Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.252

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.252.1

प्रायोपविष्टं राजानं दुर्योधनममर्षणम् ।
उवाच सान्त्वयन्राजञ्शकुनिः सौबलस्तदा ॥ ३.२५२.१ ॥

于是苏巴拉之子沙古尼安慰绝食至死、怀恨不息的国王难敌,说道:「啊,大王……」

3.252.2

सम्यगुक्तं हि कर्णेन तच्छ्रुतं कौरव त्वया ।
मया हृतां श्रियं स्फीतां तां मोहादपहासि किम् ॥ ३.२५२.२ ॥

迦尔纳说得正确,你也听到了,啊,俱卢之子。你为何因迷惑而嘲笑我所夺取的那份广大的财富?

3.252.3

त्वमबुद्ध्या नृपवर प्राणानुत्स्रष्टुमिच्छसि ।
अद्य वाऽप्यवगन्छामि न वृद्धाः सेवितास्त्वया ॥ ३.२५२.३ ॥

啊,最优秀的君王,你因愚昧而想要舍弃性命。今日我才明白,你从未侍奉过长者。

3.252.4

यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति ।
स नश्यति श्रियं प्राप्य पात्रमाममिवाम्भसि ॥ ३.२५२.४ ॥

谁不抑制涌起的喜悦或沮丧,即使得到财富也会毁灭,如同水中的生陶器。

3.252.5

अतिभीरुं मृदुं क्लीबं दीर्घसूत्रं प्रमादिनम् ।
व्यसनाद्विषयाक्रान्तं न भजन्ति नृपं श्रिताः ॥ ३.२५२.५ ॥

依附于一位极度胆怯、软弱、怯懦、拖延、疏忽、被灾难和感官之欲所征服的君王的人,不会侍奉他。

3.252.6

सत्कृतस्य हि ते शोको विपरीते कथं भवेत् ।
मा कृतं शोभनं पार्थैः शोकमालम्ब्य नाशय ॥ ३.२५२.६ ॥

你一向受人尊敬,在逆境中又怎会生出悲伤?不要抓住悲伤,毁掉般度之子所做的善举。

3.252.7

यत्र हर्षस्त्वया कार्यः सत्कर्तव्याश्च पाण्डवाः ।
तत्र शोचसि राजेन्द्रविपरीतमिदं तव ॥ ३.२५२.७ ॥

你本应欢喜、善待般度之子之处,王中之王啊,你却在悲伤;这对你来说是颠倒的。

3.252.8

प्रसीदमा त्यजात्मानं तुष्टश्च सुकृतं स्मर ।
कप्रयच्छ राज्यं पार्थानां यशो धर्ममवाप्नुहि।
क्रियामेतां समाज्ञाय कृतघ्नो न भविष्यसि ॥ ३.२५२.८ ॥

请平静下来,不要放弃自己;满足吧,想想你的善行。把王国交给普利塔之子,你将获得名声与法。明白这一行为,你便不会忘恩负义。

3.252.9

सौभ्रात्रं पाण्डवैः कृत्वा समवस्ताप्य चैव तान् ।
पित्र्यं राज्यं प्रयच्छैषां ततः सुखमवाप्स्यसि ॥ ३.२५२.९ ॥

与般度之子建立兄弟之情,平息他们的悲伤,把父亲的王国归还他们;然后你将获得幸福。

3.252.10

शकुनेस्तु वचः श्रुत्वा दुःशासनमवेक्ष्य च ।
पादयोः पतितं वीरं विकृतं भ्रातृसौहृदात् ॥ ३.२५२.१० ॥

听了沙古尼的话,看到杜沙桑那这位英雄因兄弟之情而神情扭曲,跪倒在他脚下。

3.252.11

बाहुभ्यां साधुजाताभ्यां दुःशासनमरिंदमम् ।
उत्थाप्य संपरिष्वज्य प्रीत्याऽजिघ्रत मूर्धनि ॥ ३.२५२.११ ॥

他用自己匀称的双臂扶起制伏敌人的杜沙桑那,拥抱他,并深情地吻了他的头顶。

3.252.12

कर्णसौबलयोश्चापि संश्रुत्य वचनान्यसौ ।
निर्वेदं परमं गत्वा राजा दुर्योधनस्तदा।
व्रीडयाऽभिपरीतात्मा नैराश्यमगमत्परम् ॥ ३.२५२.१२ ॥

听了迦尔纳与沙古尼的话,国王难敌此时陷入极度的沮丧;心中充满羞愧,他坠入了极深的绝望。

3.252.13

सुहृदां चैव तच्छ्रुत्वा समन्युरिदमब्रवीत् ।
न धर्मधनसौख्येन नैश्वर्येण न चाज्ञया ॥ ३.२५२.१३ ॥

他听了朋友的话,愤怒地说道:“不论以法、财富、享乐、权势,还是命令。”

3.252.14

नैव भोगैश्च मे कार्यं मा विहन्यत गच्छत ।
निश्चितेयं मम मतिः स्थिता प्रायोपवेशने ॥ ३.२५२.१४ ॥

我不需要享乐。你们不要自毁,走吧。我已决意坚守绝食至死。

3.252.15

गच्छध्वं नगरं सर्वे पूज्याश्च गुरवो मम ।
त एवमुक्ताः प्रत्यूच् राजानमरिमर्दनम् ॥ ३.२५२.१५ ॥

“你们都回城去吧;我敬重的长辈们也在那里。”他这样说后,他们回答了这位摧毁敌人的国王。

3.252.16

या गतिस्तव राजेन्द्र साऽस्माकमपि भारत ।
कथं वा संप्रवेक्ष्यामस्त्वद्विहीनाः पुरं वयम् ॥ ३.२५२.१६ ॥

“王中之王,婆罗多之后,你所走的道路也是我们的道路。失去你,我们怎能进入城中?”

3.252.17

स सुहृद्भिरमात्यैश्च भातृभिः स्वजनेन च ।
बहुप्रकारमप्युक्तो निश्चयान्न व्यचाल्यत ॥ ३.२५२.१७ ॥

朋友、大臣、兄弟和亲族多方劝说,他仍不肯动摇其决心。

3.252.18

दर्भास्तरणमास्तीर्य निश्चयाद्धृतराष्ट्रजः ।
संस्पृश्यापः शुचिर्भूत्वा भूतले समुपस्थितः ॥ ३.२५२.१८ ॥

德兰陀罗驮罗之子依决心铺设吉祥草座,触水洁净,坐于地上。

3.252.19

कुशचीराम्बरधरः परं नियममास्थितः ।
वाग्यतो राजशार्दूलः स स्वर्गगतिकाम्यया ॥ ३.२५२.१९ ॥

身着吉祥草与树皮衣,持守至上的戒律,约束言语,那位王中之虎,渴望升天之道。

3.252.20

मनसोपचितिं कृत्वा निरस् च बहिःक्रियाः ।
तस्थौप्रायोपवेशेऽथमतिं कृत्वा सुनिश्चयाम् ॥ ३.२५२.२० ॥

以心积累功德,舍弃外在的仪式,他坚定地立于绝食至死的决心之中。

3.252.21

अथ तं निश्चयं तस्य बुद्ध्वा दैतेयदानवाः ।
पातालवासिनो रौद्राः पूर्वं देवैर्विनिर्जिताः ॥ ३.२५२.२१ ॥

于是,他们得知其决心,那些居于地底、凶猛、昔日被诸神击败的提耶与檀那婆。

3.252.22

ते स्वपक्षक्षयं तं तु ज्ञात्वा दुर्योधनस्य वै ।
आह्वानाय तदा चक्रुः कर्म वैतानसंभवम् ॥ ३.२५२.२२ ॥

他们得知自己一方将因难敌而毁灭,便举行了生于吠陀祭火的仪式,以召唤他。

3.252.23

बृहस्पत्युशनोक्तैश्च मन्त्रैर्मन्त्रविशारदाः ।
अथर्ववेदप्रोक्तैश्च याश्चौपनिषदाः क्रियाः।
मन्त्रजप्यसमायुक्तास्तास्तदा समवर्तयन् ॥ ३.२५२.२३ ॥

凭借布利哈斯帕蒂与乌莎那所传的咒语,精通咒语者,以及阿闼婆吠陀和奥义书所载的仪轨,伴以念诵咒语,他们当时便施行了这些仪式。

3.252.24

जुह्वत्यग्नौ हविः क्षीरं मन्त्रवत्सुसमाहिताः ।
ब्राह्मणा वेदवेदाङ्गपारगाः सुदृढव्रताः ॥ ३.२५२.२४ ॥

精通吠陀与吠陀支分的婆罗门,持守坚定的誓愿,专心一意,依照咒语向火中献上乳祭。

3.252.25

अध्वर्यवो दानवानां कर्म प्रावर्तयंस्ततः ॥ ३.२५२.२५ ॥

于是祭司阿提瓦尔尤开始为达那婆举行祭祀。

3.252.26

कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुता ।
कृत्या समुत्थिता राजन्किं करोमीति चाब्रवीत् ॥ ३.२५२.२६ ॥

仪式完成时,一位极为奇异的女性生灵——克里提亚,打着哈欠站起,说道:“王啊,我该做什么?”

3.252.27

आहुर्दैत्याश्च तां तत्र सुप्रीतेनान्तरात्मना ।
प्रायोपविष्टं राजानं धार्तराष्ट्रमिहानय ॥ ३.२५२.२७ ॥

于是达伊提亚们心中大悦,对她说:“把那位坐在绝食求死中的德拉什特拉之子国王带到这里来。”

3.252.28

तथेति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा ।
निमेषादगमच्चापि यत्र राजा सुयोधनः ॥ ३.२५२.२८ ॥

她说“就这样吧”,许下承诺后便出发,转眼之间就到达了国王苏耶阇那所在之处。

3.252.29

समादाय च राजानं प्रविवेश रसातलम् ।
दानवानां मुहूर्ताच्च पुरतस्तं न्यवेदयत् ॥ ३.२५२.२९ ॥

她抱起国王进入了地下世界罗萨塔拉,片刻之间便将他呈现在达那婆面前。

3.252.30

तमानीतं नृपं दृष्ट्वा रात्रौ संगत्य दानवाः ।
प्रहृष्टमनसः सर्वे किंचिदुत्फुल्ललोचनाः ॥ ३.२५२.३० ॥

夜间聚集起来的所有达那婆,看到被带来的国王,心中欢喜,眼睛微微睁大。

3.252.31

दृढमेनं परिष्यज्य दृष्ट्वा च कुशलं तदा ।
साभिमानमिदं वाक्यं दुर्योधनमथाब्रुवन् ॥ ३.२५२.३१ ॥

他们紧紧拥抱他,见他安好,便骄傲地对难敌说了这些话。