摩诃婆罗多 · 章 3.268
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.268.1
तथाऽऽसीनेषु सर्वेषु तेषु राजसु भारत ।
कोटिकाश्यो जगामाशु सिन्धुराजनिवेशनम् ॥ ३.२६८.१ ॥
婆罗多啊,当诸王如此坐着时,科提迦希亚迅速前往信度王的住所。
3.268.2
यदुक्तं कृष्णया सार्धं तत्सर्वं प्रत्यवेदयत् ।
कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरकोऽब्रवीत् ॥ ३.२६८.२ ॥
他将与黑公主一同所说的一切都回报了。科提迦希亚的话被听到后,萨维拉卡对沙伊比亚说道。
3.268.3
यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः ।
सीमन्तिनीनां सुख्यायां विनिवृत्तः कथं भवान् ॥ ३.२६८.३ ॥
当她说话时,我的心为她而欢喜。女人中的喜乐啊,你怎么会转身离去?
3.268.4
एतां दृष्ट्वा स्त्रियो मेऽन्या यथा शाखामृगस्त्रियः ।
प्रतिभान्ति महाबाहो सत्यमेतद्ब्रवीमि ते ॥ ३.२६८.४ ॥
看到她之后,我其他的女人在我看来就像母猴。大臂者啊,我对你说的是真话。
3.268.5
दर्शनादेव हि मनस्तया मेऽपहृतं भृशम् ।
तां समाचक्ष्व कल्याणीं यदि स्याच्छैब्य मानुषी ॥ ३.२६८.५ ॥
仅仅一见,我的心就被她大大夺走了。希巴,若她是人类,请告诉我那位吉祥的女子的事。
3.268.6
एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी ।
पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम् ॥ ३.२६८.६ ॥
这确实是德罗波蒂,黑公主,那位显赫的公主,作为般度五子的正妃而备受尊敬。
3.268.7
सर्वेषां चैव पार्थानां प्रिया बहुमता सती ।
तया समेत्य सौवीर सौवीराभिमुखो व्रज ॥ ३.२६८.७ ॥
她是所有般度之子所爱戴、备受尊敬的贞洁女子。哦,索维罗,与她相见之后,向索维罗方向前行吧。
3.268.8
एवमुक्तः प्रत्युवाच पश्यामि द्रौपदीमिति ।
पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः ॥ ३.२६८.८ ॥
被如此吩咐后,索维罗与信度之主、心怀恶念的贤车答道:“我要去见德罗波蒂。”
3.268.9
स प्रविश्याश्रमं पुण्यं सिंहगोष्ठं वृको यथा ।
आत्मना सप्तमः कृष्णामिदं वचनमब्रवीत् ॥ ३.२६८.९ ॥
他走进神圣的修行处,如狼入狮窟,与自己同伴共七人,对黑公主说了这番话。
3.268.10
कुशलं ते वरारोहे भर्तारस्तेऽप्यनामयाः ।
येषां कुशलकामासि तेऽपिकच्चिदनामयाः ॥ ३.२६८.१० ॥
愿你安好,美腰的女子。你的丈夫们也安好吗?你所祝福的那些人,我希望他们也安好吗?
3.268.11
अपि ते कुशलं राजन्राष्ट्रे कोशे बले तथा ।
कच्चिदेकः शिबीनाढ्यान्सौवीरान्सह सिन्धुभिः।
अनुतिष्ठसि धर्मेण ये चान्ये विदितास्त्वया ॥ ३.२६८.११ ॥
国王啊,你的国家、府库与军队是否安好?你是否独自以法治理着湿毗人、富裕的索维罗人与信度人,以及你所知的其他人?
3.268.12
कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः ।
अहं च भ्रातरश्चास्य यांश्चान्यान्परिपृच्छसि ॥ ३.२६८.१२ ॥
般度王中的独子,俱卢族的国王,昆蒂之子坚战安好。我和他的兄弟们也安好,你所问及的其他人也都安好。
3.268.13
पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज ।
मृगान्विता मृगीश्चैव प्रातराशं ददानि ते ॥ ३.२६८.१३ ॥
王子啊,请接受这洗足水和这座位。我将以鹿肉和母鹿肉为你备下晨食。
3.268.14
ऐणेयान्पृषतान्न्यङ्कून्हरिणाञ्शरभाञ्शशान् ।
ऋक्षाव्रुरूञ्शम्बरांश्च गवयांश्च मृगान्बहून् ॥ ३.२६८.१४ ॥
鹿:艾奈耶羚羊、斑点鹿、黑羚羊、鹿、沙罗婆鹿、野兔、熊、卢卢鹿、尚婆罗鹿、牛羚,以及许多其他猎物。
3.268.15
वराहामहिषांश्चैव याश्चान्या मृगजातयः ।
प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्टिरः ॥ ३.२६८.१५ ॥
野猪、水牛以及其他各类猎物,贡蒂之子坚战将亲自赠予你。
3.268.16
कुशलं प्रातराशस्य सर्वं मे दित्सितं त्वया ।
एहि मे रथमारोह सुखमाप्नुहि केवलम् ॥ ३.२६८.१६ ॥
你愿意把早餐的一切安好都给我。来吧,登上我的战车,只享受安乐。
3.268.17
गतश्रीकान्हृतराज्यान्कृपणान्गतचेतसः ।
अरण्यवासिनः पार्थान्नानुरोद्धुं त्वमर्हसि ॥ ३.२६८.१७ ॥
你不应当追随那些失去光辉与王国、可怜而心神迷乱、住在森林中的般度之子。
3.268.18
नैव प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते ।
युञ्जानमनुयुञ्जीत न शरियः संक्षये वसेत् ॥ ३.२६८.१८ ॥
智者不侍奉失去光辉的丈夫。应当追随正在努力的人;不要停留在财富衰败之处。
3.268.19
श्रिया विहीना राष्ट्राच्च विनष्टाः शाश्वतीः समाः ।
अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम् ॥ ३.२६८.१९ ॥
失去吉运、被逐出王国的你,将在永久的岁月中毁灭。为了对般度之子的忠诚而忍受苦难,对你已经足够。
3.268.20
भार्या मे भव सुश्रोणि त्यजैनान्मुखमाप्नुहि ।
अखिलान्सिन्धुसौवीरानाप्नुहि त्वं मया सह ॥ ३.२६८.२० ॥
美臀的女子啊,做我的妻子吧。舍弃他们,转过脸来。与我在一起,你将得到整个信度和苏维罗。
3.268.21
इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम् ।
कृष्णा तस्मादपाक्रामद्देशात्सभ्रुकुटीमुखी ॥ ३.२६८.२१ ॥
信度王以令人心颤的言语如此相对,黑天女(克里希纳)蹙眉怒面,从那地方离去。
3.268.22
अवमत्यास्य तद्वांक्यमाक्षिप्य च सुमध्यमा ।
मैवमित्यब्रवीत्कृष्णा लज्जस्वेति च सैन्धवम् ॥ ३.२६८.२२ ॥
黑天女(克里希纳)轻视他的话并加以斥责,纤腰的她说:“不要这样说”,又对信度人说:“羞愧吧。”
3.268.23
सा काङ्क्षमाणा भर्तृणामुपयातमनिन्दिता ।
विलम्बयामास परं वाक्यैर्वाक्यानि युञ्जती ॥ ३.२६८.२३ ॥
无可指摘的她渴望夫君,以言语拖延那靠近的人,话语相连,将时间耽搁。
3.268.24
नैवं वद महाबाहो न्याय्यं त्वं न च मन्यसे ।
पाण्डूनां धार्तराष्ट्राणां स्वसा चैव कनीयसी ॥ ३.२६८.२४ ॥
大臂者啊,不要这样说。你不认为这不公正吗?她不是般度之子与持国之子的幼妹吗?
3.268.25
दुश्शला नाम तस्यास्त्वं भर्ता राजकुलोद्वह ।
मम भ्राता च न्याय्येन त्वया रक्ष्या महारथ ॥ ३.२६८.२५ ॥
她名叫杜尸罗,你是她的丈夫,王族的支柱。我的兄弟也应当由你依法保护,大车勇士。
3.268.26
धर्मिष्ठानां कुले जातो न धर्मं त्वमवेक्षसे ।
इत्युक्तः सिन्धुराजोथ वाक्यमुत्तरमब्रवीत् ॥ ३.२६८.२६ ॥
你出身于最正直的家族,却不顾法度。信度王这样被诘责后,便回答说了这些话。
3.268.27
राज्ञां धर्मं न जानीषे स्त्रियो रत्नानि चैव हि ।
साधारणानि लोकेऽस्मिन्प्रवदन्ति मनीषिणः ॥ ३.२६८.२७ ॥
你不懂君王的法度。智者说,女人与珍宝,在这世上是共有之物。
3.268.28
स्वसा च स्वस्रिया चैव भ्रातृभार्या तथैव च ।
सुखं गृह्णन्ति राजानस्ताश्च तत्र नृपोद्भवाः ॥ ३.२६८.२८ ॥
姐妹、姐妹之女,以及兄弟之妻,君王也都欣然接纳;那里出身王族的女子也同样如此。