Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.264

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.264.1

ततः कदाचिद्दुर्वासाः सुखासीनांस्तु पाण्डवान् ।
भुक्त्वा चावस्थितां कृष्णां ज्ञात्वा तस्मिन्वने मुनिः।
अभ्यागच्छत्परिवृतः शिष्यैरयुतसंमितैः ॥ ३.२६४.१ ॥

一日,仙人杜尔瓦萨得知黑公主(德罗波蒂)仍留在那里,而般度五子已饭毕安坐,便在一万名弟子的簇拥下来到那片森林。

3.264.2

दृष्ट्वा यान्तं तमतिथिं स च राजा युधिष्ठिरः ।
जगामाभिमुखः श्रीमान्सह भ्रातृभिरच्युतः ॥ ३.२६४.२ ॥

国王坚战见那位客人到来,便与诸弟一同前往迎接,他光辉而坚定。

3.264.3

तस्मै बद्ध्वाञ्जलिं सम्यगुपवेश्य वरासने ।
विधिवत्पूजयित्वा तमातिथ्यन न्यमन्त्रयत्।
आह्निकं भगवन्कृत्वा शीघ्रमेहीति चाब्रवीत् ॥ ३.२६४.३ ॥

他合掌恭敬地将其请到上好的座位上坐下,依仪式礼敬,并以待客之礼邀请道:“尊者,请速办完日常仪式再来。”

3.264.4

जगाम च मुनिः सोपि स्नातुं शिष्यैः सहानघः ।
भोजयेत्सहशिष्यं मां कथमित्यविचिन्तयन् ॥ ३.२६४.४ ॥

那位无垢的仙人也与弟子一同去沐浴,心中想着:“他将如何供养我和我的弟子呢?”

3.264.5

न्यमज्जत्सलिले चापि मुनिसङ्घः समाहितः ॥ ३.२६४.५ ॥

那群心意专注的仙人也潜入水中。

3.264.6

एतस्मिन्नन्तरे राजन्द्रौपदी योपितां वरा ।
चिन्तामवाप परमामन्नहेतोः पतिव्रता ॥ ३.२६४.६ ॥

此时,大王啊,女中之最、忠贞的德罗波蒂,因为食物而陷入极大的忧虑。

3.264.7

सा चिन्तयन्ती च यदा नान्नहेतुमविन्दत ।
मनसा चिन्तयामास कृष्णं कंसनिषूदनम् ॥ ३.२६४.७ ॥

她忧虑之中找不到获取食物的办法,便在心中思念杀死羯陀的黑天。

3.264.8

कृष्णकृष्ण महाबाहो देवकीनन्दनाव्यय ।
वासुदेव जगन्नाथ प्रणतार्तिविनाशन ॥ ३.२६४.८ ॥

克里希那啊,克里希那啊,大臂者,提婆基之子,不灭的伐苏提婆,世界之主,消除归依者苦难的人!

3.264.9

विश्वात्मन्विश्वजनक विश्वहर्तः प्रभोऽव्यय ।
प्रपन्नपाल गोपाल प्रजापाल परात्पर।
आकूतीनां च चित्तीनां प्रवर्तक नताऽस्मि ते ॥ ३.२६४.९ ॥

宇宙之魂啊,宇宙之父,毁灭宇宙者,主啊,不灭者,庇护归依者的人,牧童,护佑众生的人,超越至上者!你是意念与心念的推动者,我向你顶礼。

3.264.10

वरेण्य वरदानन्त अगतीनां गतिप्रद ।
पुराणपुरुष प्राणमनोवृत्त्याद्यगोचर ॥ ३.२६४.१० ॥

最尊贵者,赐恩者,无限者,给无依者以归宿的人,古老的补鲁沙,超越气息、意念与心念活动的人!

3.264.11

सर्वाध्यक्ष पराध्यक्ष त्वामहं शरणं गता ।
पाहि मां कृपया देव शरणागतवत्सल ॥ ३.२६४.११ ॥

一切之主,至上之主啊!我已归依于你。神啊,你是归依者的慈爱之主,请以恩典保护我。

3.264.12

नीलोत्पलदलश्याम पद्मगर्भारुणेक्षण ।
पीताम्बरपरीधान लसत्कौस्तुभभूषण ॥ ३.२६४.१२ ॥

肤色黑如青莲花瓣,眼睛红如莲花心,身穿黄色衣裳,佩戴闪耀的考斯图巴宝珠!

3.264.13

त्वमादिरन्तो भूतानां त्वमेव च परायणम् ।
परात्परतरं ज्योतिर्विश्वात्मा सर्वतोमुखः ॥ ३.२६४.१३ ॥

你是万物的始终,你是至高的归宿。你是超越至上者的光明,是宇宙的自我,面向一切方向。

3.264.14

त्वामेवाहुः परं बीजं निधानं सर्वसंपदाम् ।
त्वया नाथेन देवेश सर्वापद्म्यो भयं न हि ॥ ३.२६४.१४ ॥

人们称你为至高的种子、一切财富的宝库。诸神之主啊,有你为我们的主宰,便无任何灾难可惧。

3.264.15

दुःशासनादहं पूर्वं सभायां मोचिता यथा ।
तथैव संकटादस्मान्मामुद्धर्तुमिहार्हसि ॥ ३.२६४.१५ ॥

正如你从前在议事厅中使我脱离难敌之弟难降的侮辱,现在也应当把我从这危难中救起。

3.264.16

एवं स्तुतस्तदा देवः कृष्णया भक्तवत्सलः ।
द्रौपद्याः संकटं ज्ञात्वा देवदेवो जगत्पतिः ॥ ३.२६४.१६ ॥

克利须那如此赞颂之时,爱护信徒的神中之神、世界之主,知晓了德劳帕蒂的危难。

3.264.17

पार्स्वस्थां शयने त्यक्त्वा रुक्मिणीं केशवः प्रभुः ।
तत्राजगाम त्वरितो ह्यचिन्त्यगतिरीश्वरः ॥ ३.२६४.१७ ॥

克舍婆主舍下身旁卧榻上的茹克弥尼,急速赶到那里;这位主宰,行动不可思议,迅速来到。

3.264.18

ततस्तं द्रौपदी दृष्ट्वाप्रणम्य परया मुदा ।
अब्रवीद्वासुदेवाय मुनेरागमनादिकम् ॥ ३.२६४.१८ ॥

德劳帕蒂见到他,满心喜悦地行礼,并向筏素提婆讲述了仙人到来等诸事。

3.264.19

ततस्तामब्रवीत्कृष्णः क्षुधितोस्मि भृशातुरः ।
शीघ्रं भोजय मां कृष्णे पश्चात्सर्वं करिष्यसि ॥ ३.२६४.१९ ॥

于是黑天对她说:「我饥饿至极,十分疲惫。黑女啊,快给我饭食;之后你再做一切吧。」

3.264.20

निशम्य तद्वचः कृष्णा लज्जिता वाक्यमब्रवीत् ।
स्थाल्यां भास्करदत्तायामन्नं मद्भोजनावधि ॥ ३.२६४.२० ॥

黑女听了他的话,羞愧地说:「太阳所赐之器中的食物,只够到我自己用餐为止。」

3.264.21

भुक्तवत्यस्म्यहं देव तस्मादन्नं न विद्यते ।
ततः प्रोवाच भगवान्कृष्णां कमललोचनः ॥ ३.२६४.२१ ॥

「大神啊,我已经用过餐了,所以现在已无食物。」于是莲花眼的世尊对黑女说道。

3.264.22

कृष्णे न नर्मकालोऽयं क्षुच्छ्रमेणातुरे मयि ।
शीघ्रं गच्छ मम स्थालीमानयित्वा प्रदर्शय ॥ ३.२६४.२२ ॥

「黑女啊,这不是戏笑的时候,我正为饥饿和疲惫所苦。快去把我的饭器拿来给我看看。」

3.264.23

इति निर्बन्धतः स्थालीमानाय्य स यदूद्वहः ।
स्थाल्याः कण्ठेऽथ संलग्नं शाकान्नं वीक्ष्यकेशवः ॥ ३.२६४.२३ ॥

如此坚持之下,这位友族的翘楚便令人取来饭器;于是伽舍婆看见饭器边缘粘着的蔬菜饭。

3.264.24

उपयुज्याब्रवीदेनामनेन हरिरीश्वरः ।
विश्वात्मा प्रीयतां देवस्तुष्टश्चास्त्विति यज्ञभूक् ॥ ३.२६४.२४ ॥

他享用了它之后,哈里、自在者、宇宙之我对她说:「愿享用祭祀的神欢喜,愿他满足。」

3.264.25

आकारय मुनीञ्शीघ्रं भोजनायेति चाब्रवीत् ।
भीमसेनं महाबाहुः कृष्णः क्लेशविनाशनः ॥ ३.२६४.२५ ॥

于是大臂、除苦的黑天对毗摩森那说:"快去把仙人们请来用餐。"

3.264.26

ततो जगाम त्वरितो भीमसेनो महायशाः ।
आकारितुं तु तान्सर्वान्भोजनार्थं नृपोत्तम।
स्नातुं गतान्देवनद्यां दुर्वासःप्रभृतीन्मुनीन् ॥ ३.२६४.२६ ॥

于是名声显赫的毗摩森那急速前往,去召请他们所有人用餐,王中之最:那些去神河沐浴的仙人,以杜尔婆萨为首。

3.264.27

ते चावतीर्णाः सलिले कृतवन्तोऽघमर्षणम् ।
दृष्ट्वोद्गारान्सान्नरसांस्तृप्त्या परमया युताः।
उत्तीर्य सलिलात्तस्माद्दृष्टवन्तः परस्परम् ॥ ३.२६४.२७ ॥

他们已下水行了去罪的阿伽摩尔沙那仪式;随后,见到带着食物滋味的饱嗝,充满至极的饱足,他们从水中上来,彼此相望。

3.264.28

दुर्वाससमभिप्रेक्ष्यते सर्वे मुनयोऽब्रुवन् ।
राज्ञा हिकारयित्वाऽन्नं वयं स्नातुं समागताः ॥ ३.२६४.२८ ॥

众仙人见到杜尔婆萨,都说:"国王已命人备好了食物;我们是来沐浴的。"

3.264.29

आकण्ठतृप्ता विप्रर्षे किंस्विद्भुञ्जामहे वयम् ।
वृथा पाकः कृतोस्माभिस्तत्र किं करवामहे ॥ ३.२६४.२९ ॥

我们已经饱到喉咙,婆罗门中的仙人啊;那么我们现在还吃什么?我们做的饭白费了;我们在那里还能做什么?

3.264.30

वृथा पाकेन राजर्षेरपराधः कृतो महान् ।
माऽस्मानधाक्षुर्दृष्ट्वैव पाण्डवाः क्रूरचक्षुषा ॥ ३.२६४.३० ॥

因为白费的烹饪,对王仙犯下了大过错。愿般度之子们不要以凶狠的目光看我们而把我们烧成灰烬。

3.264.31

स्मृत्वाऽनुभावं राजर्षेरम्बरीषस्य धीमतः ।
बिभेमि सुतरां विप्रा हरिपादाश्रयाज्जनात् ॥ ३.२६४.३१ ॥

想起智慧的王仙安伯利沙的威力,诸位婆罗门啊,我极为畏惧那位皈依哈利双足的人。

3.264.32

पाण्डवाश्च महात्मानः सर्वे धर्मपरायणाः ।
शूराश्चकृतविद्याश्च व्रतिनस्तपसि स्थिताः ॥ ३.२६४.३२ ॥

般度之子皆是大德之人,专心于法,英勇,精通学问,持守誓愿,安住于苦行。

3.264.33

सदाचाररता नित्यं वासुदेवपरायणाः ।
क्रुद्धास्ते निर्दहेयुर्वै तूलराशिमिवानलः।
तत एतानपृष्ट्वैव शिष्याः शीघ्रं पलायत ॥ ३.२६४.३३ ॥

他们始终行于善行,专一地归依瓦苏提婆。若他们愤怒,必会像火烧棉堆一样将你们焚尽。因此,诸弟子啊,不要问他们任何事,快快逃走吧。

3.264.34

इत्युक्तास्ते द्विजाः सर्वे मुनिना गुरुणा तदा ।
पाण्डवेभ्यो भृशं भीता दुद्रुवुस्ते दिशो दश ॥ ३.२६४.३४ ॥

老师仙人如此说完,那些婆罗门因极为畏惧般度之子,便向十方奔逃而去。

3.264.35

भीमसेनो देवनद्यामपश्यन्मुनिसत्तमान् ।
तीर्थे ष्वितस्ततस्तस्या विचचार गवेषयन् ॥ ३.२६४.३५ ॥

怖军在天河中看见了最杰出的仙人。他在河中的圣渡口处四处寻找,徘徊不止。

3.264.36

तत्रस्थेभ्यस्तापसेभ्यः श्रुत्वा ताश्चैव विद्रुतान् ।
युधिष्ठिरमथाभ्येत्य तं वृत्तान्तं न्यवेदयत् ॥ ३.२६४.३६ ॥

怖军从住在那里的苦行者和逃走的婆罗门那里听说了此事,便走到坚战面前,把事情禀告了。

3.264.37

ततस्ते पाण्डवाः सर्वे प्र्यागमनकाङ्क्षिणः ।
प्रतीक्षनतः कियत्कालं जितात्मानोऽवतस्थिरे ॥ ३.२६४.३७ ॥

于是想要返回的众般多子们克制自己,等待了一段时间,便留在那里。

3.264.38

निशीथेऽभ्येत्य चाकस्मादस्मान्स च्छलयिष्यति ।
कथं च निस्तरेमास्मात्कृच्छ्राद्दैवोपसादितात् ॥ ३.२६४.३८ ॥

他将在午夜突然前来欺骗我们。我们怎样才能从这由命运带来的困境中脱身呢?

3.264.39

इति चिन्तापरान्दृष्ट्वा निःश्वसन्तो मुहुर्मुहुः ।
उवाच वचनं श्रीमान्कृष्णः प्रत्यक्षतां गतः ॥ ३.२६४.३९ ॥

见他们陷入忧虑、反复叹息,显现于前的吉祥的克里希纳说了这些话。

3.264.40

भवतामापदं ज्ञात्वा ऋषेः परमकोपनात् ।
द्रौपद्या चिन्तितः पार्था अहं सत्वरमागतः ॥ ३.२६४.४० ॥

般度之子们啊!我得知你们因仙人极大的愤怒而遭的灾难,德罗巴蒂思念我,我便急速而来。

3.264.41

न भयं विद्यतेतस्मादृषेर्दुर्वाससोऽल्पकम् ।
तेजसा भवतां भीतः पूर्वमेव पलायितः ॥ ३.२६४.४१ ॥

那位仙人杜尔瓦撒毫无可惧之处;他被你们的光辉所震慑,早已逃走了。

3.264.42

धर्मनित्यास्तु ये केचिन्न ते सीदन्ति कर्हिचित् ।
आपृच्छे वो गमिष्यामि नियतं भद्रमस्तु वः ॥ ३.२६४.४२ ॥

那些始终恪守法(达摩)的人从不受苦。我向你们告辞而去;愿你们必定吉祥。

3.264.43

श्रुत्वेरितं केशवस्य बभूवुः स्वस्थामानसाः ।
द्रौपद्या सहिताः पार्थास्तमूचुर्विगतज्वराः ॥ ३.२६४.४३ ॥

聽了黑天所言,般度諸子與德羅波蒂一同心意安定,脫離了煩惱,便對他說道。

3.264.44

त्वया नाथेन गोविन्द दुस्तरामापदं विभो ।
तीर्णाः प्लवमिवासाद्य मज्जमाना महार्णवे ॥ ३.२६४.४४ ॥

哥文達啊,大能者!有你作我們的護持,我們度過了難以渡過的大難,就像在大海中沉沒的人遇到木筏而得以渡過。

3.264.45

स्वस्ति साधय भद्रं ते इत्याज्ञातो ययौ पुरीम् ॥ ३.२६४.४५ ॥

「願你平安,願你吉祥,成就你的事」——得他如此吩咐,便往城中去了。

3.264.46

पाण्डवाश्च महाभाग द्रौपद्या सहिताः प्रभो ।
ऊषुः प्रहृष्टमनसो विहरन्तो वनाद्वनम्।
इति तेऽभिहितं राजन्यत्पृष्टोऽहमिह त्वया ॥ ३.२६४.४६ ॥

大福者啊,主啊!般度五子與德羅波蒂一同心懷喜悅,從一座森林漫遊到另一座森林而居住。國王啊,你所問的,我在這裡已經告訴你了。

3.264.47

एवंविधान्यलीकानि धार्तराष्ट्रैर्दुरात्मभिः ।
पाण्डवेषु वनस्थेषु प्रयुक्तानि वृथाऽभवन् ॥ ३.२६४.४७ ॥

般度五子住在林中時,持惡念的持國子們所施用的這些詭計,全都徒勞無功。