Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.24

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.24.1

ततस्तेषु प्रयातेषु कौन्तेयः सत्यसंगरः ।
अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः ॥ ३.२४.१ ॥

他们离去之后,信守誓言、心怀正法的昆提之子坚战对所有兄弟说道。

3.24.2

द्वादशेमाः समाऽस्माभिर्वस्तव्यं निर्जने वने ।
समीक्षध्वं महारण्ये देशं बहुमृगद्विजम् ॥ ३.२४.२ ॥

这十二年我们必须住在这片荒无人烟的森林中;请在这座大森林中寻找一处有许多鹿与鸟的地方。

3.24.3

बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम् ।
यत्रेमा द्वादश समाः सुखं प्रतिवसेमहि ॥ ३.२४.३ ॥

在那花果繁盛、优美吉祥、适合圣洁之人居住的地方,我们可以安乐地度过这十二年。

3.24.4

एवमुक्ते प्रत्युवाच धर्मराजं धनंजयः ।
गुरुवन्मानववरं मानयित्वा मनस्विनम् ॥ ३.२४.४ ॥

听他这样说,财富征服者答复正法之王,像尊敬导师那样尊重这位人中之最、智者。

3.24.5

भवानेव महर्षीणां वृद्धानां पर्युपासिता ।
अज्ञातं मानुषे लोके भवतो नास्ति किंचन ॥ ३.२४.५ ॥

您自己一直侍奉大仙和长老;在人间世界里,没有任何事情是您不知道的。

3.24.6

त्वया ह्युपासिता नित्यं ब्राह्मणा वेदपारगाः ।
द्वैपायनप्रभृतयो नारदश्च महातपाः ॥ ३.२४.६ ॥

您始终侍奉精通吠陀的婆罗门,以毗耶娑等人为首,还有大苦行者那罗陀。

3.24.7

यः सर्वलोकद्वाराणि नित्यं संचरते वशी ।
देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि ॥ ३.२४.७ ॥

能自制者,常游历诸世界之门,从天界至梵界,乃至乾达婆与阿普萨拉斯之界。

3.24.8

अनुभावांश्च जानासि ब्राह्मणानां न संशयः ।
प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव ॥ ३.२४.८ ॥

君王啊,你无疑知晓婆罗门的威力与荣耀,也确实知晓众人的影响力。

3.24.9

त्वमेव राजञ्जानासि श्रेयःकारणमेव च ।
यत्रेच्छसि महाराज निवासं तत्र कुंर्महे ॥ ३.२४.९ ॥

君王啊,唯有你知晓福祉之因。大王啊,你愿居于何处,我们便在那里安住。

3.24.10

इदं द्वैतवनं नाम सरः पुण्यजनोषितम् ।
बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम् ॥ ३.२४.१० ॥

此名为二元林的湖泊,有圣善之人居住,花果繁多,清丽可爱,为各类飞鸟所栖。

3.24.11

अत्रेमा द्वादश समा विहरेमेति रोचये ।
यदि तेऽनुमतं राजन्किमन्यन्मन्यते भवान् ॥ ३.२४.११ ॥

我认为我们应在此度过这十二年。君王啊,若你认可,你还有何想法?

3.24.12

ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम् ।
गच्छामः पुण्यविख्यातं महद्द्वैतवनं सरः ॥ ३.२४.१२ ॥

普利塔之子啊,你所言也正是我的想法。让我们去那圣名远扬的大二元林湖吧。

3.24.13

ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः ।
ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः ॥ ३.२४.१३ ॥

于是,奉行法度的般度五子与众多婆罗门一同前往圣地二元林的湖泊。

3.24.14

ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः ।
स्वाध्यायिनो भिक्षवश्च तथैव वनवासिनः ॥ ३.२४.१४ ॥

奉持圣火的婆罗门、同样不持火的婆罗门、诵习自身吠陀者、乞食者,以及居住林中者,也都与他们同在。

3.24.15

बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम् ।
तपस्विनः सत्यशीलाः शतशः संशितव्रताः ॥ ३.२४.१५ ॥

众多婆罗门在那里围绕着坚战——数百位苦行者,性情诚实,坚守誓愿。

3.24.16

ते यात्वा पाण्डवास्तत्रब्राह्मणैर्बहुभिः सह ।
पुण्यं द्वैतवनं रम्यं विविशुर्बरतर्षभाः ॥ ३.२४.१६ ॥

到达那里后,婆罗多族中的英杰般度五子与众多婆罗门一同走进了秀美的圣地二元林。

3.24.17

तत्सालतालाम्रमधूकनीप-
कदम्बसर्जार्जुनकर्णिकारैः।
तपात्यये पुष्पधरैरुपेतं ।
महावनं राष्ट्रपतिर्ददर्श ॥ ३.२४.१७ ॥

炎热将尽之时,国王望见那座大森林,林中满是开花的娑罗、多罗、芒果、摩度迦、尼波、鸡蛋花、沙折、阿周那与金莲花树。

3.24.18

महाद्रुमाणां शिखरेषु तस्थु-
र्मनोरमां वाचमुदीरयन्तः।
मयूरदात्यूहचकोरसङ्घा-
स्तस्मिन्वने बर्हिणकोकिलाश्च ॥ ३.२४.१८ ॥

在大树的枝头,站立着成群的孔雀、达蒂尤哈鸟与遮迦罗鸟,发出悦耳的鸣叫;林中还有孔雀与杜鹃。

3.24.19

करेणुयूथैः सह यूथपानां ।
मदोत्कटानामचलप्रभाणाम्।
महान्ति यूथानि महाद्विपानां ।
तस्मिन्वने राष्ट्रपतिर्ददर्श ॥ ३.२४.१९ ॥

在那片森林中,这位国王看见了母象群与发情狂暴的象群首领,以及如山峦般光耀的大象的庞大象群。

3.24.20

मनोरमां भोगवतीमुपेत्य ।
पूतात्मनां चीरजटाधराणाम्।
तस्मिन्वने धर्मभृतां निवासे ।
ददर्श सिद्धर्षिगणाननेकान् ॥ ३.२४.२० ॥

他来到可爱的婆伽瓦蒂,在那片森林中——那里是身心纯净、穿着树皮衣、结着发髻的持法者的住所——他看见了许多成就的仙人群。

3.24.21

ततः स यानादवरुह्य राजा ।
सभ्रातृकः सजनः काननं तत्।
विवेश धर्मात्मवतां बरिष्ठ-
स्त्रिविष्टपं शक्र इवामितौजाः ॥ ३.२४.२१ ॥

于是,这位国王下车,与兄弟和随从一同进入那片森林——他是心怀正法者中最优秀的,如同无量威力的因陀罗进入天界。

3.24.22

तं सत्यसन्धं सहिताऽभिपेतु-
र्दिदृक्षवश्चारणसिद्धसङ्घाः।
वनौकसश्चापि नेरन्द्रसिंहं ।
मनस्विनं तं परिवार्य तस्थुः ॥ ३.२४.२२ ॥

渴望见到这位王者中的雄狮、信守誓言的人,天界歌者与成就者的群体聚集而来,林中居民也来了;他们围绕着这位高尚之人,站立在那里。

3.24.23

स तत्रवृद्धानभिवाद्य सर्वान् ।
प्रत्यर्चितो राजवद्देववच्च।
विवेश सर्वैः सहितो द्विजाग्र्यैः ।
कृताञ्जलिर्धर्मभृतां वरिष्ठः ॥ ३.२४.२३ ॥

他在那里向所有长者恭敬行礼,并如同国王与神明一般受到他们的尊重;与最优秀的婆罗门一同合掌而入,他是持法者中最优秀的人。

3.24.24

स पुण्यशीलः पितृवन्महात्मा ।
तपस्विभिर्मपरैरुपेत्य।
प्रत्यर्चितः पुष्पधरस्य मूले ।
महाद्रुमस्योपविवेश राजा ॥ ३.२४.२४ ॥

那位德行高尚、如父般的大心之王,走近苦行者与大仙人,受到他们的回礼,便坐在那棵开花的大树根下。

3.24.25

भीमश्च कृष्णा च धनंजयश्च ।
यमौ च ते चानुचरा नरेन्द्रम्।
विमुच्यवाहानवशाश्च सर्वे ।
तत्रोपतस्थुर्भरतप्रबर्हाः ॥ ३.२४.२५ ॥

怖军、黑天女、财友,以及双生子和他们所有的随从,解开了坐骑,疲惫不堪,都来到那里的人主面前——这些婆罗多中的俊杰们。

3.24.26

लतावतानावनतः स पाण्डवै-
र्महाद्रुमः पञ्चभिरेव धन्विभिः।
बभौ निवासोपगतैर्महात्मभि-
र्महागिरिर्वारणयूथपैरिव ॥ ३.२४.२६ ॥

那棵被藤蔓华盖压弯的大树,与前来此处居住的五位善射的般度之子——那些大心者——相映生辉,犹如大山与象群的首领相映生辉。