Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.260

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.260.1

वने निवसतां तेषां पाण्डवानां महात्मनाम् ।
वर्षाण्येकादशातीयुः कृच्छ्रेण भरतर्षभ ॥ ३.२६०.१ ॥

婆罗多族的雄牛啊!住在森林中的那些伟大的般度之子,十一年在艰辛中度过。

3.260.2

फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम् ।
प्राप्तकालमनुध्यान्तः सेहिरे वरपूरुषाः ॥ ३.२६०.२ ॥

那些值得享受幸福的优秀人物,以果实和根茎为食,在适当的时候思量着最大的苦难,并忍受了它。

3.260.3

युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम् ।
चिन्तयन्स महाबाहुर्भ्रातॄणां दुःखमुत्तमम् ॥ ३.२६०.३ ॥

然而,王仙坚战,大臂者,思量着因自己行为的过失而造成的兄弟们的巨大痛苦。

3.260.4

न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः ।
दौरात्म्यमनुपश्यंस्तत्काले द्यूतोद्भवस्य हि ॥ ३.२६०.४ ॥

国王心中仿佛扎着刺,无法安然入睡;因为那时他一直想着由赌博所引起的罪恶。

3.260.5

संस्मरन्परुषा वाचः सूतपुत्रस्य पाण्डवः ।
निःश्वासपरमो दीनो दध्रे कोपविषं महत् ॥ ३.२६०.५ ॥

般度之子回想着御者之子的严厉话语,深深叹息,神情沮丧,心中怀着愤怒这巨大的毒。

3.260.6

अर्जुनोयमजौ चोभौ द्रौपदी च यशस्विनी ।
स च भीमो महातेजाः सर्वेषामुत्तमो बले ॥ ३.२६०.६ ॥

阿周那、阎摩的双生子、著名的德劳帕蒂,以及大光辉的毗摩,他在力量上是所有人中最杰出的。

3.260.7

चिरस्य जातं धर्मज्ञं सासूयमिव ते तदा ।
युधिष्ठिरमुदीक्षन्तः सेहुर्दुखमनुत्तमम् ॥ ३.२६०.७ ॥

他们望着那很久以后才出生、通晓法的坚战,仿佛怀着嫉妒,当时忍受了极大的痛苦。

3.260.8

अवशिष्टं त्वल्पकालं मन्वानाः पुरुषर्षभाः ।
वपुरन्यदिवाकार्पुरुत्साहामर्षचेष्टितैः ॥ ३.२६०.८ ॥

这些人中的雄牛们认为剩下的时间不多,凭借巨大的热情与愤怒的举动,仿佛换了另一副身躯。

3.260.9

कस्यचित्त्वथ कालस्य व्यासः सत्यवतीसुतः ।
आजगाम महायोगी पाण्डवानवलोककः ॥ ३.२६०.९ ॥

过了一段时间,萨蒂亚瓦蒂之子、大瑜伽士毗耶娑前来探望般度五子。

3.260.10

तमागतमभिप्रेक्ष्यकुन्तीपुत्रो युधिष्ठिरः ।
प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद्यथाविधि ॥ ३.२६०.१० ॥

看到他到来,贡蒂之子坚战迎上前去,按照礼仪接待了这位大德。

3.260.11

तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः ।
तोषयामास शौचेन व्यासं पाण्डवनन्दनः ॥ ३.२६०.११ ॥

坐在他身旁,以克制的感官服侍他,般度之子的喜悦者以清净使毗耶娑欢喜。

3.260.12

तानवेक्ष्यकृशान्पौत्रान्वने वन्येन जीवतः ।
महर्षिरनुकम्पार्थमब्रवीद्बाष्पगद्गदम् ॥ ३.२६०.१२ ॥

看到孙子们在森林中以野果为食、身形消瘦,大仙出于怜悯,含泪哽咽地开口说道。

3.260.13

युधिष्ठिर महाबाहो शृणु धर्मभृतांवर ।
नातप्ततपसो लोके प्राप्नुवन्ति महत्सुखम्।
सुखदुःखे हि पुरुषः पर्यायेणोपसेवते ॥ ३.२६०.१३ ॥

啊,大臂的犹提希提啊,持法者中最优秀的,请听。未曾苦行的人在世间得不到大的幸福。人轮流经历快乐与痛苦。

3.260.14

नात्यन्तमसुखं कश्चित्प्राप्नोति पुरुषर्षभ ।
प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया ॥ ३.२६०.१४ ॥

人中之雄啊,无人会遭受彻底的不幸。然而具有智慧的人,与至高的智慧相结合。

3.260.15

उदयास्तमयज्ञो हि न हृष्यति न शोचति ।
सुखमापतितं विन्दन्दुःखमापतितं सहन् ॥ ३.२६०.१५ ॥

知晓升起与落下的人,既不喜悦也不悲伤;得到到来的快乐,忍受到来的痛苦,他始终坚定。

3.260.16

कालप्राप्तमुपासीत सस्यानामिव कर्षकः ।
तपसो हि परं नास्ति तपसा विन्दते महत् ॥ ३.२६०.१६ ॥

如农夫等待庄稼按时成熟,人也应顺应到来的时节。没有比苦行更高的;通过苦行可以获得大成就。

3.260.17

नासाध्यं तपसः किंचिदिति बुध्यस् भारत ।
सत्यमार्जवमक्रोधः संविभागो दमः शमः ॥ ३.२६०.१७ ॥

婆罗多的后裔啊,要知道苦行无所不能成就。真实、正直、无怒、分享、克制与寂静,这些便是修行的方法。

3.260.18

अनसूयाऽविहिंसा च शौचमिन्द्रियसंयमः ।
साधनानि महाराज नराणां पुण्यकर्मणाम् ॥ ३.२६०.१८ ॥

无嫉妒、不伤害、清净与控制感官,这些是行善积德之人的方法,大王啊。

3.260.19

अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः ।
कृच्छ्रां योनिमनुप्राप्ता न सुखं विन्दते अनाः ॥ ३.२६०.१९ ॥

喜好非法、愚昧、专注于低等轮回之道的人,获得痛苦的胎藏后,不得安乐。

3.260.20

इह यत्क्रियते कर्म तत्परत्रोपभुज्यते ।
मूलसिक्तस्य वृक्षस्य फलं शाखासु दृश्यते।
तस्माच्छरीरं युञ्जीत तपसा नियमेन च ॥ ३.२६०.२० ॥

此世所作之业,于来世受用;如浇灌根部之树,其果显现于枝条,故应以苦行与戒律约束身体。

3.260.21

यथाशक्ति प्रयच्छेत संपूज्याभिप्रणम्य च ।
काले प्राप्ते च हृष्टात्मा राजन्विगतमत्सरः ॥ ३.२६०.२१ ॥

大王,应依自己能力布施,恭敬礼拜;时机到来时,心怀喜悦,远离嫉妒。

3.260.22

सत्यवादी लभेतायुरनायासमथार्जवम् ।
अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम् ॥ ३.२६०.२२ ॥

说真话的人获得长寿与不费力的正直;无怒、无嫉之人得至高的安宁。

3.260.23

दान्तः शमपरः शश्वत्परिक्लेशं न विन्दति ।
न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम् ॥ ३.२६०.२३ ॥

克制自己、常专注于寂静的人,不遭大苦;心已调伏者,见财富归他人,也不懊恼。

3.260.24

संविभक्ता च दाता च भोगवान्सुखवान्नरः ।
भवत्यहिंसकश्चैव परमारोग्यमश्नुते ॥ ३.२६०.२४ ॥

乐于分享、布施的人,成为拥有享受与幸福之人;不害他人者,得至高的健康。

3.260.25

मान्यं मानयिता जन्म कुले महति विन्दति ।
विन्दते सुखमत्यर्थमिह लोके परत्र च।
व्यसनैर्न तुसंयोगं प्राप्नोति विजितेन्द्रियः ॥ ३.२६०.२५ ॥

尊敬值得尊敬之人者,得生于高贵之家,在今世与来世都获得极大的快乐。已经制服诸根者,不会遭遇灾难。

3.260.26

शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा ।
प्रादुर्भवति तद्योगात्कल्याणमतिरेव सः ॥ ३.२६०.२६ ॥

具有善良倾向之智慧者,与时节之法相合而显现;因此结合,他便成为心存吉祥之人。

3.260.27

भगवन्दानधर्माणआं तपसो वा महामुने ।
किंस्विद्बहुगुणं प्रेत्य किं वा दुष्करमुच्यते ॥ ३.२६०.२७ ॥

尊者,大仙!布施之法与苦行,哪一种在来世功德最多?或者说,哪一种被称为最难?

3.260.28

दानान्न दुष्करं तात पृथिव्यामस्ति किंचन ।
अर्थे च महती तृष्णा स च दुःखेन लभ्यते ॥ ३.२६०.२८ ॥

孩子,世上没有比布施更难的事。对财富的渴望极大,而这种渴望也只能艰难地得到满足。

3.260.29

राजन्प्रत्यक्षमेवैतद्दृश्यते लोकसाक्षिकम् ।
परित्यज्य प्रियान्प्राणान्प्रविशन्ति रणाजिरम्।
तथैव प्रतिपद्यन्ते समुद्रमटवीं तथा ॥ ३.२६०.२९ ॥

大王,此事显然可见,世人皆可作证:舍弃心爱的生命,人们进入战场;同样,他们也进入大海与荒野。

3.260.30

कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः ।
पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः ॥ ३.२६०.३० ॥

有人从事农耕与牧牛;有人甘为仆役;而求财之人则离家远行。

3.260.31

तस्माद्दुःखार्जितस्यैव परित्यागः सुदुष्करः ।
सुदुष्करतरं दानं तस्माद्दानं मतं मम ॥ ३.२६०.३१ ॥

因此,舍弃以辛苦获得的财富极为困难;布施更为困难,所以在我看来,布施最为殊胜。

3.260.32

विसेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम् ।
पात्रे काले च देशे च प्रयतः प्रतिपादयेत् ॥ ३.२६०.३२ ॥

此处应当明白一个区别:以正当手段获得的财富,应当小心地,在适当的时间、适当的地点,交给值得的受施者。

3.260.33

अन्यायात्समुपात्तेन दानधर्मौ धनन यः ।
कुरुते न स कर्तारं त्रायते महतो भयात् ॥ ३.२६०.३३ ॥

用以不义所得之财行布施之法的人,并不能使行者免于大恐惧。

3.260.34

पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर ।
मनसा हि विशुद्धेन प्रेत्यानन्तफलं स्मृतम् ॥ ३.२६०.३४ ॥

啊,坚战!以清净之心,在适当的时候,把即使微小的布施交给值得的受施者,据说死后会带来无尽的果报。

3.260.35

श्रद्धा धर्मानुगा देवी पावनी विश्वधारिणी ।
सवित्री प्रसवित्री च संसारार्णवतारिणी ॥ ३.२६०.३५ ॥

信仰,随顺法,是神圣的,能清净,是世界的承载者,是生育者与产生者,也是渡过轮回之海的人。

3.260.36

श्रद्धया धार्यते धर्मो महद्भिर्नार्थदर्शिभिः ।
सधना अपिराजानो निःश्रद्धा नरकं गताः ॥ ३.२६०.३६ ॥

法是由信仰所维持的,由那些不只看重财富的大德所维持;即使富有的国王若无信心,也已堕入地狱。

3.260.37

निष्किंचनाश्च मुनयः श्रद्धावन्तो दिवं गताः ।
देशे काले च पात्रे च मुद्गलः श्रद्धयाऽन्वितः।
व्रीहिद्रोणं प्रदायाथ परं पदमवाप्तवान् ॥ ३.२६०.३७ ॥

即使是一无所有的圣者,也因信仰升天。穆德伽拉怀着信心,在适当的地点、时间,向合适的受施者布施了一德罗那稻米,从而获得了至高之境。

3.260.38

अत्राप्युदाहरन्तीमतिहासं पुरातनम् ।
व्रीहिद्रोणपरित्यागाद्यत्फलं प्राप मुद्गलः ॥ ३.२६०.३८ ॥

这里也引用这个古老的故事:穆德伽拉因舍弃一德罗那稻米而获得的果报。