Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.240

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.240.1

धृतराष्ट्रं ततः सर्वेददृशुर्जनमेजय ।
दृष्ट्वा सुखमथो राज्ञः पृष्टा राज्ञा च भारत ॥ ३.२४०.१ ॥

嗟乎,耆那魔耶阇,众人于是见了持国王;见国王安好,并受国王所问,啊,婆罗多。

3.240.2

ततस्तैर्विहितः पूर्वं संगवो नाम वल्लवः ।
समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदयत् ॥ ३.२४०.२ ॥

于是先前由他们所任命的牧人名叫僧伽婆,将当时在附近的牛群之事报告给持国王。

3.240.3

अनन्तरं च राधेयः शकुनिश्च विशांपते ।
आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम् ॥ ३.२४०.३ ॥

此后,罗陀之子迦尔纳与沙恭尼,啊,人主,对王中最优者、人民之主持国王说话。

3.240.4

रमणीयेषु देशेषु घोषाः संप्रति कौरव ।
स्मारणे समयः प्राप्तो वत्सानामपि चाङ्कनम् ॥ ३.२४०.४ ॥

啊,俱卢,如今在风景宜人的地方有牛栏;清点的时候到了,也是给牛犊烙印的时候了。

3.240.5

मृगया चोचिता राजन्नस्मिन्काले सुतस्यते ।
दुर्योधनस्य गमनं त्वमनुज्ञातुमर्हसि ॥ ३.२४०.५ ॥

啊,王,此时狩猎正合时宜;你应允你的儿子难敌前往。

3.240.6

मृगया शोभना तात गवां हि समवेक्षणम् ।
विस्रम्भस्तु न गन्तव्यो वल्लवानामिति स्मरे ॥ ३.२४०.६ ॥

亲爱的孩子,狩猎是好的,察看牛群也是好的;但我记得,不可信任牧人。

3.240.7

ते तु तत्रनरव्याघ्राः समीप इति नः श्रुतम् ।
अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम् ॥ ३.२४०.७ ॥

我们听说那些人中之虎就在附近,因此我自己不许你们前往那里。

3.240.8

छद्मना निर्जितास्ते तु कर्शिताश्च महावने ।
तपोनित्याश्च राधेय समर्थाश्च महारथाः ॥ ३.२४०.८ ॥

被诡计击败,在大森林中憔悴,常修苦行;然而,啊,罗陀之子,他们是有能力的大战车武士。

3.240.9

धर्मराजो न संक्रुद्ध्येद्भीमसेनस्त्वमर्षणः ।
यज्ञसेनस् दुहिता तेज एवतु केवलम् ॥ ३.२४०.९ ॥

法王不会发怒,但不能容忍的毗摩 sena 与祭祀军之女——仅她的火一般的威烈(将成为愤怒的原因)。

3.240.10

यूयंचाप्यपराध्येयुर्दर्पमोहसमन्विताः ।
ततो विनिर्दहेयुस्ते तपसा हि समन्विताः ॥ ३.२४०.१० ॥

你们也可能因傲慢与迷惑而犯下过错;那时,具足苦行的他们会将你们彻底焚毁。

3.240.11

अथवा सायुधावीरा मन्युनाऽभिपरिप्लुताः ।
सहिता बद्धनिस्त्रिशा दहेयुः शस्त्रतेजसा ॥ ३.२४०.११ ॥

或者,手持武器的英雄们被愤怒所笼罩,佩剑聚集,将以兵器的光芒把你们焚毁。

3.240.12

अथ यूयं बहुत्वात्तान्नारभध्वं कथंचन ।
अनार्यं परमं तत्स्यादशक्यं तच्च वै मतम् ॥ ३.२४०.१२ ॥

因此,鉴于他们人多,你们无论如何都不要向他们发起进攻;那将极其不义,而且被认为是不可能的。

3.240.13

उषितो हि महाबाहुरिन्द्रलोके धनंजयः ।
दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनं ॥ ३.२४०.१३ ॥

大臂的达南惹耶住在因陀罗界,获得神圣武器后,便返回森林。

3.240.14

अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा ।
किं पुनः सकृतास्त्रोऽद्य न हन्याद्वो महारथः ॥ ३.२४०.१४ ॥

昔日比毗婆萨没有精通武艺便征服了大地;如今这位精通武艺的大车战士,岂不会杀死你们?

3.240.15

अथवा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ ।
उद्विग्रवासा विस्रब्धा दुःखं तत्रगमिष्यथ ॥ ३.२४०.१५ ॥

或者,听了我的话,你们在那里会保持警惕;无论心怀忧虑还是安心居住,你们前往那里都将遭遇痛苦。

3.240.16

अथवा सैनिकाः केचिदपकुर्युर्युधिष्ठिरे ।
तदबुद्धिकृतंकर्म दोषमुत्पादयेच्च वः ॥ ३.२४०.१६ ॥

或者某些士兵可能冒犯坚战;那由愚昧所做的行为,会给你们带来过失。

3.240.17

तस्मादन्ये नरा यान्तु स्मारणायाप्तकारिणः ।
न स्वयं तत्रगमनं रोचये तव भारत ॥ ३.२४०.१७ ॥

因此,让其他可靠之人前去提醒他们;婆罗多的后裔啊,我不赞成你亲自前往那里。

3.240.18

धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि ।
तेन द्वादशवर्षाणि वस्तव्यानीति भारत ॥ ३.२४०.१८ ॥

精通法的长子般度族在大会上作出了誓言;因此,婆罗多啊,他必须居住十二年。

3.240.19

अनुवृत्ताश्च रतं सर्वे पाण्डवा धर्मचारिणः ।
युधिष्ठिरस्तु कौन्तेयो न नः कोपं करिष्यति ॥ ३.२४०.१९ ॥

所有奉行法义的般度之子都欣然顺从;但昆蒂之子坚战不会对我们发怒。

3.240.20

मृगयां चैव नो गन्तुमिच्छा संवर्धते भृशम् ।
स्मारणं तु चिकीर्षामो न तु पाण्डवदर्सनम् ॥ ३.२४०.२० ॥

我们去打猎的愿望日益强烈;我们只想提醒,而不是去见般度之子。

3.240.21

न चानार्यसमाचारः कश्चित्तत्र भविष्यति ।
न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः ॥ ३.२४०.२१ ॥

那里不会发生任何卑劣的行为,我们也不会去他们居住的地方。

3.240.22

एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः ।
दुर्योधनं सहामात्यमनुजज्ञे न कामतः ॥ ३.२४०.२२ ॥

沙古尼如此说后,人主持国王将许可给予难敌及其大臣,但并非出于他自己的心意。

3.240.23

अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा ।
निर्ययौ भरतश्रेष्ठो बलेन महता वृतः ॥ ३.२४०.२३ ॥

于是,得到许可的甘陀利之子与迦尔纳一同出发,这位婆罗多最优秀者被庞大的军队环绕。

3.240.24

दुःशासनेन च तथा सौबलेन च धीमता ।
संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः ॥ ३.२४०.२४ ॥

被难降和智慧的苏婆罗(沙古尼)、兄弟和其他人所围绕,也被成千上万的女人所围绕。

3.240.25

तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः ।
पौराश्चानुययुः सर्वेसहदारा वनं च तत् ॥ ३.२४०.२५ ॥

当那位大臂之王前往观看二林之湖时,所有城中百姓偕同妻子跟随他前往那片森林。

3.240.26

अष्टौ रथसहस्राणि त्रीणि नागायुतानि च ।
पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः ॥ ३.२४०.२६ ॥

有八千辆战车、三万头象、数以千计的步兵,以及九千匹马。

3.240.27

शकटापणवेशाश्च वणिजो वन्दिनस्तथा ।
नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः ॥ ३.२४०.२७ ॥

车夫、店主与妓女、商贾、同样还有赞者,以及喜好狩猎的人,成百上千。

3.240.28

ततः प्रयाणे नृपतेः सुमहानभवत्स्वनः ।
प्रावृषीव महावायोरुत्थितस्य विशांपते ॥ ३.२४०.२८ ॥

那时,人民之主啊,国王出发之际,爆发出巨大的喧声,犹如雨季里升起的大风。

3.240.29

गव्यूतिमात्रेन्यवसद्राजा दुर्योधनस्तदा ।
प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः ॥ ३.२४०.२९ ॥

那时国王难敌在一个牛程的距离处驻扎;随后带着所有车辆出发,从那里前往二林的湖泊。