摩诃婆罗多 · 章 3.267
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.267.1
अथाब्रवीद्द्रौपदी राजपुत्री ।
पृष्टा शिबीनां कप्रवरेण तेन।
अवेक्ष्य मन्दं प्रविमुच्य शाखां ।
संगृह्णती कौशिकमुत्तरीयम् ॥ ३.२६७.१ ॥
于是公主德罗波蒂回答了那位询问她的、诗毗人中最优秀者。她仔细看了看,慢慢松开树枝,收拢了她的丝质上衣。
3.267.2
बुद्ध्याऽभिजानामि नरेनद्रपुत्र ।
न मादृशी त्वामभिभाष्टुमर्हति।
न त्वेह वक्ताऽस्ति तवेह वाक्य-
मन्यो नरो वाऽप्यथवाऽपि नारी ॥ ३.२६७.२ ॥
我凭智慧认出你,王子。像我这样的女子不应与你交谈。这里说你话语的,并没有别的男人或女人。
3.267.3
एका ह्यहं संप्रति तेन वाचं ।
ददानि वै भद्र निबोध चेदम्।
अहं ह्यरण्येकथमेकमेका ।
त्वामालपेयं निरता स्वधर्मे ॥ ३.२६७.३ ॥
如今我独自向他许下诺言。善人啊,请听并明白。我独自在森林中,专心于自己的本分,与你一一交谈。
3.267.4
जानामि च त्वां सुरथस्य पुत्रं ।
यं कोटिकाश्येति विदुर्मनुष्याः।
तस्मादहं शैब्य तथैव तुभ्य-
माख्यामि बन्धून्प्रथितं कुलं च ॥ ३.२६७.४ ॥
我知道你是苏罗陀之子,人们称他为科提迦希耶。因此,诗婆啊,我也同样告诉你我的亲属和著名的家族。
3.267.5
अपत्यमस्मि द्रुपदस्य राज्ञः ।
कृष्णेति मां शैब्य विदुर्मनुष्याः।
साऽहं वृणे पञ्च जनान्पतित्वे ।
ये खाण्डवप्रस्थगताः श्रुतास्ते ॥ ३.२६७.५ ॥
我是德鲁帕达王的女儿;诗婆啊,人们以克利须那之名认识我。我选定五位男子为丈夫,据说他们已前往迦兰瓦普罗斯塔。
3.267.6
युधिष्ठिरो भीमसेनार्जुनौ च ।
माद्र्याश्च पुत्रौ पुरुषप्रवीरौ।
ते मां निवेश्यह दिशश्चतस्रो ।
विबज्य पार्था मृगयां प्रयाताः ॥ ३.२६७.६ ॥
坚战、怖军、阿周那和摩晋妮的两位杰出之子,将我安置在此,划分了四个方位后,普利塔之子们出去狩猎了。
3.267.7
प्राचीं राजा दक्षिणां भीमसेनो ।
जयः प्रतीचीं यमजावुदीचीम्।
मन्ये तु तेषां रथसत्तमानां ।
कालो बहुः प्राप्ता इहोपयातुम् ॥ ३.२६७.७ ॥
国王(坚战)去了东方,怖军去了南方,胜者(阿周那)去了西方,阎摩的两个儿子去了北方。我想,那些最杰出的车手返回这里的时间已经过去很久了。
3.267.8
संमानिता यास्यथ तैर्यथेष्टं ।
विमुच्य वाहानवरोहयध्वम्।
प्रियातिथिर्धर्मसुतो महात्मा ।
प्रीतो भविष्यत्यभिवीक्ष्य युप्मान् ॥ ३.२६७.८ ॥
受到他们的尊敬后,你们可以前往任何你们想去的地方。卸下马匹,下车吧。法之子、大度的坚战见到你们这些亲爱的客人,必定欢喜。
3.267.9
एतावदुक्त्वा द्रुपदात्मजा सा ।
शैव्यात्मजं चन्द्रसुखी प्रतीता।
विवेश तां पर्णशालां प्रशस्तां ।
संचिन्त्य तेषामतिथिस्वधर्मम् ॥ ३.२६७.९ ॥
说完这些,德鲁帕达之女,月脸的她,望着室毗耶之子,走进那座精美的叶屋,心中思量着接待宾客是她的本分。