Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.241

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.241.1

अथ दुर्योधनो राजा तत्रतत्र वने वसन् ।
जगाम घोषानभितस्तत्र चक्रे निवेशनम् ॥ ३.२४१.१ ॥

于是国王难敌在森林中四处居住,前往牛栏四周,在那里安营扎寨。

3.241.2

रमणीये समाज्ञाते सोदके समहीरुहे ।
देशे सर्वगुणोपेते चक्रुरावसथान्नराः ॥ ३.२४१.२ ॥

在一个宜人、有名、有水有树、具备一切优点的地方,人们建造了住所。

3.241.3

तथैव तत्समीपस्थान्पृथगावसथान्बहून् ।
कर्णस्य शकुनेश्चैव भ्रातॄणां चैव सर्वशः ॥ ३.२४१.३ ॥

同样,在他附近,为迦尔纳、沙恭尼和兄弟们另设了许多住所。

3.241.4

पश्यन्तस्ते तदा गावः शतशोऽथ सहस्रशः ।
अङ्कर्लक्षैश्च ताः सर्वा लक्षयामास पार्थिवः ॥ ३.२४१.४ ॥

此时,国王看到成百上千的牛,便用烙印和记号将它们全部做了标记。

3.241.5

अङ्कयामास वत्सांश्च जज्ञे चोपसृतांस्त्वपि ।
बालवत्साश्च यां गावः कालयामास ता अपि ॥ ३.२४१.५ ॥

他也给小牛做了标记,无论是靠近的还是新生的;并且也数了那些带着幼崽的母牛。

3.241.6

अथ स स्मारणं कृत्वा लक्षयित्वा त्रिहायनान् ।
वृतो गोपालकैः प्रीतो व्याहरत्कुरुनन्दनः ॥ ३.२४१.६ ॥

于是,他回忆并标记了三岁的小牛,被牧人包围,欢喜的库卢之子说道。

3.241.7

स च पौरजनः सर्वः सर्वः सैनिकाश्च सहस्रशः ।
यथोपजोषं चिक्रीडुर्वने तस्मिन्यथाऽमराः ॥ ३.२४१.७ ॥

所有城中居民与成千上万的士兵,如同天神一般,在那片森林中随心所欲地嬉戏。

3.241.8

ततोऽध्वगमनाच्छ्रान्तं कुशला नृत्यवादितैः ।
धार्तराष्ट्रमुपातिष्ठन्कन्याश्चैव स्वलंकृताः ॥ ३.२४१.८ ॥

于是,精通舞蹈与音乐、盛装打扮的少女们前来侍奉因路途劳顿而疲倦的持国之子。

3.241.9

स स्त्रीगणवृतो राजा प्रहृष्टः प्रददौ वसु ।
तेभ्यो यथार्हमन्नानि पानानि विविधानि च ॥ ३.२४१.९ ॥

那位被众多女子簇拥的国王欣喜地赐予她们与其身份相称的财物,以及各种饮食。

3.241.10

ततस्ते सहिताः सर्वे तरक्षून्महिषान्मृगान् ।
गवयर्क्षवराहांश्च समन्तात्पर्यवारयन् ॥ ३.२४१.१० ॥

于是他们众人合力,从四面包围了鬣狗、水牛、鹿、牛羚、熊和野猪。

3.241.11

स ताञ्छरैर्विनिर्भिद्य गजांश्च सुबहून्वने ।
रमणीयेषु देशेषु ग्राहयामास वै मृगान् ॥ ३.२४१.११ ॥

他以箭射穿了它们,也射穿了林中许多大象,并在美丽的地方让人捕获了鹿。

3.241.12

गोरसानुपयुञ्जान उपभोगांशच् भारत ।
पश्यन्स रमणीयानि वनान्युपवनानि च ॥ ३.२४१.१२ ॥

婆罗多啊,他享用乳制品与其他种种享乐,同时观赏那些美丽的森林与园林。

3.241.13

मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च ।
अगच्छदानुपूर्व्येण पुण्यं द्वैतवनं सरः ॥ ३.२४१.१३ ॥

他依次穿过充满醉舞蜂群、回荡着孔雀鸣叫的森林,前往德瓦伊塔森林的圣湖。

3.241.14

मत्तभ्रमरसंजुष्टं नीलकण्ठरवाकुलम् ।
सप्तच्छदसमाकीर्णं पुन्नागवकुलैर्युतम् ॥ ३.२४१.१४ ॥

那湖泊有醉蜂聚集,充满孔雀的鸣叫,四周密布七叶树,并有檀香与海棠状的树木装点。

3.241.15

ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत् ।
यदृच्छया च तत्रस्थो धर्मपुत्रो युधिष्ठिरः ॥ ३.२४१.१५ ॥

法之子坚战拥有至高的繁荣,如持金刚杵的大因陀罗,在那里随心所欲地住着。

3.241.16

ईजे राजर्षियज्ञेन साद्यस्केन विशांपते ।
दिव्येन विधिना चैव वन्येन कुरुसत्तम ॥ ३.२४१.१६ ॥

人民之主,库鲁之最,他以王仙的祭祀、速成祭祀、天界仪轨和林中仪轨举行了祭祀。

3.241.17

विद्वद्भिः सहितो धीमान्ब्राह्मणैर्वनवासिभिः ।
कृत्वा निवेशमभितः सरसस्तस्य कौरव।
द्रौपद्या सहितो धीमान्धर्मपत्न्या नराधिपः ॥ ३.२४१.१७ ॥

这位智者与学者及居住林中的婆罗门一同,在那湖的四周安顿下来。库鲁子孙啊,那位智慧的人主与法妻德劳帕蒂同在。

3.241.18

ततो दुर्योधनः प्रेष्यानादिदेश सहानुजः ।
आक्रीडावसथाञ्शीघ्रं कुरुध्वं सरसोऽभितः ॥ ३.२४१.१८ ॥

于是,难敌与诸弟一同对仆役下令:“快去湖的四周建造游乐的房舍。”

3.241.19

ते तथेत्येव कौरव्यमुक्त्वा वचनकारिणः ।
चिकीर्षन्तस्तदाक्रीडाञ्जग्मुर्द्वैतवनं सरः ॥ ३.२४१.१९ ॥

众人对俱卢之子说'遵命'之后,便想要布置那些游乐之所,前往二林的湖边去了。

3.241.20

सेनाग्र्यं धार्तराष्ट्रस् प्राप्तं द्वैतवनं सरः ॥ ३.२४१.२० ॥

持国之子的主力大军抵达了二林的湖边。

3.241.21

प्रविशन्तं वनद्वारि गन्धर्वाः समवारयन् ।
तत्र गन्धऱ्वराजो वै पूर्वमेव विशांपते।
कुबेरभवनाद्राजन्नाजगाम गणावृतः ॥ ३.२४१.२१ ॥

他们进入林门时,乾闼婆们一同阻拦了他们。人主啊,乾闼婆之王早已从俱毗罗的宫殿率众前来,被众随从所簇拥。

3.241.22

गणैरप्सरसां चैव त्रिदशानां तथाऽऽत्मजैः ।
विहारशीलैः क्रीडार्थं तेन तत्संवृतं सरः ॥ ३.२४१.२२ ॥

他与天女之众和诸天之子同在——他们喜好游乐,为嬉戏而来——已将那湖环绕。

3.241.23

तेन तत्संवृतं दृष्ट्वा ते राजपरिचारकाः ।
प्रतिजग्मुस्ततो राजन्यत्र दुर्योधनो नृपः ॥ ३.२४१.२३ ॥

他们看到那湖已被他占据,国王的侍从们,啊,国王,便返回了杜尔约陀那所在的地方。

3.241.24

स तु तेषां वचः श्रुत्वा सैनिकान्युद्धदुर्मदान् ।
प्रेषयामास कौरव्य उत्सारयत तानिति ॥ ३.२४१.२४ ॥

然而俱卢之子听了他们的话,便派遣那些因好战而狂傲的士兵,说道:'把他们赶走!'

3.241.25

तस्य तद्वचनं श्रुत्वा राज्ञः सेनाग्रयायिनः ।
सरो द्वैनवनं गत्वा गन्धर्वानिदमब्रुवन् ॥ ३.२४१.२५ ॥

王的先锋军人听到这番话后,前往二林的湖边,对乾闼婆说了这些话。

3.241.26

राजा दुर्योधनो नाम धृतराष्ट्रसुतो बली ।
चिक्रीडिषुरिहायाति तदर्थमपसर्पत ॥ ३.२४१.२६ ॥

名叫难敌的王,即持国之子、强大的王子,为了游乐而来此地;因此你们应当让开。

3.241.27

एवमुक्तास्तु गन्धर्वाः रप्रहसन्तो विशांमपते ।
प्रत्यब्रुवंस्तान्पुरुषानिदं हि परुषं वचः ॥ ३.२४१.२७ ॥

人主啊,被这样说之后,乾闼婆们笑着,对那些人说出了这些粗暴的话。

3.241.28

न चेतयति वो राजा मन्दबुद्धिः सुयोधनः ।
योऽस्मानाज्ञापयत्येवं वश्यानिव दिवौकसः ॥ ३.२४१.२८ ॥

愚钝的王苏尤达那不认识你们,竟这样命令我们这些天界居民,仿佛我们是他顺从的仆人。

3.241.29

यूयं मुमूर्षवश्चापि मन्दप्रज्ञा न संशयः ।
ये तस् वचनादेवमस्मान्ब्रूथ विचेतसः ॥ ३.२४१.२९ ॥

你们也是求死且愚昧之人,这毫无疑问;你们听从他的话这样对我们说话,是失去理智的人。

3.241.30

गच्छध्वं त्वरिताः सर्वे यत्र राजा स कौरवः ।
न चेदद्यैव गच्छध्वं धर्मराजनिवेशनम् ॥ ३.२४१.३० ॥

你们都快去那位俱卢王所在的地方;如果今天不去,就要前往法王的住所了。

3.241.31

एवमुक्तास्तु गन्धर्वै राज्ञः सेनाग्रयायिनः ।
संप्राद्रवन्यतो राजा धृतराष्ट्रसुतोऽभवत् ॥ ३.२४१.३१ ॥

乾闼婆如此言告之后,国王军队的先锋们一齐向德罗陀罗陀罗之子所在之处奔去。