
3.237.20
गाण्डीवधन्वा च वृकोदरश्च ।
संरम्भिणावन्तककालकल्पौ।
न शेषयेतां युधि शत्रुसेनां ।
शरान्किरन्तावनिप्रकाशान् ॥ ३.२३७.२० ॥
手持甘狄拔弓的阿周那与怖狼腹,二人怒火填胸,如同死神与时间,在战场上不会给敌军留下任何残余,箭如雨下,仿佛覆盖大地。
3.237.21
दुर्योधनः शकुनिः सूतपुत्रो ।
दुःशासनश्चापि सुमन्दचेताः।
मधु प्रपश्यन्ति न तु प्रपातं ।
वृकोदरं चैव धनंजयं च ॥ ३.२३७.२१ ॥
难敌、沙恭尼、御者之子以及难降也都心智极为愚钝。他们只看见蜜,却看不见坠落;他们也看不见狼腹(Vṛkodara)和财胜(Dhanaṃjaya)。
3.237.22
शुभाशुभं कर्म नरोहि कृत्वा ।
प्रतीक्षतेचेत्स फलंविपाके।
सतेन युज्यत्यवशः फलेन ।
मोक्षः कथं स्यात्पुरुषस्य तस्मात् ॥ ३.२३७.२२ ॥
人若做了善或恶的行为,并在其成熟之时期待果报,他便无力地与那果报相连。那么人如何能得解脱呢?
3.237.23
क्षेत्रे सुकृष्टे ह्युपिते च बीजे ।
देवेच वर्षत्यृतुकालयुक्तम्।
न स्यात्फलंतस्य कुतः प्रसिद्धि-
रन्यत्रदैवादिति नास्ति हेतुः ॥ ३.२३७.२३ ॥
种子播在耕耘良好的田里,时节适宜,天神(降雨)如期降下,却不结果实:若非命运,它的成功从何而来?再无他因。
3.237.24
कृतं मताक्षेण यथा न साधु ।
साधुप्रवृत्तेन च पाण्डवेन।
मया च दुष्पुत्रवशानुगेन ।
कृतः कुरूणामयमन्तकालः ॥ ३.२३७.२४ ॥
那掷骰子之人所为不善;而我顺从恶子之意,与行为端正的般度之子一起,为俱卢族造成了这个死亡之时。
3.237.25
ध्रुवं प्रशाम्यत्यसमीरितोऽग्नि-
र्ध्रुवं प्रजास्यत्युत गर्भिणी या।
ध्रुवं दिनादौ रजनीप्रणाश-
स्तथा क्षपादौ च दिनप्रणाशः ॥ ३.२३७.२५ ॥
不吹之火必然熄灭;怀孕之妇必然分娩;白昼之初,黑夜必然消逝;夜晚之初,白昼亦必然消逝。
3.237.26
कृतेच कस्मान्न परेच कुर्यु-
र्दत्ते च दद्युः पुरुषाः कथंस्वित्।
प्राप्यार्थकालं च भवेदनर्थः ।
कथंचन स्यादितितत्कुतः स्यात् ॥ ३.२३७.२६ ॥
已做之事,他人为何不能再做?既已施舍,人们又如何再施舍?当目的之时到来,损失又怎会发生?这如何能够发生,又从何而来?
3.237.27
कथं न भिद्येत न च स्रवेत ।
न च प्रसिच्येदितिरक्षितव्यम्।
अरक्ष्यमाणं शतधा प्रकीर्ये-
द्भ्रुवं न नाशोऽस्ति कृतस्य लोके ॥ ३.२३७.२७ ॥
此物如何能不破碎、不漏、不溢?故须守护。若不守护,便会百般散失。世间所作之事,确实没有毁灭。
3.237.28
गतो ह्यरण्यादपिशक्रलोकं ।
धनंजयः पशय्त वीर्यमस्य।
अस्त्राणि दिव्यानि चतुर्विधानि ।
ज्ञात्वा पुनर्लोकमिमं प्रपन्नः ॥ ३.२३७.२८ ॥
财主从森林中竟然去到了因陀罗的世界。看他的威力。学会四类神圣武器后,他又回到了这个世界。
3.237.29
स्वर्गं हि गत्वा सशरीर एव ।
को मानुषः पुनरागन्तुमिच्छेत्।
अन्यत्रकालोपहताननेका-
न्समीक्षमाणस्तुकुरून्मुमूर्षून् ॥ ३.२३७.२९ ॥
谁能身带肉体上了天界,还愿意再回来呢?然而他看见许多被时间所伤、渴望死亡的俱卢族人,因此回来了。
3.237.30
धनुर्ग्राहश्चार्जुनः सव्यसाची ।
धनुश्च तद्गाण्डिवं भीमवेगम्।
अस्त्राणि दिव्यानि च तानि तस्य ।
त्रयस्य तेजः प्रसहेत कोऽत्र ॥ ३.२३७.३० ॥
持弓者阿周那,左右开弓的人,那可怖速度的甘狄拔神弓,以及他的神圣武器——这三者的威力,在此谁能抵挡?
3.237.31
निशम्य तद्वचनं पार्थिवस्य ।
दुर्योधनं रहिते सौबलोऽथ।
अबोधयत्कर्णमुपेत्य सर्वं ।
स चाप्यहृष्टोऽभवदल्पचेताः ॥ ३.२३७.३१ ॥
闻此王言,沙卢婆(沙恭尼)随后私下来到难敌处,向迦尔纳讲明了一切。然而他也并不欢喜,因为他的心智狭小。