摩诃婆罗多 · 章 3.263
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.263.1
वसत्स्वेवं वने तेषु पाण्डवेषु महात्मसु ।
रममाणएषु चित्राबिः कथाभिर्मुनिभिः सह ॥ ३.२६३.१ ॥
就这样,那些伟大的般度之子住在森林中,与仙人们一同以奇妙的故事为乐。
3.263.2
सूर्यदत्ताक्षयान्नेन कृष्णाया भोजनावधि ।
ब्राह्मणांस्तर्पमाणेषु ये चान्नार्थमुपागताः।
आरण्यानां मृगाणां च मांसैर्नानाविधैरपि ॥ ३.२६३.२ ॥
借着太阳所赐的不竭之食,直到黑利(德罗波蒂)用餐为止,使前来求食的婆罗门得到满足,并以多种森林鹿肉供养。
3.263.3
धार्तराष्ट्रा दुरात्मानः सर्वे दुर्योधनादयः ।
कथं तेष्वन्ववर्तन्त पापाचारा महामुने ॥ ३.२६३.३ ॥
大仙啊,难敌等持国所有恶毒的儿子,行为有罪,他们对待那些人是怎样的?
3.263.4
दःशासनस्य कर्णस्य शकुनेश्च मते स्थिताः ।
एतदाचक्ष्व भगवन्वैशंपायन पृच्छतः ॥ ३.२६३.४ ॥
他们听从难降、迦尔纳和沙恭尼的谋划,做了什么?尊敬的毗舍摩衍那啊,我问您,请告诉我。
3.263.5
श्रुत्वा तेषां तथा वृत्तिं नगरे वसतामिव ।
दुर्योधनो महाराज तेषु पापमरोचयत् ॥ ३.२६३.५ ॥
大王啊,难敌听闻他们的生活状况,仿佛居住在城市中一般,便对他们起了作恶之心。
3.263.6
तथा तैर्निकृतिप्रज्ञैः कर्णदुःशासनादिभिः ।
नानोपायैरधं तेषु चिन्तयत्सु दुरात्मसु ॥ ३.२६३.६ ॥
因此,当狡诈的迦尔纳、难降等恶人以种种手段谋划要毁灭他们时,
3.263.7
अभ्यागच्छत्स धर्मात्मा तपस्वी कसुमहायशाः ।
शिष्यायुतसमोपेतो दुर्वासा नाम कामतः ॥ ३.२६३.७ ॥
那位心地正直、苦修而大名远扬的仙人名叫杜尔婆娑,他随心所欲地前来,身边跟着一万名弟子。
3.263.8
तमागतमभिप्रेक्ष्य मुनिं परमकोपनम् ।
सहितो भ्रातृभिः श्रीमानातिथ्येन न्यमन्त्रयत् ॥ ३.२६३.८ ॥
看到这位极易发怒的仙人到来,那位光荣的王与兄弟们一同邀请他作客。
3.263.9
विधिवत्पूजयामास स्वयं किंकरवत्स्थितः ।
अहानि कतिचित्तत्र तस्थौ स मुनिसत्तमः ॥ ३.२६३.९ ॥
他亲自像仆人一样站立,依礼虔诚地供奉他;那位最优秀的仙人在那里住了几天。
3.263.10
तं च पर्यचरद्राजा दिवारात्रमतन्द्रितः ।
दुर्योधनो महाराज शापात्तस्य विशङ्कितः ॥ ३.२६३.१० ॥
国王难敌日夜不懈地侍奉他,大王啊,他畏惧他的诅咒。
3.263.11
क्षुधितोऽस्मि ददस्वान्नं शीघ्रं मम नराधिप ।
इत्युक्त्वा गच्छति स्नातुं प्र्यागच्चति वै चिरात् ॥ ३.२६३.११ ॥
他说:“人主啊,我饿了;快给我食物。”说完便去沐浴,过了很久才回来。
3.263.12
न भोक्ष्याम्यद्यमे नास्ति क्षुधेत्युक्त्वैत्यदर्शनम् ।
अकस्मादेत्य च ब्रूते भोजनयास्मांस्त्वरान्वितः ॥ ३.२६३.१२ ॥
他说:“今天我不吃,我不饿。”说完便不见了;随后忽然回来,急切地对我们提起吃饭之事。
3.263.13
कदाचिच्च निशीथे स उत्थाय निकृतौ स्थितः ।
पूर्ववत्कारयित्वाऽन्नं न भुङ्क्ते गर्हयन्स्म सः ॥ ३.२६३.१३ ॥
有一次,在午夜,他起身站在茅屋中;虽然食物像以前一样备好了,他却不吃,反而不断责备。
3.263.14
वर्तमाने तथा तस्मिन्यदा दुर्योधनो नृपः ।
विकृतिं नैति न क्रोधं तदा तुष्टोऽभवन्मुनिः ॥ ३.२६३.१४ ॥
当这样进行着时,国王难敌既不显出烦恼,也不发怒,于是仙人感到满意。
3.263.15
आहचैनं दुराधर्षो वरदोऽस्मीति भारत ॥ ३.२६३.१५ ॥
那位不可战胜的仙人对他说:"婆罗多啊,我是赐予恩惠的人。"
3.263.16
वरं वरय भद्रं ते यत्ते मनसि वर्तते ।
मयि प्रीते तु यद्धर्म्यं नालभ्यं विद्यते तव ॥ ३.२६३.१६ ॥
请求一个恩惠吧,愿你吉祥。把你心中所想的说出来。当我欢喜时,对你而言,凡合乎法的事物都不会无法得到。
3.263.17
एतच्छ्रुत्वा वचस्तस्य महर्षेर्भावितात्मनः ।
अमन्यत पुनर्जातमात्मानं स सुयोधनः ॥ ३.२६३.१७ ॥
听了这位心志纯净的大仙的这番话,苏尤陀那觉得自己仿佛重获新生。
3.263.18
प्रागेव मन्त्रितं चासीत्कर्णदुःशासनादिभिः ।
याचनीयं मुनेस्तुष्टादिति निश्चित्य दुर्मतिः ॥ ३.२६३.१८ ॥
早先已与迦尔纳、难降等人商定,要向心满意足的仙人请求恩惠;这个恶念之人下定决心后,
3.263.19
अतिहर्षान्वितो राजन्वरमेनमयाचत ।
शिष्यैः सह मम ब्रह्मन्यथा जातोऽतिथिर्भवान् ॥ ३.२६३.१९ ॥
大王,他满怀喜悦地向他请求一个恩惠:婆罗门啊,请与您的弟子一同成为我的客人。
3.263.20
अस्मत्कुले महाराजो ज्येष्ठः श्रेष्ठो युधिष्ठिरः ।
वने वसति धर्मात्मा भ्रातृभिः परिवारितः।
गुणवाञ्शीलसंपन्नस्तस्य त्वमतिथिर्भव ॥ ३.२६३.२० ॥
我们家族中年长而最优秀的大王坚战,心怀正法,被兄弟们环绕,住在森林里。他品德高尚,行为端正;请您成为他的客人。
3.263.21
यदा च राजपुत्री सा सुकुमारी यशस्विनी ।
भोजयित्वा द्विजान्सर्वान्पतींश्च वरवर्णिनी ॥ ३.२६३.२१ ॥
当那位娇柔而光彩照人、容颜秀美的公主,已经供养了所有再生者和她的丈夫们之后……
3.263.22
विश्रान्ता च स्वयं भुक्त्वा सुखासीना भवेद्यदा ।
तदा त्वं तत्रगच्छेथा यद्यनुग्राह्यता मयि ॥ ३.२६३.२२ ॥
当她自己用过餐、休息之后安然而坐时,若您对我有恩惠,您便应当前往那里。
3.263.23
तथा करिष्ये त्वत्प्रीत्येत्येवमुक्त्वा सुयोधनम् ।
दुर्वासा अपिविप्रेन्द्रो यथागतमगात्ततः ॥ ३.२६३.२३ ॥
“为了让你高兴,我就这样做。”他对难敌说完,婆罗门中最杰出的杜尔婆娑便沿着来时的路离去了。
3.263.24
कृतार्थमपि चात्मानं तदा मेने सुयोधनः ।
करेण च करं गृह्य कर्णस्य मुदितो भृशम् ॥ ३.२६३.२४ ॥
于是难敌自认为达到了目的,他握住迦尔纳的手,万分欢喜。
3.263.25
कर्णोपि भ्रातृसहितमित्युवाच नृपं मुदा ।
दुष्ट्या कामः सुसंवृत्तोदिष्ट्या कौरव वर्धसे।
दिष्ट्या ते शत्रवो मग्ना दुस्तरे व्यसनार्णवे ॥ ३.२६३.२५ ॥
迦尔纳与兄弟们也欢欣地对国王说:“俱卢之子啊,你的愿望已完全实现;幸运的是你正在兴盛。幸运的是你的敌人已沉没于难以渡越的灾难之海。”
3.263.26
दुर्वासःक्रोधजे वह्नौ पतिताः पाण्डुनन्दनाः ।
स्वैरेव ते महापापैर्गता वै दुस्तरं तमः ॥ ३.२६३.२६ ॥
般度之子坠入了由杜尔婆娑的愤怒所生的烈火;他们因自身的大罪进入了难以渡越的黑暗。
3.263.27
इत्थं ते निकृतिप्रज्ञा राजन्दुर्योधनादयः ।
हसन्तः प्रीतमनसो जग्मुः स्वंस्वं निकेतनम् ॥ ३.२६३.२७ ॥
于是,心怀诡计的难敌等人,王啊,笑着、心怀喜悦,各自回到了自己的住所。