Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.246

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.246.1

ततो दिव्यास्त्रसंपन्ना गन्धर्वा हेममालिनः ।
विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारयन् ॥ ३.२४६.१ ॥

于是,身怀神兵、佩戴金色花环的乾闼婆们射出炽热的箭矢,从四面八方将他们包围。

3.246.2

चतुरः पाण्डवान्वीरान्गन्धर्वाश्च सहस्रशः ।
रणे संन्यपतन्राजंस्तदद्भुतमिवाभवत् ॥ ३.२४६.२ ॥

大王啊!在战斗中,成千上万的乾闼婆一齐扑向四位英勇的般度子,那景象竟如奇迹一般。

3.246.3

यथा कर्णस्य च रथो धार्तराष्ट्रस् चोभयोः ।
गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रितरे ॥ ३.२४६.३ ॥

正如迦尔纳与持国之子的战车都被乾闼婆击碎了数百次,他们的战车也同样被击碎了。

3.246.4

तान्समापततो राजन्गधर्वाञ्छतशो रणे ।
प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः ॥ ३.२४६.४ ॥

大王啊!战斗中数百名乾闼婆向他们扑来时,这些人中之虎以多种方式倾泻箭雨加以迎击。

3.246.5

ते कीर्यमाणाः खगमाः शरवर्षैः समन्ततः ।
न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम् ॥ ३.२४६.५ ॥

四面八方被箭雨倾泻,那些行于天空的乾闼婆既不能立足于般度之子附近,也无法转身退去。

3.246.6

अभिक्रुद्धानभिक्रुद्धो गन्धर्वानर्जुनस्तदा ।
लक्षयित्वाऽथ दिव्यानि महास्त्राण्युपचक्रमे ॥ ३.२४६.६ ॥

此时,阿周那见乾闼婆们怒气冲冲,自己也震怒起来,开始施放神圣的大神兵。

3.246.7

सहस्राणां सहस्राणि प्राहिणोद्यमसादनम् ।
अजेयानर्जुनः सङ्ख्ये गन्धर्वाणां बलोत्कटः ॥ ३.२४६.७ ॥

在战斗中,力大无比的阿周那把成千上万不可战胜的乾闼婆送往阎摩之所。

3.246.8

तथा भीमो महेष्वासः संयुगे बलिनांवरः ।
गन्धर्वाञ्शतशो राजञ्चघान निशितैः शरैः ॥ ३.२४६.८ ॥

同样,大弓箭手、战斗中最强者毗摩,啊,国王,以利箭成百地射杀了乾闼婆。

3.246.9

माद्रीपुत्रावपि तथा युध्मानौ बलोत्कटौ ।
परिगृह्याग्रतो राजञ्जघ्नतुः शतशः परान् ॥ ३.२४६.९ ॥

同样,摩德莉的两个儿子,强大的战士,啊,国王,从前方包围,成百地击杀了敌人。

3.246.10

तेवध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महारथैः ।
उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः ॥ ३.२४६.१० ॥

那些乾闼婆被大车手们的神圣武器击杀,便带着持国之子们升向天空。

3.246.11

सतानुत्पतितानदृष्ट्वा कुन्तीपुत्रो धनंजयः ।
महता शरजालेन समन्तात्पर्यवारयत् ॥ ३.२४६.११ ॥

看到他们没有升起,贡蒂之子持财以大量箭网从四面包围了他们。

3.246.12

ते ब्रद्धाः शरजालेन शकुन्ता इव पञ्जरे ।
ववर्पुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः ॥ ३.२४६.१२ ॥

他们像笼中的鸟一样陷入箭网,愤怒地向阿周那倾下一阵阵棍棒、长矛和投枪的暴雨。

3.246.13

गदाशक्त्यृष्टिवृष्टीस्ता निहत्य परमास्त्रवित् ।
गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनंजयः ॥ ३.२४६.१३ ॥

精通至上武器的檀那耶(阿周那)摧毁了那场棍棒、长矛与标枪的暴雨,并用新月形箭矢射中了乾闼婆们的身体。

3.246.14

शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा ।
अश्मवृष्टिरिवाभाति परेषामभवद्भयम् ॥ ३.२४६.१४ ॥

随着头颅、双足和手臂纷纷坠落,它看上去如同石雨,敌人心中生出了恐惧。

3.246.15

ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना ।
भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन् ॥ ३.२४६.१५ ॥

那些被大德的般度之子所杀的乾闼婆,站在地上与空中,以箭雨将他覆盖。

3.246.16

तेषां तु शरवर्षाणि सव्यसाची परंतपः ।
अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत ॥ ३.२४६.१६ ॥

然而,那位光辉的敌人焚烧者萨维亚萨钦以兵器挡住了他们的箭雨,并反击乾闼婆们。

3.246.17

स्थूणाकर्णेन्द्रजालं च सौरं चापि तथाऽर्जुनः ।
आग्नेयं चापि सौम्यं च ससर्ज कुरुननदनः ॥ ३.२४६.१७ ॥

阿周那发出了柱耳、因陀罗网与日神之箭,而库鲁的喜悦者也发出了火神与月神之箭。

3.246.18

ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः ।
दैतेया इव शक्रेण विषादमगमन्परम् ॥ ३.२४६.१८ ॥

被昆蒂之子的箭所焚烧的那些乾闼婆,如同被因陀罗所困扰的檀那婆,陷入了极度的悲痛。

3.246.19

ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः ।
विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना ॥ ३.२४६.१९ ॥

从上方进攻者被箭网所阻,向前推进者被钩箭所挡——皆由两手俱能开弓的萨维亚萨钦(阿周那)阻止。

3.246.20

गन्धर्वांस्त्रासितान्दृष्ट्वा कुन्तीपुत्रेण भारत ।
चित्रसेनो गदां गृह्य सव्यसाचिनमनाद्रवत् ॥ ३.२४६.२० ॥

婆罗多,见到乾达婆被贡蒂之子吓得惊慌,支多罗犀那握起铁锤,朝萨维亚萨钦(阿周那)冲去。

3.246.21

तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे ।
गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा ॥ ३.२४६.२१ ॥

他在战斗中手持铁锤迅速扑来时,帕尔塔(阿周那)用箭将他那整柄铁锤斩成七段。

3.246.22

स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना ।
संवृत्य विद्ययाऽऽत्मानं योधयामास पाण्डवं ॥ ३.२४६.२२ ॥

他见自己的铁锤被那迅捷者的箭射断成多段,便以幻术隐藏自身,与般度之子交战。

3.246.23

अस्त्राणइ तस्य दिव्यानि संप्रयुक्तानि सर्वशः ।
दिव्यैरस्त्रैस्तदा वीरः पर्यवारयदर्जुनः ॥ ३.२४६.२३ ॥

他从四面八方发射的神兵,英雄阿周那便以神兵从四周将其一一挡开。

3.246.24

स वार्यमाणस्तैरस्त्रैरर्जुनेन महात्मना ।
गन्धर्वराजो बलवान्माययाऽन्तर्हितस्तदा ॥ ३.२४६.२४ ॥

被那位大德阿周那的神兵所阻,强大的乾达婆王便以幻术隐身而去。

3.246.25

अन्तर्हितं तमालक्ष्य प्रहरन्तमथार्जुनः ।
ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः ॥ ३.२४६.२५ ॥

阿周那见他隐身攻击,便以经神圣武器咒语加持的飞行于天空的箭矢射击他。

3.246.26

अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा ।
शब्दवेषं समाश्रित्य बहुरूपो धनंजयः ॥ ३.२४६.२६ ॥

于是愤怒的阿周那摧毁了他的隐形;化为声音之形的多形者财胜(阿周那)做到了这一点。

3.246.27

रस वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना ।
ततोऽस्य दर्शयामास तदाऽऽत्मानं प्रियः सखा ॥ ३.२४६.२७ ॥

被大德阿周那的那些武器击中……这时,他亲爱的朋友向他显现了自身。

3.246.28

चित्रसेनस्तथोवाच सखायं युधि विद्धि माम् ।
चित्रसेनमथालक्ष्य सखायमिति विस्मितः ॥ ३.२४६.२८ ॥

于是持光说道:“在战斗中,你当知我是你的朋友。”看到持光是朋友,他感到惊讶。

3.246.29

संजहारास्त्रमथं तत्प्रसृष्टं पाण्डवर्षभः ॥ ३.२४६.२९ ॥

于是般度族中的雄牛收回了他所发射的那件武器。

3.246.30

दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनंजयम् ।
संजह्रुः प्रद्रुतानश्वाञ्शरवेगान्धनूंषि च ॥ ३.२४६.३० ॥

般度诸子看见收回了武器的财胜,便停下奔驰的马匹、箭矢的速度以及弓。

3.246.31

चित्रसेनश्च भीमश्च सव्यसाची यमावपि ।
पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे ॥ ३.२४६.३१ ॥

Citrasena、Bhīma、Savyasācin Arjuna以及双胞胎也都互相问候平安,然后仍站在各自的战车上。