摩诃婆罗多 · 章 3.258
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.258.1
प्रविशन्तं महाराज सूतास्तुष्टुवुरच्युतम् ।
जनाश्चापि महेष्वासं तुष्टुवू राजसत्तमम् ॥ ३.२५८.१ ॥
大王啊,当不朽者入场时,御者们赞颂他,众人也赞颂那位大弓箭手,诸王中最优秀者。
3.258.2
लाजैश्चन्दनचूर्णैश्च विकीर्य च जनास्ततः ।
ऊटुर्दिष्ट्या नृपाविघ्नः समाप्तोयं क्रतुस्तव ॥ ३.२५८.२ ॥
众人撒下米花与檀香粉,随后说道:“大王,幸得吉祥,您的此祭礼已无障碍圆满完成。”
3.258.3
अपरे त्वब्रुवंस्तत्रवादिकास्तं महीपतिम् ।
यौधिष्ठिरस्य यज्ञस्य न समो ह्येष ते क्रतुः ॥ ३.२५८.३ ॥
然而,那里有些辩者对那位地主说:“您的这场祭礼,不及坚战王的祭礼。”
3.258.4
नैव तस्य क्रतोरेष कलामर्हति षोडशीम् ।
एवं तत्राब्रुवन्केचिद्वातिकास्तं जनेश्वरम् ॥ ३.२५८.४ ॥
“此祭甚至不配那场祭礼的十六分之一。”那里的一些批评者便这样对那位人主说。
3.258.5
सुहृदस्त्वब्रुवंस्तत्र अति सर्वानयं क्रतुः ।
प्रवर्तितो ह्ययं राज्ञा धार्तराष्ट्रेण धीमता ॥ ३.२५८.५ ॥
然而那里的朋友们说:“此祭胜过一切,因为它是由明智的持国之子国王所主持的。”
3.258.6
ययातिर्नहुषश्चापि मान्धाता भरतस्तथा ।
क्रतुमेनं समाहृत्य पूताः सर्वे दिवं गताः ॥ ३.२५८.६ ॥
耶耶提、那呼沙、曼陀多与婆罗多,同样完成此祭后,皆得清净,升往天界。
3.258.7
एता वाचः शुभाः शृण्वन्सुहृदां भरतर्षभ ।
प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः ॥ ३.२५८.७ ॥
婆罗多族的雄牛啊,国王听到朋友们这些吉祥的话语,欢喜地进入城中和自己的宫殿。
3.258.8
अभिवाद्य ततः पादान्मतापित्रोर्विशांपते ।
भीष्मद्रोणकृपादीनां विदुरस्य च धीमतः ॥ ३.२५८.८ ॥
随后,人主啊,他向父母的双足,以及毗湿摩、德罗纳、克利巴等人和智慧的维杜罗致敬。
3.258.9
अभिवादितः कनीयोभिर्भ्रातृभिर्भ्रातृनन्दनः ।
निषसादासने मुख्ये भ्रातृभिः परिवारितः ॥ ३.२५८.९ ॥
受到幼弟们的致敬后,兄弟之子在首席座位上坐下,被兄弟们围绕着。
3.258.10
तमुत्थाय महाराजं सूतपुत्रोऽब्रवीद्वचः ।
दिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं महाक्रतुः ॥ ३.२५८.१० ॥
那位大王起身时,御者之子说道:婆罗多族中最优秀的人啊,幸运的是你的这场大祭已经圆满完成。
3.258.11
हतेषु युधि पार्थेषु राजसूये तथा त्वया ।
आहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः ॥ ३.२५८.११ ॥
当普利塔之子在战斗中被杀,正如你在王祭中把他们带来时一样,人中最优秀的人啊,我将再次尊崇你。
3.258.12
तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाः। ॥ ३.२५८.१२ ॥
大名鼎鼎的大王,持国之子,对他说道。
3.258.13
सत्यमेतत्त्वयोक्तं हि पाण्डवेषु दुरात्मसु ।
निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौ।
राजसूये पुनर्वीर त्वमेवं वर्धयिष्यसि ॥ ३.२५८.१३ ॥
你关于般度子和那些邪恶之人所说的是真的;人中之杰,当他们被杀、大祭礼罗阇苏耶得以完成时,英雄啊,你将再次使它兴盛。
3.258.14
एवमुक्त्वा महाराज कर्णमाश्लिष्य भारत ।
राजसूयं क्रतुश्रेष्ठं चिन्तयामास कौरवः ॥ ३.२५८.१४ ॥
说完这些,大王啊,婆罗多后裔啊,俱卢之子拥抱了迦尔纳,开始思量最殊胜的祭礼罗阇苏耶。
3.258.15
सोऽब्रवीत्कौरवांश्चापि पार्श्वस्थान्नृपसत्तमः ।
राधेयसौबलादीन्वै धार्तराष्ट्रो महीपतिः ॥ ३.२५८.१५ ॥
那位王中之最、大地之主、持国之子,也对站在身旁的俱卢子弟,以及罗陀之子、沙恭尼等人说道。
3.258.16
कदा तु तं क्रतुवरं राजसूयं महाधनम् ।
निहत्य पाण्डवान्सर्वानाहरिष्यामि कौरवाः ॥ ३.२५८.१६ ॥
俱卢子弟们啊,我何时才能杀尽所有般度子,举行那殊胜、富饶的大祭罗阇苏耶呢?
3.258.17
तमब्रवीत्तदा कर्णः शृणु मे राजकुञ्जर ।
पादौ न धावये तावद्यावन्न निहतोऽर्जुनः ॥ ३.२५८.१७ ॥
那时迦尔纳对他说:王中象啊,请听我说。在阿周那被杀之前,我不洗我的双足。
3.258.18
कीलालजं न खादेयं करिष्ये चासुरव्रतम् ।
नास्तीति नैव वक्ष्यामि याचितो येन केचनित् ॥ ३.२५८.१८ ॥
我不吃水中所生之物,我将行阿修罗之誓;凡向我求取者,我绝不说“没有”。
3.258.19
अथोत्क्रुष्टं महेष्वासैर्धार्तराष्ट्रैर्महारथैः ।
प्रतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे ॥ ३.२५८.१९ ॥
那时,大弓箭手、持弓的德拉施特拉之子们与大战车武士们高声欢呼,因为迦尔纳在战斗中发誓要杀死法尔古那(阿周那)。
3.258.20
विजितांश्चाप्यमन्यन्त पाण्डवान्धृतराष्ट्रजाः ।
तदा प्रतिज्ञामारुह्य सूतपुत्रेण भाषिते ॥ ३.२५८.२० ॥
那时,德拉施特拉之子们依靠御者之子(迦尔纳)所说的誓言,便认为般度之子们已经被征服了。
3.258.21
दूर्योधनोऽपि राजेन्द्र विसृज्यनरपुङ्गवान् ।
प्रविवेश गृहंश्रीमान्यथा चैत्ररथं प्रभुः ॥ ३.२५८.२१ ॥
啊,王中之王,难敌也遣散了人中的雄牛们,像主神(俱毗罗)进入车奢罗陀林一样,走进了他光辉的宫殿。
3.258.22
तेऽपिसर्वे महेष्वासा जग्मुर्वेश्मानि भारत ।
स्वानिस्वनि महाराज भीष्मद्रोणादयो नृपा ॥ ३.२५८.२२ ॥
啊,婆罗多后裔,大王,所有那些大弓箭手都各自回到了自己的住所:毗湿摩、德罗纳等诸王。
3.258.23
पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताः ।
चिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित् ॥ ३.२५८.२३ ॥
般度之子们这些大弓箭手,受使者之言所激,一直思虑着那件事,却无处得到安宁。
3.258.24
भूयश्च चारै राजेन्द्र प्रवृत्तिरुपपादिता ।
प्रतिज्ञा सूतपुतर्स्य विजयस्य वधं प्रति ॥ ३.२५८.२४ ॥
啊,王中之王,此后又通过间谍传来消息:御者之子关于杀死胜者(阿周那)的誓言。
3.258.25
एतच्छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप ।
अधोमुखश्चिरं तस्थौ किं कार्यमिति चिन्तयन् ॥ ३.२५८.२५ ॥
闻此,法之子(坚战)深感不安,哦人主,低首良久而立,思忖:当如何行事?
3.258.26
अभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम् ।
अनुस्मरंश् संक्लेशान्न शान्तिमुपजग्मिवान् ॥ ३.२५८.२६ ॥
念及不可穿透铠甲、勇武非凡的迦尔纳,并不断回想那些苦难,他未能获得安宁。
3.258.27
तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनः ।
बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम् ॥ ३.२५८.२७ ॥
那位心怀大德、为忧虑所困之人心中生出决意:离开充满蛇与野兽的二林。
3.258.28
धार्तराष्ट्रोऽपि नृपतिः प्रशशास वसुंधराम् ।
भ्रातृभिः सहितो वीरैर्भीष्मद्रोणकृपैस्तथा ॥ ३.२५८.२८ ॥
持国之子那位国王,亦与其英勇的兄弟们,以及毗湿摩、德罗纳和克里帕一同统治大地。
3.258.29
संगम्य सूतपुत्रेण कर्णेनाहवशोभिना ।
सततं प्रीयमाणो वै देविना सौबलेन च ॥ ३.२५८.२९ ॥
与在战场上熠熠生辉的御者之子迦尔纳相会,并与苏跋罗之子沙恭尼相伴,常常欢喜,
3.258.30
दुर्योधनः प्रिये नित्यं वर्तमानो महीभृताम् ।
पूजयामास विप्रेन्द्रान्क्रतुभिर्भूरिदक्षिणैः ॥ ३.२५८.३० ॥
难敌常在诸王之中享乐,以多施祭礼之祭祀,礼敬殊胜的婆罗门。
3.258.31
भ्रातॄणां च प्रियं राजन्स चकार परंतपः ।
निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम् ॥ ३.२५८.३१ ॥
国王啊,那位焚烧敌人的英雄心中决定,做了使兄弟们欢喜的事。财富的果实,乃是施舍与享用之物。