摩诃婆罗多 · 章 3.265
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.265.1
तस्मिन्बहुमृगेऽरण्ये अटमाना महारथाः ।
काम्यके भरतश्रेष्ठा विजह्वुस्ते यथामराः ॥ ३.२६५.१ ॥
在那鹿群众多的森林中,巡游的大车战士,婆罗多族的俊杰们在迦密耶迦如天神般嬉游。
3.265.2
प्रेक्षमाणा बहुविधान्वनोद्देशान्समन्ततः ।
यथर्तुकालरम्याश्चवनराजीः सुषुष्पिताः ॥ ३.२६५.२ ॥
四面环顾森林的种种地域,以及依时令而美丽、盛开的树林行列。
3.265.3
पाण्डवा मृगयाशीलाश्चरन्तस्तन्महद्वनम् ।
विजह्नरिन्द्रप्रिमाः कंचित्कालमरिंदमाः ॥ ३.२६५.३ ॥
喜好狩猎的般度五子漫游于那大森林中,他们为因陀罗所爱,是降伏敌人者,嬉游了一段时间。
3.265.4
ततस्ते यौगपद्येन ययुः सर्वे चतुर्दिशम् ।
मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परतपाः ॥ ३.२६५.४ ॥
于是他们一同向四方出发,为一位婆罗门而去狩猎——他们是人中之虎,灼烧敌人者。
3.265.5
द्रौपदीमाश्रमे न्यस् तृणबिन्दोरनुज्ञया ।
महर्षेर्दीप्ततपसो घौम्यस्य च पुरोधसः ॥ ३.२६५.५ ॥
德罗波蒂在大仙人特里纳宾杜的许可下被安置于修道院中,此仙人苦行光芒炽盛,并有家庭祭司达乌米亚在场。
3.265.6
तस्तु राजा सिंधूनां वार्धक्षत्रिर्महायशाः ।
विवाहकामः साल्वेयान्प्रयातः सोऽभवत्तदा ॥ ३.२६५.६ ॥
然而,信度人之王、伍德克沙特拉之子、大名鼎鼎者,当时因欲求婚而前往萨尔瓦人之地。
3.265.7
महता परिबर्हेण राजयोग्येन संवृतः ।
राजभिर्बहुभिः सार्धमुपायात्काम्यकं च सः ॥ ३.२६५.७ ॥
他由与国王身份相称的庞大随从簇拥着,与众多国王一同来到了迦米耶迦森林。
3.265.8
तत्रापश्यत्प्रियां भार्यां पाण्डवानां यशस्विनीम् ।
तिष्ठन्तीमाश्रमद्वारि द्रौपदीं निर्जने वने ॥ ३.२६५.८ ॥
他在那里看见了班度之子们心爱而光荣的妻子德劳帕蒂,她站在荒僻森林中的修行处门口。
3.265.9
विभ्राजमानां वपुषा बिभ्रतीं रूपमुत्तमम् ।
भ्राजयन्तीं वनोद्देशं नीलाभ्रमिव विद्युतम् ॥ ३.२६५.९ ॥
身体光彩照人,容貌极为出众,照亮了林间的一片地方,如同蓝色云中的闪电。
3.265.10
अप्सरा देवकन्या वा माया वा देवनिर्मिता ।
इतिकृत्वाञ्जलिं सर्वे ददृशृस्तामनिन्दिताम् ॥ ३.२६५.१० ॥
他们心想:“她是天女、神之女,还是诸神所造的幻影?”于是都合掌向这位无瑕的美人望去。
3.265.11
तः स राजा सिन्धूनां वार्धक्षत्रिर्जयद्रथः ।
विस्मितस्त्वनवद्याङ्गीं दृष्ट्वा तां दुष्टमानसः ॥ ३.२६५.११ ॥
信度国之王、弗利德哈克沙特拉之子胜车,见到这位肢体无瑕的美人,惊愕不已,心生邪念。
3.265.12
स कोटिकाश्यं राजानमब्रवीत्काममोहितः ।
कस्य त्वेषाऽनवद्याङ्गी यदिवाऽपिन मानुषी ॥ ३.२६५.१२ ॥
他被欲望迷惑,对王者俱提迦希耶说:“这位肢体无瑕的女子是谁的?或许她根本不是人类吧?”
3.265.13
विवाहार्थो न मे कश्चिदिमां दृष्ट्वाऽतिमुन्दरीम् ।
एतामेवाहमादाय गमिष्यामि स्वमालयम् ॥ ३.२६५.१३ ॥
见到她如此极其美丽,我没有任何娶妻的念头。只带着她,我将回到自己的居所。
3.265.14
गच्छ जानीहि सौम्येमां कस्य वाऽत्र कुतोपि वा ।
किमर्थमागता सुभ्रूरिदं कष्टकितं वनम् ॥ ३.२६५.१४ ॥
好人,去打听一下她是谁家的,从何处或为何事来到此处。这位眉目秀美的女子为何来到这荆棘丛生的森林?
3.265.15
अपि नाम वरारोहा मामेषा लोकसुन्दरी ।
भजेदद्यायतापाङ्गी सुदती तनुमध्यमा ॥ ३.२६५.१५ ॥
也许这位臀部秀美、世间最美、眼睛细长、牙齿洁白、腰肢纤细的女子,今日会垂青于我。
3.265.16
अप्यहं कृतकामः स्यामिमां प्राप्य वरस्रियम् ।
गच्छजानीहि कोन्वस्या नाथ इत्येव कोटिक ॥ ३.२६५.१६ ॥
也许得到这位出色的女子,我便能满足我的愿望。去吧,科提迦,打听一下谁是她的保护者。
3.265.17
स कोटिकाश्यस्तच्छ्रुत्वा रथात्प्रस्कन्द्य कुण्डली ।
उपेत्यपप्रच्छ तदा क्रोष्टा व्याघ्रवधूमिव ॥ ३.२६५.१७ ॥
科提迦闻言,佩戴耳环,从车上跳下,走到她面前询问,犹如豺狼询问母虎一般。