Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.25

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.25.1

तत्काननं प्राप्य नरेन्द्रपुत्राः ।
सुखोचिता वासमुपेत्य कृच्छ्रम्।
विजह्रुरिनद्रप्रतिमाः शिवेषु ।
सरस्वतीसालवनेषु तेषु ॥ ३.२५.१ ॥

王子们来到那片森林,他们习惯于安逸,艰难地找到住处后,如因陀罗一般,在萨拉斯瓦蒂河吉祥的娑罗林中游荡。

3.25.2

यतींश्च राजा स मुनींश्च सर्वां ।
स्तस्मिन्वने मूलफलैरुदग्रैः।
द्विजातिमुख्यानृषभः कुरूणां ।
संतर्पयामास महानुभावः ॥ ३.२५.२ ॥

那位胸怀宏大的库鲁族雄牛般的国王,在那森林中以上好的根茎和果实,使苦行者、所有的仙人以及再生族中的杰出者得到满足。

3.25.3

इष्टीश्च पित्र्याणि तथा क्रियाश्च ।
महावने वसतां पाण्डवानाम्।
पुरोहितस्तत्र समृद्धतेजा-
श्चकार धौम्यः पितृवन्नृपाणाम् ॥ ३.२५.३ ॥

为居住在大森林中的般度五王子,那位光辉充盈的祭司达乌米亚为诸王举行祭祀与祖先之礼,如同为祖先那般。

3.25.4

अपेत्य राष्ट्राद्वसतां तु तेषा-
मृषिः पुराणोऽतिथिराजगाम।
तमाश्रमं तीव्रसमृद्धतेजा ।
मार्कण्डेयः श्रीमतां पाण्डवानाम् ॥ ३.२५.४ ॥

远离王国居住的他们那里,一位古老的仙人作为客人来到。那位拥有猛烈而丰盛光辉的摩根德耶,来到了光荣的般度五王子的修行处。

3.25.5

तमागतं ज्वलितहुताशनप्रभं ।
महामनाः कुरुवृषभो युधिष्ठिरः।
अपूजयत्सुरऋषिमानवार्चितं ।
महामुनिं ह्यनुपमसत्ववीर्यवान् ॥ ३.२५.५ ॥

那位到来的大仙人,光辉如熊熊烈火,受到诸神、仙人与人类的礼敬,拥有无与伦比的勇气与力量,胸怀宏大的库鲁族雄牛坚战以礼相待。

3.25.6

स सर्वविद्द्रौपदीं वीक्ष्य दीनां ।
युधिष्टिरं भीमसेनार्जुनौ च।
संस्मृत्यरामं मनसा महात्मा ।
तपस्विमध्येऽस्मयतामितौजाः ॥ ३.२५.६ ॥

全知者看见悲伤的德罗波蒂、坚战、怖军和阿周那,心中忆起伟大的罗摩,在苦行者之中,这位力量无量者微笑了。

3.25.7

तं धर्मराजो विमना इवाब्रवी-
त्सर्वे ह्रिया सन्ति तपस्विनोऽमी।
भवानिदं किं स्मयतीव हृष्ट-
स्तपस्विनां पश्यतां मामुदीक्ष्य ॥ ३.२५.७ ॥

法王心中不安,对他说:“这些苦行者都感到羞愧。你为何似乎欢喜地微笑,看着我,而苦行者们都在看着?”

3.25.8

न तात हृष्यामि न च स्मयामि ।
प्रहर्षजो मां भजतेन दर्पः।
तवापदं त्वद्य समीक्ष्य रामं ।
सत्यव्रतं दाशरथिं स्मरामि ॥ ३.२५.८ ॥

亲爱的,我既不欢喜,也不微笑;喜悦所生的傲慢也不会攫住我。今日看见你的灾难,我想起了遵守誓言的十车王之子罗摩。

3.25.9

स चापि राजा सह लक्ष्मणेन ।
वने निवासं पितुरेव शासनात्।
धन्वी चरन्पार्थ मयैव दृष्टो ।
गिरे पुरा ऋष्यमूकस्य सानौ ॥ ३.२५.९ ॥

那位国王与罗什曼那一同遵父命居于林中,手持弓箭游行,啊,普利塔之子,昔日曾被我在猴山(Ṛṣyamūka)的山坡上见到。

3.25.10

सहस्रनेत्रप्रतिमो महात्मा ।
यमस्य नेता नमुचेश्च हन्ता।
पितुर्निदेशादनघः स्वधर्मं ।
चरन्वने दाशरथिश्चकार ॥ ३.२५.१० ॥

如同千眼之神,这位伟大的灵魂,引导阎摩、杀死那牟吉的无瑕之子十车王之子,遵父命在林中履行自己的本分,便做了此事。

3.25.11

स चापि शक्रस् समप्रभावो ।
महानुभावः समरेष्वजेयः।
विहाय भोगानचरद्वनेषु ।
नेशे बलस्येति चरेदधर्मम् ॥ ३.२५.११ ॥

他也与因陀罗同等威力,大德之人,在战场上不可战胜。他舍弃享乐,游行于森林之中。不可为了力量而行非法之事。

3.25.12

भापाश्च नाभागभगीरथादयो ।
महीमिमां सागरान्तां विजित्य।
सत्येन तेऽप्यजयस्तात लोका-
न्नेशे बलस्येति चरेदधर्मम् ॥ ३.२५.१२ ॥

如那伽与婆吉罗陀等诸王征服了这被大海环绕的大地;亲爱的,他们也以真理征服了诸界。不可为了力量而行非法之事。

3.25.13

अलर्कमाहुर्नवर्य सन्तं ।
सत्यव्रतं काशिकरूशराजम्।
विहाय राज्यानि वसूनि चैव ।
नेशे बलस्येति चरेदधर्मम् ॥ ३.२५.१३ ॥

人们称阿拉尔迦为人中之最,善人,以真实为誓愿,是迦尸与拘舍之王。他舍弃了王国与财富。不可为了力量而行非法之事。

3.25.14

धात्रा विधिर्यो विहितः पुराणै-
स्तं पूजयन्तो नरवर्य सन्तः।
सप्तर्षयः पार्थ दिवि प्रभान्ति ।
नेशे बलस्येति चरेदधर्मम् ॥ ३.२५.१४ ॥

诸善人,人中之最,尊奉造物主在往世书中所定的法则——阿周那啊,七仙人在天上光辉照耀。不可为了力量而行非法之事。

3.25.15

महाबलान्पर्वतकूटमात्रा-
न्विषाणिनः पश्य गजान्नरेन्द्र।
स्थितान्निदेशे नरवर्य धातु-
र्नेशे बलस्येति चरेदधर्मम् ॥ ३.२५.१५ ॥

人主啊,请看那些如山峰般巨大、力量强大、长有象牙的大象,它们站立在造物主的命令之下,人中之最。不可为了力量而行非法之事。

3.25.16

सर्वाणि भूतानि नरेन्द्र पश्य ।
तथा यथावद्विहितं विधात्रा।
स्वयोनितः कर्म सदाचरन्ति ।
नेसे बलस्येति चरेदधर्मम् ॥ ३.२५.१६ ॥

人主啊,看看一切众生。正如造物主所适当安排的,它们总是依其本性行事。不要借着力量的名义行不义之事。

3.25.17

सत्येनं धर्मेण यथार्हवृत्त्या ।
ह्रिया तथा सर्वभूतान्यतीत्य।
यशश्च तेजश्च तवापि दीप्तं ।
विभावसोर्भास्करस्येव पार्त ॥ ३.२५.१७ ॥

凭借真实、正法、合宜的行为与羞耻心,超越一切众生,你的名声与光辉如火与日般照耀,啊,普利塔之子。

3.25.18

यथाप्रतिज्ञं च महानुभाव ।
कृच्छ्रं वने वासमिमं निरूष्य।
ततः श्रियं तेजसा तेन दीप्ता-
मादास्वसे पार्थिव कौरेवभ्यः ॥ ३.२५.१८ ॥

大力者啊,如你所许诺的,忍受了这困苦的林中居住之后,啊国王,你将从俱卢族人那里重新取回那以光辉闪耀的财富。

3.25.19

तमेवमुक्त्वा वचनं महर्षि-
स्तपस्विमध्ये सहितं सुहृद्धिः।
आमन्त्र्य धौम्यं सहितांश्च पार्थां-
स्ततः प्रतस्थे दिशमुत्तरां सः ॥ ३.२५.१९ ॥

大仙人对他说完这番话,在苦行者与朋友们的聚会中,向达湿摩与同在的普利塔诸子告别,随后便朝北方出发了。