Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.27

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.27.1

ततो वनगताः पार्थाः सायाह्ने सह कृष्णया ।
उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः ॥ ३.२७.१ ॥

于是,前往森林的般度诸子在傍晚与黑公主一同坐下,沉浸于悲痛与忧伤之中,开始交谈。

3.27.2

प्रिया च दर्शनीया च पण्डिता च पतिव्रता ।
अथ कृष्णा धर्मराजमिदं वचनमब्रवीत् ॥ ३.२७.२ ॥

于是,可爱、美丽、有学识且忠于丈夫的黑公主对法王说了这番话。

3.27.3

न नूनं तस्य पापस्य दुःखमस्मासु किंचन ।
विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः ॥ ३.२७.३ ॥

那罪恶、残忍、心怀恶念的持国之子,对我们毫无痛苦之感。

3.27.4

यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम् ।
वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः ॥ ३.२७.४ ॥

大王啊,那个心怀恶念、用鹿皮使你与我一同被驱往森林的恶人,竟丝毫没有懊悔。

3.27.5

आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः ।
यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा।
वचनान्यपरोक्षाणि दुर्वाच्यानि च संसदि ॥ ३.२७.५ ॥

那作恶之人的心一定是铁石做的,竟在大众之中,让你这位最崇尚法道的贤者,亲耳听到那些严厉而不堪入耳的话语。

3.27.6

सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गणः ।
ईदृशं दुःखमानीय मोदते पापपूरुषः ॥ ३.२७.६ ॥

你本应享受幸福,不应遭受痛苦,那心怀恶念的罪人却将这般苦难加于你身,与他的朋友们一同欢欣。

3.27.7

चतुर्णामेव पापानामस्रं न पतितं तदा ।
त्वयि भारत निष्क्रान्ते वनायाजिनवाससि ॥ ३.२७.७ ॥

婆罗多啊,你身披鹿皮前往森林时,那四个恶人的眼泪一滴也没有落下。

3.27.8

दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः ।
दुर्भ्रातुस्तस्य चोग्रस्य राजन्दुःखशासनस्य च ॥ ३.२७.८ ॥

国王啊,为难敌、迦尔纳、恶心的沙恭尼、他那恶劣的兄弟难降,还有那残暴之人。

3.27.9

इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम ।
दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम् ॥ ३.२७.९ ॥

然而,库鲁之最啊,其余所有库鲁人被悲痛所笼罩,眼中流下了泪水。

3.27.10

इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम् ।
शोचामित्वां महाराजदुःखानर्हंसुखोचितम् ॥ ३.२७.१० ॥

看到这张床,以及你从前那张床,大王啊,我为你悲伤,你本不该承受痛苦,而是应当享受幸福。

3.27.11

दान्तं यच्च सभामध्य आसनं रत्नभूषितम् ।
दृष्ट्वा कुशबृशीं चेमां शोको मां दारयत्ययम् ॥ ३.२७.११ ॥

看到议会厅中央那镶嵌宝石的象牙宝座,以及这张吉祥草席,这悲痛撕裂着我。

3.27.12

यदपश्यं सभायां त्वां राजभिः परिवारितम् ।
तच्च राजन्नपश्यन्त्याः का सान्तिर्हृदयस्यमे ॥ ३.२७.१२ ॥

我曾在会堂中看见你被诸王簇拥,大王啊,如今不再见到那景象,我的心还有什么安慰呢?

3.27.13

या त्वाऽह्रं चन्दनादिग्धमपश्यं सूर्यवर्चसम् ।
सा त्वां पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत ॥ ३.२७.१३ ॥

我曾见你涂着檀香、光彩如日,如今见你满身泥垢,我心神迷乱,婆罗多之子啊。

3.27.14

या त्वाऽहं कौशिकैर्वस्त्रैः शुभ्रैराच्छादितं पुरा ।
दृष्टवत्यस्मिराजेनद्र साऽद्य पश्यामि चीरिणम् ॥ ३.२७.१४ ॥

我曾见你身着丝绸和洁白的衣裳,王中之王啊;今日我却见你身披树皮衣。

3.27.15

यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः ।
ह्रियते ते गृहादन्नं संस्कृतंसार्वकामिकम् ॥ ३.२७.१५ ॥

还有,从你家中用金器盛装,成千上万地送给婆罗门的那些能满足一切所愿的精美食物。

3.27.16

यतीनामगृहाणां ते तथैव गृहमेधिनाम् ।
दीयते भोजनं राजन्नतीव गुणवत्प्रभो ॥ ३.२७.१६ ॥

你家中同样也将极好的食物供给苦行者、无家之人以及居家者,王啊,主啊。

3.27.17

सत्कृतानि सहस्राणि सर्वकामैः पुरा गृहे ।
सर्वकामैः सुविहितैर्यदपूजयथा द्विजान्।
तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे ॥ ३.२७.१७ ॥

从前在你家中,成千上万的再生者受到敬重,一切所需都被妥善备齐,你以一切所愿来礼敬他们。王啊,我的心如今见不到这一切,还有什么安宁可言?

3.27.18

यत्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः ।
अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः ॥ ३.२७.१८ ॥

大王啊,你的兄弟们曾由佩戴光亮耳环的年轻厨师,以极其精心烹制的美味佳肴来款待。

3.27.19

सर्वांस्तानद्य पश्यामि वने वन्येन जीविनः ।
अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः ॥ ३.२७.१९ ॥

人主啊,今日我见他们都在林中以野食为生,而他们本不应受苦;我的心却仍不能平静。

3.27.20

भीमसेनमिमं चापि दुःखितं वनवासिनम् ।
ध्यायतः किं न मन्युस्ते प्राप्ते काले विवर्धते ॥ ३.२७.२० ॥

你思念着同样忧伤、住在林中的毗摩色那,为何当时机到来时,你的愤怒却不增长?

3.27.21

भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युतम् ।
सुखार्हं दुःखितं दृष्ट्वा कस्माद्राजन्नुपेक्षसे ॥ ३.२७.२१ ॥

大王啊,毗摩色那亲自行事,坚定不移,本应享有安乐,见他忧伤,你为何视而不见?

3.27.22

सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा ।
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ ३.२७.२२ ॥

他曾受各种车乘与高低不同的衣物所尊崇,如今见他已入林中,你的愤怒为何不增长?

3.27.23

अयं कुरून्रणे सर्वान्हन्तुमुत्सहते प्रभुः ।
त्वत्प्रतिज्ञां प्रतीक्षंस्तु सहतेऽयं वृकोदरः ॥ ३.२७.२३ ॥

这位威猛的毗摩在战场上渴望杀尽诸俱卢;然而他等待你的誓约,故狼腹忍受着。

3.27.24

योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना ।
शरातिसर्गे शीघ्रत्वात्कालान्तकयमोपमः ॥ ३.२७.२४ ॥

他与阿周那相等,虽为双臂,却如多臂者;以放箭之迅捷,如时间之终结者阎摩。

3.27.25

यस् शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः ।
यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे ॥ ३.२७.२५ ॥

伟大的国王啊,凭借他的武力,所有国王都俯首称臣;在你的祭祀中,婆罗门侍奉着他。

3.27.26

तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः ।
ध्यायन्तमर्जुनं दृष्ट्वा कस्माद्राजन्न कुप्यसि ॥ ३.२७.२६ ॥

看到这位在人中如虎的阿周那,受天神与阿修罗敬重,却沉思不语,国王啊,你为何不愤怒?

3.27.27

दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम् ।
न च तेवर्धते मन्युस्तेन मुह्यामि भारत ॥ ३.२७.२७ ॥

看见般度之子(阿周那)入林,他本不应受苦,而应享福,你的愤怒却不增长;因此我感到困惑,婆罗多啊。

3.27.28

यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत् ।
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ ३.२७.२८ ॥

他独自乘一车便征服了天神、人类和蛇族,看见他入林,你的愤怒为何不增长?

3.27.29

यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः ।
प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परंतप ॥ ३.२७.२९ ॥

他被奇妙形态的车驾、马匹与象队所环绕,从诸王那里强行夺取了财富,啊,克敌者。

3.27.30

क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः ।
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ ३.२७.३० ॥

他一次迅猛发射便能射出五百支箭,看见他入林,你的愤怒为何不增长?

3.27.31

श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे ।
नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ ३.२७.३१ ॥

你看到在林中的那位黑色、高大、年轻、在战场上最优秀的持盾者——那先(Nakula),为何你的愤怒不增长?

3.27.32

दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर ।
सहदेवं वने दृष्ट्वा कस्मात्क्षमसि पार्थिव ॥ ३.२७.३२ ॥

坚战啊,你看到在林中的摩德里之子、俊美而英勇的偕天(Sahadeva),为何还忍耐,国王啊?

3.27.33

नकुलं सहदेवं च दृष्ट्वा ते दुःखितावुभौ ।
अदुःखार्हौ मनुष्येन्द्र कस्मान्मन्युर्न वर्धते ॥ ३.२७.३३ ॥

人主啊,你看到无应受苦的那先与偕天二人都在悲伤,为何你的愤怒不增长?

3.27.34

द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः ।
धृष्टद्युम्नस्य भगिनीं वीरपत्नीमनुव्रताम्।
मां वै वनगतां दृष्ट्वा कस्मात्क्षमसि पार्थिव ॥ ३.२७.३४ ॥

我生于德鲁帕达之族,是大士般度之媳,猛光之妹,英雄之妻,且一心顺从你,见我走入森林,国王啊,你为何忍耐?

3.27.35

नूनं च तव नैवास्ति मन्युर्भरतसत्तम ।
यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा नव्यथते मनः ॥ ३.२७.३५ ॥

婆罗多族中最优秀的人啊,你确实没有愤怒,因为见到兄弟们和我,你的心也不痛苦。

3.27.36

न निर्मन्युःक्षत्रियोऽस्ति लोके निर्वचनं स्मृतम् ।
तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत् ॥ ३.२७.३६ ॥

经中所定之义是:世上没有无愤怒的刹帝利;然而今天,我在你这位刹帝利身上看到的却与之相反。

3.27.37

यो न दर्शयते तेजः क्षत्रियः काल आगते ।
सर्वभूतानि तं पार्थ सदा परिभवन्त्युत ॥ ३.२७.३७ ॥

当时机来临时不显示其威能的刹帝利,帕尔特ha啊,一切众生都始终轻视他。

3.27.38

तत्त्वया न क्षमा कार्या शत्रून्प्रति कथंचन ।
तेजसैव हि ते शक्या निहन्तुं नात्र संशयः ॥ ३.२७.३८ ॥

因此你绝不可对敌人有任何宽恕;唯有凭借你的威能才能将他们杀死——对此毫无疑问。

3.27.39

तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति ।
अप्रियः सर्वभूतानां सोमुत्रेह च नश्यति ॥ ३.२७.३९ ॥

同样,在应当宽恕的时候不能平静下来的刹帝利,会被一切众生所厌恶,今生来世都将毁灭。