摩诃婆罗多 · 章 3.259
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.259.1
दुर्योधनं मोक्षयित्वा पाण्डुपुत्रा महाबलाः ।
किमकार्षुर्वने तस्मिंस्तन्ममाख्यातुमर्हसि ॥ ३.२५९.१ ॥
释放难敌之后,那些大力的般度之子在那片森林里做了什么?请你告诉我。
3.259.2
ततः शयानं कौन्तेयं रात्रौ द्वैतवन मृगाः ।
स्वप्नान्ते दर्शयामासुर्बाष्पकण्ठा युधिष्ठिरम् ॥ ३.२५९.२ ॥
那时夜里,在二林中,正在熟睡的贡蒂之子坚战,在梦的尽头见到了哽咽着喉咙的鹿群。
3.259.3
तानब्रवीत्स राजेन्द्रो वेपमानान्कृताञ्जलीन् ।
ब्रूत यद्वक्तुकामाः स्थ के भवन्तः किमिष्यते ॥ ३.२५९.३ ॥
那位王中之王对浑身颤抖、合掌而立的它们说:“想说什么就说吧。你们是谁?你们有何所求?”
3.259.4
एवमुक्ताः पाण्डवेन कौन्तेयेन यशस्विना ।
प्रत्यब्रुवन्मृगास्तत्रहतशेषा युधिष्ठिरम् ॥ ३.२५९.४ ॥
当名声显赫的般度之子、贡蒂之子如此发问时,那些在屠杀中幸存的鹿回答了坚战。
3.259.5
वयं मृगा द्वैतवने हतशिष्टास्तु भारत ।
नोत्सीदेम महाराज क्रियतां वासपर्ययः ॥ ३.२५९.५ ॥
婆罗多的后裔啊,我们是二林中的鹿,在屠杀中幸存。大王,我们不愿毁灭;请为我们更换居住之地。
3.259.6
भवन्तो भ्रातरः शूराः सर्व एवास्त्रकोविदाः ।
कुलान्यल्पावशिष्टानि कृतवन्तो वनौकसाम् ॥ ३.२५९.६ ॥
你们都是英勇的兄弟,个个精通武艺;可是你们使我们这些林中居民的家族所剩无几。
3.259.7
बीजभूता वयं केचिदवशिष्टा महामते ।
विवर्धेमहि राजेन्द्र प्रसादात्ते युधिष्ठिर ॥ ३.२५९.७ ॥
大智者啊,我们中的一些人如同种子般残存。王中之王坚战啊,愿因您的恩典,我们得以繁衍生长。
3.259.8
तान्वेपमानान्वित्रस्तान्बीजमात्रावशेषितान् ।
मृगान्दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः ॥ ३.२५९.८ ॥
见那些颤抖惊惧、仅余种子之数的鹿群,法王坚战深感痛苦。
3.259.9
तांस्तथेत्यब्रवीद्राजा सर्वभूतहिते रतः ।
यथा भवन्तो ब्रुवते करिष्यामि च तत्तथा ॥ ३.२५९.९ ॥
那位以众生之利为乐的君王对他们说:“你们所说的,我便照做。”
3.259.10
इत्येवं प्रतिबुद्धः स रात्र्यन्ते राजसत्तमः ।
अब्रवीत्सहितान्भ्रातॄन्दयापन्नो मृगान्प्रति ॥ ३.२५९.१० ॥
如此,在夜尽时醒来,这位最优秀的君王因慈悲而心动,对聚集的兄弟们谈论那些鹿。
3.259.11
उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः ।
तनुभूताः स्म भद्रं ते दया नः क्रियतामिति ॥ ३.२५९.११ ॥
"夜里,梦将尽时,我被那些从杀戮中残存的鹿所召唤:‘我们已经凋零成残余。愿你平安,请对我们施以慈悲。’"
3.259.12
ते सत्यमाहुः कर्तव्या दयाऽस्माभिर्वनौकसाम् ।
साष्टमासं हि नो वर्षं यदेनानुपयुंक्ष्महे ॥ ३.२५९.१२ ॥
他们说的确是实话:“我们应当对林中居民施以慈悲,因为我们的一年只有八个月,而在这段时间里我们要利用他们。”
3.259.13
पुनर्वहुमृगं रम्यं काम्यकं काननोत्तमम् ।
तत्रेमां वसतिं शिष्टां विहरन्तो रमेमहि ॥ ३.२५९.१३ ॥
再往那鹿群众多、清丽可爱的迦密雅迦,林中最殊胜之地。在那里,于这剩余的居所中游憩,让我们欢喜。
3.259.14
ततस्ते पाण्डवाः शीघ्रं प्रययुर्धर्मकोविदाः ॥ ३.२५९.१४ ॥
于是那些精通法义的般度之子迅速出发了。
3.259.15
ब्राह्मणैः सहिता राजन्ये च तत्रसहोषिताः ।
इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा ॥ ३.२५९.१५ ॥
婆罗门与在彼处共同居住的刹帝利相伴,还有因陀罗塞那等人,以及侍从们跟随,那时他们启程了。
3.259.16
ते यात्वा सुसुखैर्मार्गैः स्वन्नैः शुचिजलान्वितैः ।
ददृशुः काम्यकं पुण्यमाश्रमं तापसान्वितम् ॥ ३.२५९.१६ ॥
他们走过十分宜人、食物丰足、水源清净的道路,看见了圣洁的迦密雅迦静修林,那里住满了苦行者。
3.259.17
विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा ।
तद्वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा ॥ ३.२५९.१७ ॥
于是,古鲁后裔、婆罗多中最优秀者,被上好的婆罗门围绕,进入那片森林,正如善行者进入天堂。