Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.250

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.250.1

चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा ।
इदं वचनमक्लीवमब्रवीत्परवीरहा ॥ ३.२५०.१ ॥

于是杀敌英雄的阿周那走近持国军,笑着说出这番坚定的话。

3.250.2

भ्रातृनर्हसि मे वीर मोक्तुं गन्धर्वसत्तम ।
अनर्हधर्षणा हीमे जीवमानेषु पाण्डुषु ॥ ३.२५०.२ ॥

英雄啊,最优秀的乾闼婆,你应当释放我的兄弟;只要般度之子尚在人世,他们便不该受此羞辱。

3.250.3

एवमुक्तस्तु गन्धर्वः पाण्डवेन महात्मना ।
उवाच यत्कर्ण वयं मन्त्रयन्तो विनिर्गताः ॥ ३.२५०.३ ॥

伟大的般度子说完这话后,乾闼婆说道:迦尔纳啊,我们是边商议边出发的。

3.250.4

स्थितोराज्येच्युतान्स्थानाच्छ्रियाहीनांश्रियावृतः ।
द्रष्टास्मि निःसुखान्वीरान्सदारान्पाण्डवानिति ॥ ३.२५०.४ ॥

我安居王国、为福运所环绕,将看到般度子——这些被逐出本位、失去福运与欢乐的英雄,与他们的妻子同在。

3.250.5

तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्तथा ।
भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयाऽन्वितः ॥ ३.२५०.५ ॥

乾闼婆说出这些话时,我羞愧万分,四处寻找大地的裂缝,想要钻进去。

3.250.6

युधिष्ठिरमथागम् गन्धर्वाः सह पाण्डवैः ।
अस्मद्दुर्मन्त्रितं तस्मै बद्धांश्चास्मान्न्यवेदयन् ॥ ३.२५०.६ ॥

于是乾闼婆与般度子一同来到坚战面前,告知他我们的恶谋,以及我们被缚之事。

3.250.7

स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं गतः ।
युधिष्ठिरस्योपहृतः किंनु दुःखमतः परम् ॥ ३.२५०.७ ॥

在众女面前,我卑微、被缚,落入敌人之手,被带到坚战面前。还有什么比这更大的痛苦呢?

3.250.8

ये मे निराकृता नित्यं रिपुर्येषामहं सदा ।
तैर्मोक्षितोऽहं दुर्बुद्धिर्दत्तं तैरेव जीवितम् ॥ ३.२५०.८ ॥

我始终轻视、始终与之为敌的人,愚蠢的我,正是被他们释放;是他们给了我生命。

3.250.9

प्राप्तः स्यां यद्यहं वीर वधं तस्मिन्महारणे ।
श्रेयस्तद्भविता मह्यं नैवंभूतस्य जीवितम् ॥ ३.२५०.९ ॥

勇士啊,若我在那场大战中战死,对我而言会更好;处于这般境地的我,活着并不好。

3.250.10

भवेद्यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात् ।
प्राप्ताश्च पुण्यलोकाः स्युर्महेन्द्रसदनेऽक्षयाः ॥ ३.२५०.१० ॥

若死于乾闼婆之手,我的名声将传遍大地,我也将得到摩呵因陀罗居所中不朽的功德世界。

3.250.11

यत्त्वद्य मे व्यवसितं तच्छृणुध्वं नरर्षभाः ।
इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान्।
भ्रातरश्चैव मे सर्वे यान्त्वद्य स्वपुरं प्रति ॥ ३.२५०.११ ॥

诸位人中雄牛,请听我今日所决:我将在此绝食至死。你们都回家去吧;愿我所有兄弟今日就回到各自的城中。

3.250.12

कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये ।
दुःशासनं पुरस्कृत्य प्रयान्त्वद्य पुरं प्रति ॥ ३.२५०.१२ ॥

迦尔纳等人,以及朋友与亲属,请以难降为首,今日就回城去吧。

3.250.13

न ह्यहं संप्रयास्यामि पुरं शत्रुनिराकृतः ।
शत्रुमानापहो भूत्वा सुहृदां मानकृत्तथा ॥ ३.२५०.१३ ॥

我被敌人击败,不会回到城中。唯有夺去敌人的荣誉、使朋友增添荣誉,我才会回去。

3.250.14

कामं रणशिरस्यद्य शत्रुभिर्वै विमानितः ।
स सुहृच्छोकदो जातः शत्रूणां हर्वर्धनः।
वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम् ॥ ३.२५०.१४ ॥

今日在战场上确被敌人羞辱,我成了使朋友悲伤、使敌人欢喜的人。到了婆罗奈伐多,我该对那位人主说什么呢?

3.250.15

भीष्मद्रोणौ कृपद्रौणी विदुरः संजयस्तथा ।
बाह्लीकः सौमदत्तिश्च ये चान्ये वृद्धसंमताः ॥ ३.२५०.१५ ॥

毗湿摩与德罗纳,克利巴与德罗纳之子,维杜罗与桑遮耶,跋利迦与苏摩达多之子,以及其他被尊为长者的人。

3.250.16

ब्राह्मणाः श्रेणिमुख्याश्च तथोदासीनवृत्तयः ।
किं मां वक्ष्यंति किं चापि प्रतिवक्ष्यामि तानहं ॥ ३.२५०.१६ ॥

婆罗门、各行会的首领以及持中立态度的人——他们会对我说什么?而我又该如何回答他们呢?

3.250.17

रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि ।
आत्मदोषात्परिभ्रष्टः कथं वक्ष्यामि तानहम् ॥ ३.२५०.१७ ॥

我曾站在敌人的头上、勇猛地击打他们的胸膛,却因自己的过错而败落——我该如何向他们说明呢?

3.250.18

दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च ।
तिष्ठन्ति न चिरं भद्रे यथाऽहं मदगर्वितः ॥ ३.२५०.१८ ॥

善良的女子啊,骄横无礼的人即使得到财富、学问与权势,也不能长久——正如我这骄傲自大的人没有长久。

3.250.19

अहो वत यथेदं मे कष्टं दुश्चरितं कृतम् ।
स्वयं दुर्बुद्धिना मोहाद्येन प्राप्तोस्मि संशयम् ॥ ३.२५०.१९ ॥

唉!我因自己愚蠢的心智和迷惑,犯下了何等痛苦的恶行;因此陷入了这场危难。

3.250.20

तस्मात्प्रायमुपासिष्ये न हिशक्ष्यामि जीवितुम् ।
चेतयानो हि को जीवेत्कृच्छ्राच्छत्रुभिरुद्धृतः ॥ ३.२५०.२० ॥

因此我将绝食至死;我无法活下去。试想,即便被敌人从这般困境中救出,又有谁愿意活下去呢?

3.250.21

शत्रुभिश्चावहसितो मानी पौरुषवर्जितः ।
पाण्डवैर्विक्रमाढ्यैशच् सावमानमवेक्षितः ॥ ३.२५०.२१ ॥

我被敌人嘲笑,骄傲却缺乏男子气概;英勇富有的般度五子以轻蔑的目光看着我。

3.250.22

एवं चिन्तापरिगतो दुःशासनमथाब्रवीत् ।
दुःशासन निबोधेदं वचनं मम भारत ॥ ३.२५०.२२ ॥

他如此被忧虑所困,便对难降说道:"婆罗多的后裔难降啊,请听我这句话。"

3.250.23

प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव ।
प्रशाधि पृथिवीं स्फीतांकर्णसौबलपालिताम् ॥ ३.२५०.२३ ॥

接受我所授予的灌顶,成为国王;统治这片由羯罗那与萨乌巴拉守护的富饶大地。

3.250.24

भ्रातॄन्पालय विस्रब्धं मरुतो वृत्रहा यथा ।
बान्धवाश्चोपजीवन्तु देवा इव शतक्रतुम् ॥ ३.२५०.२४ ॥

当如杀死弗栗多的因陀罗守护摩录多一般,无所畏惧地守护你的兄弟;愿你的亲族依靠你,如诸神依靠百祭的因陀罗一般。

3.250.25

ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः ।
बन्धूनां सुहृदां चैव भवेथास्त्वं गतिः सदा ॥ ३.२५०.२५ ॥

应始终谨慎地供养婆罗门,并且始终做亲属与朋友的依靠。

3.250.26

ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणान्यथा ।
गुरवः पालनीयास्ते गच्छ पालय मेदिनीम् ॥ ३.२५०.२६ ॥

如毗湿奴护佑众天神,你也要照看亲属;长者必须由你保护。去吧,守护大地。

3.250.27

नन्दयन्सुहृदः सर्वाञ्शात्रवांश्चावभर्त्सयन् ।
कण्ठे चैनं परिष्वज्यगम्यतामित्युवाच ह ॥ ३.२५०.२७ ॥

他使所有朋友欢欣,又斥责敌人,搂着他的脖子说:"走吧。"

3.250.28

तस्य तद्वचनं श्रुत्वा दीनो दुशासनोऽब्रवीत् ।
अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च ॥ ३.२५०.२८ ॥

杜煞那听了他的话,悲伤不已,哽咽着,极度痛苦,合掌顶礼,开口说道。

3.250.29

सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः ।
कप्रसीदेत्यपतद्भूमौ दूयमानेन चेतसा ॥ ३.२५०.२९ ॥

他哽咽着对长兄说这番话:"请开恩!"然后心中痛苦地倒在地上。

3.250.30

दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन् ।
उक्तवांश्च नरव्याघ्रो नैतदेवं भविष्यति ॥ ३.२५०.३० ॥

人中之虎悲伤地在他脚前落泪,说道:"事情不会这样。"

3.250.31

विदीर्यत्सकला भूमिर्द्यौश्चापि शकलीभवेत् ।
रविरात्मप्रभां जह्यात्सोमः शीतांशुतां त्यजेत् ॥ ३.२५०.३१ ॥

愿整个大地裂开,天空也碎成碎片;愿太阳舍弃自身的光辉,月亮舍弃其清凉的光芒。

3.250.32

वायुः शैघ्र्यमथो जह्याद्धिमवांश्च हिमं त्यजेत् ।
शुष्येत्तोयं समुद्रेषु वह्निरप्युष्णतां त्यजेत् ॥ ३.२५०.३२ ॥

愿风舍弃其疾速,喜马拉雅舍弃其积雪;愿海洋中的水枯竭,愿火也舍弃其热度。

3.250.33

न चाहं त्वदृते राजन्प्रशासेयं वसुंधराम् ।
पुनःपुनः प्रसीदेति वाक्यं चेदमुवाच ह ॥ ३.२५०.३३ ॥

“大王啊,没有你,我不会统治这片大地。”他反复说着这些话:“请息怒吧。”

3.250.34

शत्रूणां शोककृद्राजन्सुहृदां शोकनाशनः ।
त्वमेव नःकुलेराजा भविष्यसि शतं समाः ॥ ३.२५०.३४ ॥

大王啊,你使敌人悲伤,又能消除朋友的忧愁。在我们的家族中,唯有你将做国王一百年。

3.250.35

एवमुक्त्वा स राजानं सुश्वरं प्ररुरोद ह ।
पादौ संस्पृश्य मानार्हौ भ्रातुर्ज्येष्ठस्य भारत ॥ ३.२५०.३५ ॥

说完这些话,他大声哭泣起来,婆罗多啊,他触摸了值得尊敬的长兄的双脚。

3.250.36

तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ ।
अभिगम्य व्यथाविष्टः कर्णस्तौ प्रत्यभाषत ॥ ३.२५०.३६ ॥

看见杜沙萨那与苏陀那如此悲伤,充满痛苦的迦尔纳走近他们,对他们说道。

3.250.37

विषीदथः किं कौरव्यौ बालिश्यात्प्राकृताविव ।
न शोकः शोचमानस्य विनिवर्तेत कर्हिचित् ॥ ३.२५०.३७ ॥

库鲁之子啊,你们为何像凡夫一样因愚痴而悲伤?悲伤的人,其忧愁从不会消退。

3.250.38

यदा च शोचतः शोकोव्यसनं नापकर्षति ।
सामर्थ्यं किं ततः शोके शोचमानौ प्रपश्यथः ॥ ३.२५०.३८ ॥

当悲伤者的忧愁与灾难都不能消除时,你们二人在悲伤中又看到了什么力量?

3.250.39

धृतिं गृह्णीतं मा शत्रूञ्शोचन्तौ नन्दयिष्यथः ।
कर्तव्यं हि कृतं राजन्पाण्डवैस्तव मोक्षणम् ॥ ३.२५०.३९ ॥

要坚定意志,不要悲伤而使敌人欢喜。大王啊,为你解脱所应做的事,般度之子们已经做了。

3.250.40

नित्यमेव प्रियं कार्यं राज्ञो विपयवासिभिः ।
पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः ॥ ३.२५०.४० ॥

国土的居民应当永远做国王喜欢的事;受你保护,他们确实无忧地生活着。

3.250.41

नार्हस्येवंगते मन्युं कर्तुं प्राकृतवत्स्वयम् ।
विषण्णास्तव सोदर्यास्त्वयि प्रायं समास्थिते ॥ ३.२५०.४१ ॥

在这种情况下,你自己不应像凡人一样生气或悲伤;你的兄弟们沮丧,因为他们主要依靠你。

3.250.42

तदलं दुःखितानेतान्कर्तुं सर्वान्नराधिप ।
उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान् ॥ ३.२५०.४२ ॥

因此,人主啊,使这些人都悲伤已经够了。起来,去吧——愿你吉祥——去安慰你的兄弟们。