摩诃婆罗多 · 章 3.262
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.262.1
महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम् ।
संप्राप्तं प्रतिपत्तव्यं विमृशस्यबुधो यथा ॥ ३.२६२.१ ॥
伟大的仙人啊,你的心志偏向于不该做的事;至高的天上之乐已经得到,本应接受,你却像无智者一样犹豫思量。
3.262.2
उपरिष्टादयं लोको योऽयं स्वरिति संज्ञितः ।
ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने ॥ ३.२६२.२ ॥
仙人啊,上方有一界名为天界(svar),那是向上的善道,永远为行走天神之路者所行。
3.262.3
नातप्ततपसः पुंसो नामहायज्ञयाजिनः ।
नानृता नास्तिकाश्चैव तत्रगच्छन्ति मुद्गल ॥ ३.२६२.३ ॥
穆德伽拉啊,未修苦行、未行大祭的人,以及说谎者和无信者,都不会去那里。
3.262.4
धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः ।
दानधर्मरताः पुंसः शूराश्चाहितलक्षणाः ॥ ३.२६२.४ ॥
心存正法、自我克制、平和、节制、无嫉妒,乐行布施之法,英勇且具有利益他人之德的人。
3.262.5
तत्रगच्छन्ति धर्माग्र्यं कृत्वा शमदमात्मकम् ।
लोकान्पुण्यकृतां ब्रह्मन्सद्भिराचरितान्नृभिः ॥ ३.२६२.५ ॥
婆罗门啊,那些奉行寂静与克制的最高法的人会去那里;那是行善者之界,是善人所行的人之界。
3.262.6
देवाः साध्यास्तथा विश्वे तथैव च महर्षयः ।
यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा ॥ ३.२६२.६ ॥
毛德伽利耶啊,诸天神、萨提耶神、维希瓦神、大仙人、雅摩神、达摩神,以及乾闼婆和阿普萨罗斯也在那里。
3.262.7
एषां देवनिकायानां पृथक्पृथगनेकशः ।
भास्वन्तः कामसंपन्ना लोकास्तेजोमयाः शुभाः ॥ ३.२६२.७ ॥
这些诸神的群类各自拥有众多独立的世界,都光辉灿烂,充满一切所欲,由光明构成,吉祥美好。
3.262.8
त्रयस्त्रिंशत्सहस्राणि योजनानि हिरण्मयः ।
मेरुः पर्वतराड्यत्रदेवोद्यानानि मुद्गल ॥ ३.२६२.८ ॥
金色的须弥山,群山之王,广三万三千由旬,诸神的园林便在那里,哦,弥伽罗。
3.262.9
नन्दनान्यतिरम्याणि तत्रोद्यानानि मुद्गल ।
सर्वकामफलैर्वृक्षैः शोभितानि समन्ततः ॥ ३.२६२.९ ॥
那里的难陀园林极其美妙,哦,弥伽罗,四周装点着能满足一切所欲之果的树木。
3.262.10
नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम् ।
न क्षुत्पिपासे न ग्लानिर्न शीतोष्णे भयं तथा ॥ ३.२६२.१० ॥
难陀等圣洁的游乐之地属于行善积德之人;那里没有饥渴,没有疲惫,也没有对寒冷或炎热的恐惧。
3.262.11
बीभत्समशुभं वाऽपि रोगो वा तत्र कश्चन ।
मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः ॥ ३.२६२.११ ॥
那里没有任何令人厌恶或不吉的事物,也没有任何疾病;四面八方都是令人愉悦的香气,各种令人舒适的触感。
3.262.12
शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्रवै मुने ।
न शोको न जरा तत्र नायासपरिदेवने ॥ ३.२६२.१२ ॥
那里四面八方都有悦耳悦心的声音,哦,圣者;那里没有忧愁,没有衰老,没有劳苦,也没有哀哭。
3.262.13
ईदृशः स मुने लोकः स्वकर्मफलहेतुकः ।
सुकृतैस्तत्रपुरुषाः संभवन्त्यात्मकर्मभिः ॥ ३.२६२.१३ ॥
哦,仙人,那个世界便是如此,由自身业报之果所成;人们在那里因自己的善业而生。
3.262.14
तैजसानि शरीराणि भवन्त्य्रोपपद्यताम् ।
कर्मजान्येव मौद्गल्य न मातृपितृजान्युत ॥ ३.२६२.१४ ॥
哦,毛德伽利耶,那里的身体变得光明;它们只由业而生,而非由父母所生。
3.262.15
रन संस्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च ।
तेषां न च रजोवस्त्रं बाधते तत्रवै मुने ॥ ३.२६२.१५ ॥
在那里,他们没有尘土、汗水、恶臭、粪便和尿液;哦,仙人,那里即使是沾满尘垢的衣服也不会困扰他们。
3.262.16
न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः ।
समूह्यन्ते विमानैश्च ब्रह्मन्नेवंविधा हि ते ॥ ३.२६२.१६ ॥
他们的花环不会枯萎,有神圣而令人愉悦的香气;婆罗门啊,他们便是如此,并由天车载运。
3.262.17
ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः ।
सुखं संर्गजितस्तत्रवर्तयन्ते महामुने ॥ ३.२६२.१७ ॥
没有嫉妒、悲伤和疲倦,没有迷惑与妒忌,哦,大仙,他们在那里快乐地生活,在喜乐之界中获得胜利。
3.262.18
तेषां तथाविधानां तु लोकानां मुनिपुङ्गव ।
उपर्युपरि शक्रस् लोका दिव्या गुणान्विताः ॥ ३.२६२.१८ ॥
哦,最优秀的仙人,在那样的世界之上,又之上,有因德性而具足的因陀罗神圣之界。
3.262.19
परतो ब्रह्मणस्तस्य लोकस्तेजोमयः शुभः ।
यत्र यान्त्यृषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः ॥ ३.२६२.१९ ॥
在其之外是梵天光明而吉祥的世界,凡以自身善业得净化的仙人皆往彼处,婆罗门啊。
3.262.20
ऋभवो नाम तत्रान्ये देवानामपि देवताः ।
तेषां लोकाः परतरे यान्यजन्तीह देवताः ॥ ३.२६२.२० ॥
那里还有名为里布的其他神祇,他们是诸神中的神。他们的世界更为高远,此间的诸神都礼敬他们。
3.262.21
स्वयंप्रभास्ते भास्वन्तो लोकाः कामदुघाः परे ।
न तेषां स्त्रीकृतस्तापो न भोगैश्वर्यमत्सरः ॥ ३.२६२.२१ ॥
那些是自光明、光辉灿烂、如如意牛般满足欲望的至上世界。那里没有因女人而生的烦恼,也没有对享乐与权势的嫉妒。
3.262.22
न वर्तयन्त्याहुतिभिस्ते नाप्यमृतभोजनाः ।
तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः ॥ ३.२६२.२२ ॥
他们不以供物维持生命,也不以甘露为食。他们拥有神圣之身,并无物质形体。
3.262.23
नासुखाः सुखकामास्ते देवदेवाः सनातनाः ।
न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा ॥ ३.२६२.२३ ॥
他们无苦,而求乐;他们是诸神之神,永恒不灭。在劫的轮转中,他们并不如此变化。
3.262.24
रजरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च ।
न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने ॥ ३.२६२.२४ ॥
对他们而言,何来衰老与死亡?没有喜悦、欢愉与快乐;无苦也无乐。哦,圣者,爱憎又从何而来?
3.262.25
देवानामपि मौद्गल्यकाङ्क्षिता सा गतिः परा ।
दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः ॥ ३.२६२.२५ ॥
牟德伽利耶啊,即使对诸神而言,那人所渴求的至高境界也难以达到;那至高的成就对于活动范围只在欲望之中的人来说是不可企及的。
3.262.26
त्रयस्त्रिंशदिमे लोकाः शेषा लोका मनीषिभिः ।
गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः ॥ ३.२६२.२६ ॥
这三十三界以及其余诸界,都是智者借助殊胜的戒律,或依照仪轨所行的布施而得以抵达的。
3.262.27
सेयं दानकृता व्युष्टिरनुप्राप्ता सुखं त्वया ।
तां रभुङ्क्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः ॥ ३.२६२.२७ ॥
这由布施所生的兴盛已作为幸福降临到你身上;你的光辉因苦行而明亮,请享受凭善行所得的那一切吧。
3.262.28
एतत्स्वर्गसुखं विप्र लोका नानाविधास्तथा ।
गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे ॥ ३.२६२.२८ ॥
婆罗门啊,这就是天界的快乐,此外还有种种不同的世界;天界的这些优点已经说明,现在也请听我讲述它的过失。
3.262.29
कृस्य कर्मणस्तत्रभुज्यते यत्फलं दिवि ।
न चान्त्क्रियते कर्म मूलच्छेदेन भुज्यते ॥ ३.२६२.२९ ॥
在天界,人们享受所作业的果报,但业并未因此终结;它是在斩断根源之后才被享受的。
3.262.30
सोऽत्रदोषो मम मतस्तस्यान्ते पतनं च यत् ।
सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल ॥ ३.२६२.३० ॥
依我之见,这就是过失,而其终局便是堕落;至于那些心沉溺于快乐者的堕落,啊,牟德伽拉,也正是这一点。
3.262.31
असंतोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः ।
यद्भवत्यवरे स्थाने स्थितानां तत्सुदुष्करम् ॥ ३.२६२.३१ ॥
见到更加辉煌的富贵,便生出不满与深深的痛苦;对于身处低位的人来说,这极为难以承受。
3.262.32
संज्ञामोहश्चपततां रजसा च प्रधर्षणम् ।
प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम् ॥ ३.२६२.३२ ॥
坠落者心神迷乱,又被尘土所辱;花环枯萎之间,那即将坠落之人便生恐惧。
3.262.33
आब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः ।
नाकलोकेसुकृतिनां गुणास्त्वयुतशो नृणाम् ॥ ३.२६२.३३ ॥
茂德伽利耶啊,从梵天世界以下的这些过失是可怕的;但在天界,有功德者的美德比人间多出万倍。
3.262.34
अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने ।
शुभानुशययोगेन मनुष्येषूपजायते ॥ ३.२६२.३४ ॥
贤者啊,这是从天界坠落者的另一项殊胜之德:凭借善业的余报相应,他们投生于人间。
3.262.35
तत्रापि स महाभागः कुले महति जायते ।
न चेत्संबुध्यते तत्रगच्छत्यधमतां ततः ॥ ३.२६२.३५ ॥
即使在那里,这位大有福分者也生于高贵之家;若在那里仍不觉悟,他便堕入卑下。
3.262.36
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते ।
कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता ॥ ३.२६२.३६ ॥
在此所作之业,于彼处受用。婆罗门啊,此为业之地,彼则被视为果之地。
3.262.37
महान्तस्तु अमी दोपास्त्वया स्वर्गस्य कीर्तिताः ।
निर्दोष एव यस्त्यन्यो लोकं तं प्रवदस्व मे ॥ ३.२६२.३७ ॥
你已讲述了天界的这些大过失。现在请告诉我那个无过失的另一世界。
3.262.38
ब्रह्मणः सदनादूर्ध्वं तद्विष्णोः परमं पदम् ।
शुद्धं सनातनं ज्योतिः परं ब्रह्मेति यद्विदुः ॥ ३.२६२.३८ ॥
在梵天的居所之上,是毗湿奴的至上之地,那是纯净永恒的光明,人们称之为至上梵。
3.262.39
न तत्रविप्र गच्छन्ति पुरुषा विषयात्मकाः ।
दम्भलोभमहाक्रोधमोहद्रोहैरभिद्रुताः ॥ ३.२६२.३९ ॥
婆罗门啊,本性系于感官对象、被虚伪、贪婪、大怒、迷惑与恶意所困扰的人,不能到达那里。
3.262.40
निर्ममा निरहंकारा निर्द्विन्द्वाः संयतेन्द्रियाः ।
ध्यानयोगपराश्चैव तत्रगच्छन्ति मानवाः ॥ ३.२६२.४० ॥
无我所执、无我慢、超越对待、摄伏诸根、专修禅定瑜伽的人,才会到达那里。
3.262.41
एतत्ते सर्वमाख्यतं यन्मां पृच्छसि मुद्गल ।
तवानुकम्पया साधो साधु गच्छाम माचिरम् ॥ ३.२६२.४१ ॥
穆德伽啊,你所问我的一切都已告诉你了。善士,因你的慈悲,让我们立即出发,不再耽搁。
3.262.42
एतच्छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया ।
विमृश्य च मुनिश्रेष्ठो देवदूतमुवाचह ॥ ३.२६२.४२ ॥
毛德伽利耶听后,以智慧思量这些话;思量之后,这位最优秀的仙人对天神使者说道。
3.262.43
देवदूत नमस्तेऽम्तु गच्छ तात यथासुखम् ।
महादोषेण मे कार्यं न स्वर्गेण सुखेन चा ॥ ३.२६२.४३ ॥
神使,向您致敬。亲爱的,请随意前行。我不需要这伴随大过失的天界与快乐。
3.262.44
पतनान्ते महादुःखं परितापः सुदारुणः ।
स्वर्गभाजः पतन्तीह तस्मात्स्वर्गं न कामये ॥ ३.२६२.४४ ॥
坠落的尽头有大苦与极可怕的煎熬。分享天界者从此处坠落,因此我不愿求天界。
3.262.45
यत्रगत्वान शोचन्ति न व्यथन्तिचलन्ति वा ।
तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम् ॥ ३.२६२.४५ ॥
往而不悲、不苦、不动摇之处,那至高之所,我将独自寻求。
3.262.46
इत्युक्त्वा स मुनिर्वाक्यं देवदूतंविसृज्य तम् ।
शिलोञ्छवृत्तिमुत्सृज्य शममातिष्ठदुत्तमम् ॥ ३.२६२.४६ ॥
说完这番话,贤者送别了神使,舍弃拾穗的生活,安住于至高的寂静。
3.262.47
तुल्यनिन्दास्तुतिर्भूत्वासमलोष्टाश्मकाञ्चनः ।
ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह ॥ ३.२६२.४७ ॥
视毁誉为等同,视土块、石头与黄金为一样,以清净的智慧瑜伽,他恒常沉浸于禅定。
3.262.48
निगृहीतेन्द्रियग्रामः समयोजयदात्मनि ।
युक्तचित्तं यथाऽऽत्मानं युयोज परमेश्वरे ॥ ३.२६२.४८ ॥
制伏诸根,他使自己安于自我;以专注之心,他将自我合于至上主宰。
3.262.49
ध्यानयोगाद्बलं लब्ध्वा प्राप्य बुद्धिमनुत्तमाम् ।
जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम् ॥ ३.२६२.४९ ॥
他借冥想瑜伽获得力量与无上智慧,达到了以涅槃为特征的永恒至高成就。
3.262.50
तस्मात्त्वमपिकौन्तेय न शोकं कर्तुमर्हसि ।
राज्यात्स्फीतात्परिभ्रष्टस्तपसा तदवाप्स्यसि ॥ ३.२६२.५० ॥
因此,贡蒂之子啊,你也不应悲伤。虽然你失去了繁荣的王国,但你将通过苦行(tapas)重新获得它。
3.262.51
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
पर्यायेणोपसर्पन्ते नरं नेमिमरा इव ॥ ३.२६२.५१ ॥
快乐之后是痛苦,痛苦之后是快乐;它们轮流降临于人,如同车轮的辐条轮流靠近轮辋。
3.262.52
पितृपैतामहं राज्यंप्राप्स्यस्यमितविक्रम ।
वर्षात्रयोदशादूर्ध्वंव्येतु ते मानसो ज्वरः ॥ ३.२६२.५२ ॥
无量勇武者啊,你将获得父祖的王国。十三年之后,愿你心中的热病消退。
3.262.53
स एवमुक्त्वाभगवान्व्यासः पाण्डवनन्दनम् ।
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥ ३.२६२.५३ ॥
说完这些,尊贵而智慧的毗耶娑便与般度之子告别,又回到他的修行林中去苦修了。