摩诃婆罗多 · 章 3.238
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.238.1
धृतराष्ट्रस्य तद्वाक्यं निशम्य शकुनिस्तदा ।
दुर्योधनमिदं काले कर्णेन सहितोऽब्रवीत् ॥ ३.२३८.१ ॥
闻听持国王的这番话后,沙恭尼与迦尔纳一起,在适当的时候对难敌说了这些话。
3.238.2
प्रव्राज्य पाण्डवान्वीरान्स्वेन वीर्येण भारत ।
भुङ्क्ष्वेमां पृथिवीमेको दिवि शम्बरहायथा ॥ ३.२३८.२ ॥
婆罗多啊!以你自己的威力驱逐英勇的般度五子之后,你独自享有这片大地,正如在天上杀死商波罗的因陀罗一样。
3.238.3
तवाद्यपृथिवी राजन्नखिला सागराम्बरा ।
सपर्वतवनाकारा सहस्थावरजङ्गमा ॥ ३.२३८.३ ॥
大王啊,如今这片被海洋作为衣裳环绕的整个大地,连同山岳、森林、矿藏,以及一切动与不动之物,都是你的了。
3.238.4
प्राच्याश्च दाक्षिणात्याश्च पतीच्योदीच्यवासिनः ।
कृताः करप्रदाः सर्वे राजानस्ते नाराधिप ॥ ३.२३८.४ ॥
人主啊,那些居住在东方、南方、西方和北方的所有国王,都已被你变成了纳贡者。
3.238.5
या हि सा दीप्यमानेव पाण्डवान्भजते पुरा ।
साऽद्यलक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह ॥ ३.२३८.५ ॥
那昔日闪耀光辉、依附于般度五子的吉祥,大王啊,如今你与兄弟们一同得到了它。
3.238.6
इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे ।
अपश्याम श्रियं राजन्सुचिरं शोककर्शिताः ॥ ३.२३८.६ ॥
大王啊,那前往因陀罗普拉斯塔、在坚战身上闪耀的吉祥,我们长期忧伤憔悴地眼看着它。
3.238.7
सा तु बुद्धिबलेनेयं राज्ञस्तस्मात्तथाविधात् ।
त्वयाक्षिप्ता महाबाहो दीप्यमानेव दृश्यते ॥ ३.२३८.७ ॥
那种荣耀,由你从那样的国王手中夺走,以他的智慧与力量,仍然显得光彩夺目,啊,大臂者。
3.238.8
तथैव तव राजेन्द्रराजानः परवीरहन् ।
शासनेऽधिष्ठिताः सर्वेकिं कुर्म इति वादिनः ॥ ३.२३८.८ ॥
同样,王中之王,敌方英雄的杀者,所有处于你统治之下的国王都说:“我们该做什么?”
3.238.9
ते वयं पृथिवी राजन्निखिला सागराम्बरा ।
सपर्वतवना देवी सग्रामनगराकरा ॥ ३.२३८.९ ॥
国王啊,我们就是那些人:以海洋为衣的整个大地,连同山岳森林,村庄城市与矿山,女神般的大地。
3.238.10
नानावनोद्देशवती पत्तनैरुपशोभिता ।
नानाजनपदाकीर्णा स्फीतराष्ट्रा महाहला ॥ ३.२३८.१० ॥
拥有众多林区,以城镇为饰,充满诸多邦国,国家繁荣,耕作广大。
3.238.11
नन्द्यमानो द्विजै राजन्भासि नक्षत्रराडिव ।
पौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव ॥ ३.२३८.११ ॥
国王啊,受婆罗门颂扬,你如星辰之王(月)般照耀;凭借勇武,在天界诸神之中,你如光辉的太阳般闪耀。
3.238.12
रुद्रैरिव यमो राजा मरुद्भिरिव वासवः ।
कुरुभिस्त्वं वृतो राजन्भासि नक्षत्रराडिव ॥ ३.२३८.१२ ॥
如阎摩被楼陀罗环绕,因陀罗被摩录多环绕,国王啊,你被俱卢族环绕,犹如星辰之王般闪耀。
3.238.13
यैः स्म ते नाद्रियेताज्ञा न च ये शासने स्थिताः ।
पश्यामस्ताञ्श्रिया हीनान्पाण्डवान्वनवासिनः ॥ ३.२३८.१३ ॥
我们看见那些不尊重你的命令、不服从你统治的般度之子,失去了福运,住在森林里。
3.238.14
श्रूयते हि महाराजसरो द्वैतवनं प्रति ।
वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः ॥ ३.२३८.१४ ॥
大王,据说通往二元林的方向有一片湖泊,般度之子与住在林中的婆罗门一同居住在那里。
3.238.15
सप्रयाहि महाराज श्रिया परमया युतः ।
तापयन्पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा ॥ ३.२३८.१५ ॥
大王,带着无上的福运出发吧;像有光芒的太阳一样,以你的威光炙烤般度之子。
3.238.16
स्तितोराज्येऽच्युतान्राज्याच्छियाहीनाञ्छ्रियावृतः ।
असमृद्धान्समृद्धार्थः पश्य पाण्डुसुतान्नृप ॥ ३.२३८.१६ ॥
你稳坐王国,被福运环绕,财富充盈——国王啊,请看那些被逐出王国、失去福运、不再兴盛的般度之子。
3.238.17
महाभिजनसंपन्नं भद्रे महति संस्थितम् ।
पाण्डवास्त्वाऽभिवीक्षन्तु ययातिमिव नाहुषां ॥ ३.२३८.१७ ॥
你出身高贵,善良的人啊,身居高位——愿般度之子仰望你,如同仰望那位那呼沙之子耶耶底。
3.238.18
यां श्रियं सुहृदश्चैव दुर्हृदश्च विशांपते ।
पश्यन्ति पौरुषैर्दीप्तां सा समर्था भवत्युत ॥ ३.२३८.१८ ॥
人主啊,朋友与敌人以男子汉的勇力所见的那光辉福运,才真正变得有力。
3.238.19
समस्थो विषमस्थान्हि दुर्हृदो योऽभिवीक्षते ।
जगतीस्थनिवाद्रिस्थः किमतः परमं सुखम् ॥ ३.२३८.१९ ॥
站在平地上,看着站在险地上的敌人,若居于大地或山峦之上,还有什么比这更大的快乐呢?
3.238.20
न पुत्रधनलाभेन न राज्येनापि विन्दति ।
प्रीतिं नृपतिशार्दूल याममित्राधदर्शनात् ॥ ३.२३८.२० ॥
王中猛虎啊,人并不因获得子嗣与财富,也不因王国,而得到那种因不见敌人而生的喜悦。
3.238.21
किंनु तस्य सुखं न स्यादाश्रमे यो धनंजयम् ।
अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम् ॥ ३.२३८.२१ ॥
若有人已成就所愿,在林居中看到身穿树皮与鹿皮的财主(阿周那),他难道不会快乐吗?
3.238.22
सुवाससो हि ते भार्या वल्कलाजिनसंवृताम् ।
पश्यन्तु दुःखितां कृष्णां सा च निर्विद्यतां पुनः ॥ ३.२३८.२२ ॥
你那些衣着华美的妻子,看看那身披树皮与鹿皮、满怀忧愁的黑天女(德罗珀蒂)吧;愿她也再次厌倦。
3.238.23
विनिन्दतां तथाऽत्मानं जीवितं च धनच्युतम् ।
दाराणां ते श्रियं दृष्ट्वा दीप्तामद्य जनाधिपा ॥ ३.२३८.२३ ॥
人主啊,今日她们看见你的妻子们容光焕发,便这样责备自己与失去财富的生活吧。
3.238.24
न तथा हि सभामध्ये तस्या भवितुमर्हति ।
वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलंकृताः ॥ ३.२३८.२४ ॥
在集会之中,她不应当像看见你那些盛装的妻子时那样悲伤。
3.238.25
एवमुक्त्वा तु राजानं कर्णः शकुनिना सह ।
तूष्णीं बभूवतुरुभौ वाक्यान्ते जनमेजय ॥ ३.२३८.२५ ॥
对国王如此说完后,迦尔纳与沙恭尼二人一同沉默,诃,惹那迈阁耶,言语终了之时。