摩诃婆罗多 · 章 3.251
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.251.1
राजन्नद्यावगच्छामि तवैव लघुसत्वताम् ।
अल्पत्वं च तथा बुद्धेः कार्याणामविवेकिताम् ॥ ३.२५१.१ ॥
国王啊,我现在看清了你自身的意志薄弱、智慧浅薄,以及处理事务时缺乏明辨。
3.251.2
किमत्र चित्रं धर्मज्ञ मोक्षितः पाण्डवैरसि ।
सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन ॥ ३.२५१.२ ॥
精通法义者啊,般度之子释放了你又有什么可奇怪的呢?摧敌者啊,你立刻就落入了敌人的掌控。
3.251.3
सेनाजीवैश्च कौरव्य तथा विषयवासिभिः ।
अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम् ॥ ३.२५१.३ ॥
俱卢后裔啊,依靠军队生活的人和国中的居民,无论是陌生人还是熟识者,都应当为国王做有益之事。
3.251.4
प्रायः प्रधानाः पुरुषाः क्षोभयित्वाऽरिवाहिनीम् ।
निगृह्यन्ते चयुद्धेषु मोक्ष्यन्ते च स्वसैनिकैः ॥ ३.२५१.४ ॥
通常,主要的人物扰乱敌军之后,在战斗中被擒,又被自己的士兵救出。
3.251.5
सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः ।
तैः संगम्य नृपार्थाय यतितव्यं यथातथम् ॥ ३.२५१.५ ॥
王国中依靠军队为生的人,应当与他们联合,为国王尽心竭力。
3.251.6
यद्येवं पाण्डवै राजन्भवद्विषयवासिभिः ।
यदृच्छया मोक्षितोऽसि कतत्रका परिदेवना ॥ ३.२५१.६ ॥
国王啊,如果你只是偶然地被般度之子和你国中的居民所释放,那又何必悲叹呢?
3.251.7
न चैतत्साधु यद्राजन्पाण्डवास्त्वां नृपोत्तमम् ।
स्वसेनया संप्रयान्तं नानुयान्ति स्म पृष्ठतः ॥ ३.२५१.७ ॥
大王,最好的君王您率领自己的军队离去时,般度之子却不从后面跟随,这是不妥的。
3.251.8
शूराश्च बलवन्तश्च संयुगेष्वपलायिनः ।
भवतस्ते सभायां वै प्रेष्यतां पूर्वमागताः ॥ ३.२५१.८ ॥
他们是英雄,强大,在战斗中不逃避;以前他们在议会中是作为您的仆人而来的。
3.251.9
पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे ।
सत्वस्थान्पाण्डवान्पश्य न ते प्रायमुपाविशन् ॥ ३.२५१.९ ॥
您今日仍在享用般度之子的珍宝;请看那些意志坚定的般度之子,他们并没有为您而绝食待死。
3.251.10
तदलं ते महाबाहो विषादं कर्तुमीदृशम् ।
उत्तिष्ठ रराजन्भद्रं ते न चिन्तां कर्तुमर्हसि ॥ ३.२५१.१० ॥
因此,大臂者啊,您不必如此沮丧;起来吧,大王,愿您吉祥;您不应当忧虑。
3.251.11
अवश्यमेव नृपते राज्ञो विषयवासिभिः ।
प्रियाण्याचरितव्यानि तत्र का परिदेवना ॥ ३.२५१.११ ॥
人主啊,居住在国境内的人必定要做国王喜欢的事;这有什么可悲叹的呢?
3.251.12
मद्वाक्यमेतद्राजेन्द्र यद्येवं न करिष्यसि ।
स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन ॥ ३.२५१.१२ ॥
王中之王啊,如果您不听从我的这些话,摧毁敌人者啊,我就留在这里侍奉您的双足。
3.251.13
नोत्सहे जीवितुमहं त्वद्विहीनो नरर्षभः ।
प्रायोपविष्टस्तु तथा राज्ञां हास्यो भविष्यसि ॥ ३.२५१.१३ ॥
无你我不能独活,人中之牛啊。若你坐下绝食至死,你将成为诸王的笑柄。
3.251.14
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा ।
नैवोत्थातुं मनश्चक्रे स्वर्गाय कृतनिश्चयः ॥ ३.२५१.१४ ॥
迦尔纳如此劝说,国王难敌却无意起身;他已为天界下定决心。