摩诃婆罗多 · 章 3.245
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.245.1
युधिष्ठिरवचः श्रुत्वा भीमसेनपुरोगमाः ।
प्रहृष्टवदनाः सर्वे समुत्तस्थुर्नरर्षभाः ॥ ३.२४५.१ ॥
众人听了坚战的话,以比摩森那为首的诸位人中雄杰,面带喜色,全都站了起来。
3.245.2
अभेद्यानि ततः सर्वे समनह्यन्त भारत ।
जाम्बूनदविचित्राणि कवचानि महारथाः।
आयुधानि च दिव्यानि विविधानि समादधुः ॥ ३.२४५.२ ॥
婆罗多之子啊,于是诸大战车武士披上以赡部河金装饰的坚不可摧的铠甲,拿起各种天界神兵。
3.245.3
ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः ।
पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इवपावकाः ॥ ३.२४५.३ ॥
披甲的般度诸子,乘坐战车,持旗执弓,全都如同熊熊烈火般显现出来。
3.245.4
तान्रथान्साधुसंपन्नान्संयुक्ताञ्जवनैर्हयैः ।
आस्थाय रथशार्दूलाः शीघ्रमेव ययुस्ततः ॥ ३.२४५.४ ॥
诸车中的虎将登上那些配备齐全、套着快马的战车,立刻出发了。
3.245.5
ततः कौरवसैन्यानां प्रादुरासीन्महास्वनः ।
प्रयातान्सहितान्दृष्ट्वा पाण्डुपुत्रान्महारथान् ॥ ३.२४५.५ ॥
于是考罗婆军中爆发出巨大的喧嚷,因为他们看见般度之子诸大战车武士结伴出发。
3.245.6
जितकाशिनश्च स्वचरास्त्वरिताश्च महारथाः ।
क्षणेनैव वने तस्मिन्समाजग्मुरभीतवत् ॥ ३.२४५.६ ॥
诸大战车武士满怀胜利的信心,行动敏捷而急切,瞬间便在那片森林中无畏地聚集起来。
3.245.7
न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः ।
दृष्ट्वा रथगतान्वीरान्पाण्डवांश्चतुरो रणे ॥ ३.२४५.७ ॥
于是所有以胜利自负的乾闼婆返身而退,见到战场上立于战车之中的四位英雄——般度之子。
3.245.8
तांस्तु विभ्राजितान्दृष्ट्वा लोकपालानिवोद्यतान् ।
व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः ॥ ३.२४५.८ ॥
见他们光芒耀眼、昂然挺立如世界守护神,乾摩陀那山的居民便列阵坚守,屹立不动。
3.245.9
राज्ञस्तु वचनं श्रुत्वा धर्मपुत्रस्य धीमतः ।
क्रमेण मृदुना युद्धमुपक्रान्तं च भारत ॥ ३.२४५.९ ॥
婆罗多啊,听了智慧的法之子国王的话,战斗便以温和而有序的方式开始了。
3.245.10
न तु गन्धर्वराजस्य सैनिका मन्दचेतसः ।
शक्यन्ते मृदुना श्रेयः प्रतिपादयितुं तदा ॥ ३.२४५.१० ॥
然而乾闼婆王的士兵心智愚钝;当时无法以温和之道向他们说明什么是善。
3.245.11
ततस्तान्युधि दुर्धर्षान्सव्यसाची परंतपः ।
सान्त्वपूर्वमिदं वाक्यमुवाच खचरान्रणे ॥ ३.२४५.११ ॥
于是能拉左右弓的阿周那,灭敌者,以安抚之语对战场上那些不可战胜、行于天空的乾闼婆说道。
3.245.12
नैतद्गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम् ।
परदाराभिमर्शश्च मानुषैश्च समागमः ॥ ३.२४५.१२ ॥
乾闼婆王的这种行为不合宜,应受谴责:触碰他人之妻,以及与人类这样的相遇。
3.245.13
उत्सृजध्वं महावीर्यान्धृतराष्ट्रसुतानिमान् ।
दारांश्चैषां प्रमुञ्चध्वं धर्मराजस्य शासनात् ॥ ३.२४५.१३ ॥
放了这些勇力非凡的持国之子吧,也依法王之命释放他们的妻子。
3.245.14
त एवमुक्ता गन्धर्वाः पाण्डवेन यशस्विना ।
उत्स्मयन्तस्तदा पार्थमिदं वचनमब्रुवन् ॥ ३.२४५.१४ ॥
光荣的般度之子如此说话后,乾闼婆们笑着对普利塔之子说了这番话。
3.245.15
एकस्यैव वयं तात कुर्याम वचनं भुवि ।
यस्य शासनमाज्ञाय चरामो विगतज्वराः ॥ ३.२४५.१५ ॥
孩子,在大地上我们只遵从一人的话;知道他的命令,我们便无忧无虑地行走。
3.245.16
तेनैकेन रकयथादिष्टं तथा वर्ताम भारत ।
न शास्ता विद्यतेऽस्माकमन्यस्तस्मात्सुरेश्वरात् ॥ ३.२४५.१६ ॥
婆罗多之裔啊,我们依那一人的吩咐行事;除了那位天神之主,我们再没有别的统治者。
3.245.17
एवमुक्तः स गन्धर्वैः कुन्तीपुत्रो धनंजयः ।
गन्धर्वान्पुनरेवैतान्वचनं प्रत्यभाषत ॥ ३.२४५.१७ ॥
乾闼婆们如此说后,贡蒂之子财富胜利者又对这些乾闼婆说了这番话。
3.245.18
यदि साम्ना न मुञ्चध्वं गन्धर्वा धृतराष्ट्रजान् ।
मोक्षयिष्यामि विक्रम्य स्वयमेव सुयोधनम् ॥ ३.२४५.१८ ॥
乾闼婆们啊,如果你们不以和解释放持国之子,我将亲自以武力救出苏由达那。
3.245.19
एवमुक्त्वा ततः पार्थः सव्यसाची धनंजयः ।
ससर्ज निशितान्बाणान्खचरान्खचरान्प्रति ॥ ३.२४५.१९ ॥
说罢,两手皆能射箭的萨维亚萨钦、普利塔之子、财富征服者阿周那,向空中行者射出锐利的箭。
3.245.20
तथैव शरवर्षेण गन्धर्वास्ते बलोत्काटाः ।
पाण्डवानभ्यवर्तन्त पाण्डवाश्च दिवौकसः ॥ ३.२४५.२० ॥
同样,他们以箭雨猛攻般度族;般度族也冲向天界的居民。
3.245.21
ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम् ।
बभूव भीमवेगानां च भात ॥ ३.२४५.२१ ॥
于是,迅捷的乾闼婆与疾速如风的战士之间爆发了极为激烈的战斗……