摩诃婆罗多 · 章 3.274
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.274.1
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् ।
अत ऊर्द्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ॥ ३.२७४.१ ॥
克里希那被劫走、遭受极大苦难之后,那些人中之虎般的般度五子又做了什么?
3.274.2
एवं कृष्णां मोक्षयित्वाविनिर्जित्य जयद्रथम् ।
आसांचक्रे मुनिगणैर्धर्मराजो युधिष्टिरः ॥ ३.२७४.२ ॥
如此救回克里希那并彻底击败胜车之后,法王坚战与众仙人一同坐下。
3.274.3
तेषां मध्येमहर्षीणां शृण्वतामनुशोचताम् ।
मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः ॥ ३.२७४.३ ॥
在那些倾听并悲伤的大仙人中间,般度之子对摩根德耶说了这番话。
3.274.4
भगवन्देवर्षीणां त्वं ख्यातो भूतभविष्यवित् ।
संशयं परिपृच्छमि च्छिन्धि मे हृदि संस्थितम् ॥ ३.२७४.४ ॥
尊者,您在天仙之中以通晓过去与未来而闻名。我有一个疑问要请教;请解除我心中的疑惑。
3.274.5
द्रुपदस्य सुता ह्येषा वेदिमध्यात्समुत्थिता ।
अयोनिजा महाभागास्नुषा पाण्डोर्महात्मनः ॥ ३.२७४.५ ॥
此女是德鲁帕达之女,生于祭坛中央,非胎生,极为有福,是大力者般度的儿媳。
3.274.6
मन्ये कालश्च भगवान्दैवं च दुरतिक्रमम् ।
भवितव्यं च भूतानां यस् नास्ति व्यतिक्रमः ॥ ३.२७४.६ ॥
我认为时间是尊贵的,命运难以逾越;众生注定要发生的事,没有能够违背的。
3.274.7
कथं हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम् ।
संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम् ॥ ३.२७४.७ ॥
我们那位知法、行法的妻子,怎会被这样的念头触及?正如盗窃与虚妄触及清净之人。
3.274.8
न हि पापं कृतंकिंचित्कर्म वा निन्दितं क्वचित् ।
द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान् ॥ ३.२७४.८ ॥
德罗波蒂从未做过任何罪过或可责之事;她对婆罗门恪守了伟大的法。
3.274.9
तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः ।
तस्याः संहरणात्पापः शिरसः केशवापनम् ॥ ३.२७४.९ ॥
愚昧的国王胜车以武力劫走了她;因这劫掠之罪,那罪人被迫剃去了头发。
3.274.10
पराजयं च संग्रामे ससहाः समाप्तवान् ।
प्रत्याहृता तथाऽस्माभिर्हत्वा तत्सैन्धवं बलम् ॥ ३.२७४.१० ॥
在战斗中,他与其随从一同惨败;而我们杀尽那支信度军队,将她夺了回来。
3.274.11
तद्दारहरणं प्राप्तमस्माभिरवितर्कितम् ।
दुःखश्चायं वने वासो मृगयायां च जीविका ॥ ३.२७४.११ ॥
妻子被劫之事出乎意料地降临到我们身上;而这林中的居住与以狩猎为生,也是痛苦的。
3.274.12
हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम् ।
ज्ञातिभिर्विप्रवासश्च मिथ्याव्यवसितैरियम् ॥ ३.२७४.१२ ॥
林中居民杀害各类鹿群;而这流放,是由那些依据虚妄决定行事的族亲所造成的。
3.274.13
अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः ।
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा क्वचित् ॥ ३.२७४.१३ ॥
我是否曾见过或听说过某个比任何人都更不幸的人?您是否也曾见过或听说过这样的人?