摩诃婆罗多 · 章 3.253
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.253.1
भोः सुयोधन राजेन्द्र भरतानां कुलोद्वह ।
शूरैः परिवृतो नित्यं तथैव च महात्मभिः ॥ ३.२५३.१ ॥
啊,苏约达那,诸王之王,婆罗多族的支柱,总是被英雄和大德之人环绕!
3.253.2
अकार्षीः साहसमिदं कस्मात्प्रायोपवेशनम् ।
आत्मत्यागी ह्यधो याति वाच्यतां चायशस्करीम् ॥ ३.२५३.२ ॥
你为何做出这种鲁莽之举,绝食至死?舍弃自身者堕入低处,成为指责与耻辱的对象。
3.253.3
न हि कार्यविरुद्धेषु बहुपापेषु कर्मसु ।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ ३.२५३.३ ॥
像你这样的智者,不会执着于违背职责、罪孽深重、摧毁根本的行为。
3.253.4
नियच्छैनां मतिं राजन्धर्मार्थसुखनाशिनीम् ।
यशःप्रतापवीर्यघ्नीं शत्रूणां हर्षवर्धनीम् ॥ ३.२५३.४ ॥
国王啊,请克制这个念头,它毁灭法、利与乐,摧毁名声、威力与勇力,并增添敌人的欢喜。
3.253.5
श्रूयतां तु प्रभो तत्त्वं दिव्यतां चात्मनो नृप ।
निर्माणं च रशरीरस्य ततो धैर्यमवाप्नुहि ॥ ३.२५३.५ ॥
主啊,国王啊,请听那关于你神性的真理与你身体的创造;然后获得坚定。
3.253.6
पुरा त्व तपसाऽस्माभिर्लब्धो राजन्महेश्वरात् ।
पूर्वकायश्च ते सर्वो निर्मितो वज्रसंचयैः ॥ ३.२५३.६ ॥
国王啊,往昔我们以苦行从摩醯首罗那里获得了这一恩赐;你整个前身都由堆积的金刚杵所造。
3.253.7
अस्त्रैरभेद्यः शस्त्रैश्चाप्यधःकायश्च तेऽनघ ।
कृतः पुष्पमयो देव्या रूपतस्त्रीमनोहरः ॥ ३.२५३.७ ॥
无垢者啊,你的下身已被制成箭矢与兵刃都无法穿透;女神用花朵造成,其形貌令女子倾心。
3.253.8
एवमीश्वरसंयुक्तस्तव देहो नृपोत्तम ।
देव्या च राजशार्दूल दिव्यस्त्वं हि न मानुषः ॥ ३.२५३.८ ॥
如此,你的身体与主神及女神相合,诸王中最优秀者啊;王中猛虎,你是神圣之人,并非凡人。
3.253.9
क्षत्रियाश्च महावीर्या भगदत्तपुरोगमाः ।
दिव्यास्त्रविदुषः शूराः क्षपयिष्यन्ति ते रिपून् ॥ ३.२५३.९ ॥
以跋伽达为首的大勇武士,以及精通神圣兵器的勇士,将摧毁你的敌人。
3.253.10
तदलं ते विषादेन भयं तव न विद्यते ।
सहायार्थं च ते वीराः संभूता बुवि दानवाः ॥ ३.२५३.१० ॥
所以不要悲伤,你没有恐惧。为了帮助你,大地上已诞生了英勇的檀那婆。
3.253.11
भीष्मद्रोणकृपादींश्च प्रवेक्ष्यन्त्यपरेऽसुराः ।
यैराविष्टा घृणां त्यक्त्वा योत्स्यन्ते तव वैरिभिः ॥ ३.२५३.११ ॥
其他阿修罗将进入毗湿摩、德罗纳、克里巴等人之中;受其附身,他们将舍弃怜悯,与你的敌人作战。
3.253.12
नैव पुत्रान्न च भ्रातॄन्न पितॄन्न च बान्धवान् ।
नैव शिष्यान्न च ज्ञातीन्न बालान्त्यविरान्न च।
युधि संप्रहरिष्यन्तो मोक्ष्यन्ति कुरुसत्तम ॥ ३.२५३.१२ ॥
他们在战斗中厮杀时,既不放过儿子和兄弟,也不放过父亲与亲族,不放过弟子与同族,也不放过幼童与老人,俱哉,俱属之首。
3.253.13
निःस्नेहा दानवाविष्टाः समाक्रान्तेऽन्तरात्मनि ।
प्रहरिष्यन्ति बन्धुभ्यः स्नेहमुत्सृज्य दूरतः ॥ ३.२५३.१३ ॥
被檀那婆附身、内心被占据者,无情无爱,舍弃亲情,从远处打击亲族。
3.253.14
हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः ।
अनभिज्ञातमूलाश्च दैवाच्च विधिनिर्मितात्।
व्याभाषमाणाश्चान्योन्यं न मे जीवन्विमोक्ष्यसे ॥ ३.२५३.१४ ॥
欢喜的人中猛虎,心智污浊,不知根源,由天命与命定所造,彼此说话:你不会被我放走而活着。
3.253.15
सर्वे शस्त्रास्त्रमोक्षेण पौरुषे समवस्थिताः ।
श्लाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम् ॥ ३.२५३.१५ ॥
众人立于勇武之中,夸耀自己,以放出兵器与投射之器,将造成人众的毁灭,库卢族的最优者啊。
3.253.16
तेपि पञ्च महात्मानः प्रतियोत्सन्ति पाण्डवाः ।
वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः ॥ ३.२५३.१६ ॥
那五位大德的般度子也将与他们对抗,而具有天命的大力者将造成他们的死亡。
3.253.17
दैत्यरक्षोगणाश्चैव संभूताः क्षत्रयोनिषु ।
योत्स्यन्ति युधि विक्रम्य शत्रुभिस्तव पार्थिव ॥ ३.२५३.१७ ॥
达提耶与罗刹之众,生于刹帝利之胎,将在战斗中奋勇对抗你的敌人,国王啊。
3.253.18
गदाभिर्मुसलैः शूलैः शस्त्रैरुच्चावचैस्तथा ।
प्रहरिष्यनति ते वीरास्तवारिषु महाबलाः ॥ ३.२५३.१८ ॥
以铁锤、铁杵、长矛及各种兵器,那些大力的勇士将打击你的敌人。
3.253.19
यच्च तेऽन्तर्गतं वीर भयमर्जुनसंभवम् ।
तत्रापि विहितोऽस्माभिर्वधोपायोऽर्जुनस्य वै ॥ ३.२५३.१९ ॥
英雄啊,你心中因阿周那而生的恐惧,我们也已经为此设计了杀死阿周那的方法。
3.253.20
हतस्य नरकस्यात्मा कर्णमूर्तिमुपाश्रितः ।
तद्वैरं संस्मरन्वीर योत्स्यते केशवार्जुनौ ॥ ३.२५३.२० ॥
被杀的那落迦之灵已托身为迦尔纳;英雄啊,他将记着那份仇恨,与克沙瓦和阿周那作战。
3.253.21
स ते विक्रमशौण्डीरो रणे पार्थं विजेष्यति ।
कर्णः प्रहरतांश्रेष्ठः सर्वांश्चारीन्महारथः ॥ ३.२५३.२१ ॥
你那以勇武自豪的迦尔纳,是战士中最杰出的大战车勇士,他将在战场上战胜般度之子和所有敌人。
3.253.22
ज्ञात्वैतच्छद्मना वज्री रक्षार्थं सव्यसाचिनः ।
कुण्डले कवचं चैव कर्णस्यापहरिष्यति ॥ ३.२५३.२२ ॥
雷霆之主因陀罗知道此事,将以诡计夺走迦尔纳的耳环与铠甲,以保护萨维亚萨钦(阿周那)。
3.253.23
तस्मादस्माभिरप्यत्र दैत्याः शतसहस्रशः ।
नियुक्ता राक्षसाश्चैव ये ते संशप्तका इति।
प्रख्यातास्तेऽर्जुनं वीरं युधि हिंस्यन्ति मा शुचः ॥ ३.२५३.२३ ॥
因此我们也在此派遣了数十万达提耶和罗刹,他们以“三誓者”(Saṃśaptaka)闻名;他们将在战斗中杀死英雄阿周那。不要悲伤。
3.253.24
असपत्ना त्वया हीयं भोक्तव्या वसुधा नृप ।
मा विषादं गमस्तस्मान्नैतत्त्वय्युपपद्यते ॥ ३.२५३.२४ ॥
国王啊,这大地应当由你无敌地享有;因此不要陷入沮丧,这于你并不相称。
3.253.25
विनष्टे त्वयि चास्माकं पक्षो हीयेत कौरव ।
गच्छ वीर न ते बुद्धिरन्या कार्या कथंचन।
त्वमस्माकं गतिर्नित्यं देवतानां च पाण्डवाः ॥ ३.२५३.२५ ॥
若你毁灭,我方也将衰弱,俱卢之子。去吧,英雄;你的心意绝不可有他念。你永远是我们的依靠,也是诸神的依靠。
3.253.26
एवमुक्त्वा परिष्वज्य दैत्यास्तं राजकुञ्जरम् ।
समाश्वास्य च दुर्धर्षं पुत्रवद्दानवर्षभाः ॥ ३.२५३.२६ ॥
说罢拥抱了那位王中之象,檀那婆诸首领像对待儿子一样安慰这位难以战胜的人。
3.253.27
स्थिरां कृत्वा बुद्धिमस्य प्रियाण्युक्त्वा च भारत ।
गम्यतामित्यनुज्ञाय जयमाप्नुहि चेत्यथ ॥ ३.२५३.२७ ॥
坚定了他的决心,说了悦耳的话,婆罗多之子啊,以“去吧”允许他离去,并说:“愿你获得胜利。”
3.253.28
तैर्विसृष्टं महाबाहुं कृत्या सैवानयत्पुरः ।
तमेव देशं यत्रासौ तदा प्रायमुपाविशत् ॥ ३.२५३.२८ ॥
那位大臂者被他们派遣,由女性克律提亚带到前面,送到他当时坐下绝食待死的那个地方。
3.253.29
प्रतिनिक्षिप्यतं वीरं कृत्या समभिपूज्य च ।
अनुज्ञाता च राज्ञा सा तत्रैवान्तरधीयत ॥ ३.२५३.२९ ॥
她把英雄放回原处并加以敬礼,得到国王允许后,那位克律提亚就地消失了。
3.253.30
गतायामथ तस्यां तु राजा दुर्योधनस्तदा ।
स्वप्नभूतमिदं सर्वमचिन्तयत भारत ॥ ३.२५३.३० ॥
她离去之后,婆罗多之子啊,国王难敌把这一切都当作梦境来思量。
3.253.31
संमृश्य तानि वाक्यानि दानवोक्तानि दुर्मतेः ।
विजेष्यामि रणे पाण्डूनिति चास्याभवनमतिः ॥ ३.२५३.३१ ॥
杜尉陀那思量了达那婆所说的那些话,这恶念之人心中决定:“我将在战场上击败般度之子。”
3.253.32
कर्णं संशप्तकांश्चैव पार्थस्यामित्रघातिनः ।
अमन्यत वधे युक्तान्समर्थांश्च सुयोधनः ॥ ३.२५३.३२ ॥
苏佑陀那认为迦尔纳与杀害贝尔塔敌人的三誓战士们,适合并有能力完成这一诛杀。
3.253.33
एवमाशा दृढा तस् धार्तराष्ट्रस् दुर्मतेः ।
विनिर्जये पाण्डवानामभवद्भरतर्षभ ॥ ३.२५३.३३ ॥
如此,婆罗多的雄牛啊,恶念的持国之子击败般度之子的希望便坚定起来。
3.253.34
कर्णोऽप्याविष्टचित्तात्मा नरकस्यान्तरात्मना ।
अर्जुनस्य वधे क्रूरां करोति स्म तदा मतिम् ॥ ३.२५३.३४ ॥
迦尔纳心神被那落迦的内在灵魂所附,那时也生起了杀害阿周那的残忍念头。
3.253.35
संशप्तकाश्च ते वीरा राक्षसाविष्टचेतसः ।
रजस्तमोभ्यामाक्रान्ताः फाल्गुनस्य वधैषिणः ॥ ३.२५३.३५ ॥
那些心神被罗刹所附的三誓英雄,为激情与黑暗所笼罩,一心寻求法尔古那的死亡。
3.253.36
भीष्मद्रोणकृपाद्याश्च दानवाक्रान्तचेतसः ।
न तथा पाण्डुपुत्राणां स्नेहवन्तोऽभवंस्तदा ॥ ३.२५३.३६ ॥
毗湿摩、德罗纳、克里巴等人,心神为达那婆所笼罩,那时对般度之子们已没有那般的慈爱。
3.253.37
न चाचचक्षे कस्मैचिदेतद्राजा सुयोधनः ।
कृत्ययाऽऽनाय्यकथितं यदस्य निशि दानवैः ॥ ३.२५३.३७ ॥
国王苏约达那没有向任何人说起此事:夜间,檀那婆以召唤仪式施行了针对他的咒术(克利提亚)。
3.253.38
दुर्योधनं निशन्ते च कर्णो वैकर्तनोऽब्रवीत् ।
स्मयन्निवाञ्जलिं कृत्वा पार्थिवं हेतुमद्वचः ॥ ३.२५३.३८ ॥
夜将尽时,毗迦尔塔那之子迦尔纳面带微笑,合掌向国王难敌说了这番有理有据的话。
3.253.39
न मृतो जयते शत्रूञ्जीवन्भद्राणि पश्यति ।
मृतस्य भद्राणि कुतः कौरवेय कुतो जयः ॥ ३.२५३.३९ ॥
死者不能战胜敌人,活着的人才能见到福祉。俱卢之子啊,死者哪里会有福祉,又哪里会有胜利?
3.253.40
न कालाऽद्य विषादस्य भयस्य मरणस्य वा ।
परिष्वज्याब्रवीच्चैवनं भुजाभ्यां स महाभुजः ॥ ३.२५३.४० ॥
此刻不是悲伤、恐惧或死亡的时候。说完这话,那位大臂者用双臂拥抱了他。
3.253.41
उत्तिष्ठ राजन्किं शेषे कस्माच्छोचसि शत्रुहन् ।
शत्रून्प्रताप्य वीर्येण स कथं मर्तुमर्हसि ॥ ३.२५३.४१ ॥
起来吧,国王!你为何躺着?为何悲伤,杀敌者啊?你以勇力烧灼敌人,怎会配得上死亡?
3.253.42
अथवा ते भयं जातं दृष्ट्वाऽर्जुनपराक्रमम् ।
सत्यंते प्रतिजानामि वधिष्यामि रणेऽर्जुनम् ॥ ३.२५३.४२ ॥
或者你见到阿周那的勇力而生了恐惧?我真诚地向你发誓:在战场上我必杀阿周那。
3.253.43
गते त्रयोदशे वर्षे सत्येनायुधमालभे ।
आनयिष्याम्यहं पार्तान्वशं तव जनाधिप ॥ ३.२५३.४३ ॥
待十三年过去,我以真实之名触摸武器。人主啊,我将使般度之子们臣服于你。
3.253.44
एवमुक्तस्तु कर्णेन दैत्यानां वचनात्तथा ।
प्रणिपातेन चाप्येषामुदतिष्ठत्सुयोधनः ॥ ३.२५३.४४ ॥
迦尔纳如此说罢,依据阿修罗之言,向他们俯首致敬后,苏约达那站了起来。
3.253.45
दैत्यानां तद्वचः श्रुत्वा हृदि कृत्वा स्थिरां मतिम् ।
ततो मनुजशार्दूलो योजयामास वाहिनीम्।
रथनागाश्वफलिलां पदातिजनसंकुलाम् ॥ ३.२५३.४५ ॥
闻听阿修罗之言,心中定下坚定的决心,于是这位人中猛虎部署了军队,其中满是战车、象与马,步兵也密集如林。
3.253.46
गङ्गौघप्रतिमा चास्य प्रयाणे शुशुभे चमूः ॥ ३.२५३.४६ ॥
他的军队犹如恒河之流,在行军中光彩夺目。
3.253.47
श्वेतच्छत्रैः पताकाभिश्चामरैश्च सुपाण्डुरैः ।
रथैर्नागैः पदातैश्च शुशुभेऽतीव संकुला ॥ ३.२५३.४७ ॥
白伞、旌旗与洁白的牦牛尾拂,加上战车、象与步兵,这支军队密集无比,光彩照人。
3.253.48
व्यपेताभ्रघने काले द्यौरिवासीत्तु शारदी ।
हंसपङ्क्तिसमाकीर्णा भ्रमत्सारसशोभिता ॥ ३.२५३.४८ ॥
如同无浓云的秋季天空,布满成行的天鹅,又有盘旋的仙鹤点缀其间。
3.253.49
जयाशीर्भिर्द्विजेन्द्रैः स स्तूयमानोऽधिराजवत् ।
गृह्णन्नञ्जलिमालाश्च धार्तराष्ट्रो जनाधिपः ॥ ३.२५३.४९ ॥
在最优秀婆罗门以胜利的祝福赞颂下,如同君王一般,接受合掌献上的花环,持国之子人主前行而去。
3.253.50
सुयोधनो ययावग्रे श्रिया परमया ज्वलम् ।
कर्णेन सार्धं राजेन्द्र सौबलेन च देविना ॥ ३.२५३.५० ॥
苏耶陀那光辉耀眼,以至上的威仪走在前面,大王啊,与迦尔纳、沙吠罗(沙恭尼)以及那位赌徒同行。
3.253.51
दुःशासनादयश्चास्य भ्रातरः सर्व एव ते ।
भूरिश्रवाः सोमदत्तो माराजश्च बाह्लिकः ॥ ३.२५३.५१ ॥
难降以及其余诸弟,他的所有兄弟,还有广施、苏摩达多、摩罗王(读法未定)以及跋利迦。
3.253.52
रथैर्नानाविधाकारैर्हयैर्गजवरैस्तथा ।
प्रयान्तं नृपसिंहं तमनुजग्मुः कुरूद्वहाः ॥ ३.२५३.५२ ॥
那位王中之狮乘着形制各异的车辆、马匹和上等象队出发,库鲁族的俊杰们跟随在他的身后。
3.253.53
प्रहृष्टमनसः सर्वे दुर्योधनपुरोगमाः ।
कालेनाल्पेन राजेन्द्र स्वपुरं विविशुस्तदा ॥ ३.२५३.५३ ॥
众人心情欢喜,以难敌为首,大王啊,不久便进入了自己的城市。