摩诃婆罗多 · 章 3.276
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.276.1
पुलस्त्यस् तु यः क्रोधादर्धदेहोऽभवन्मुनिः ।
विश्रवानाम सक्रोधं पितरं राक्षसेश्वरः। ॥ ३.२७६.१ ॥
因愤怒而成为半身之体的仙人补罗斯底,其子名为毗首罗婆,他怀着怒气对待父亲,后来成为罗刹之主。
3.276.2
बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः ।
कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप ॥ ३.२७६.२ ॥
罗刹之主察觉父亲怀怒;国王啊,俱毗罗始终努力求得父亲的恩宠。
3.276.3
स राजराजो लङ्कायां न्यवसन्नरवाहनः ।
राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः ॥ ३.२७६.३ ॥
诸王之王居于楞伽城,乘人而行者;他赠予父亲三名罗刹侍女。
3.276.4
ताः सदा तं महात्मानं संतोषयितुमुद्यताः ।
ऋषिं भरतशार्दूल नृत्यगीतविशारदाः ॥ ३.२७६.४ ॥
她们总是乐于取悦那位大德仙人,婆罗多中的猛虎啊——她们精通舞蹈与歌唱。
3.276.5
पुष्पोत्कटा च राका च मालिनी च विशांपते ।
अन्योन्यस्पर्धयाराजञ्श्रेयस्कामाः सुमध्यमाः ॥ ३.२७६.५ ॥
花高、罗迦与摩利尼——众生之主啊!国王,她们腰身纤细,彼此竞争,心怀求福之愿。
3.276.6
स तासां भगवांस्तुष्टो महात्मा प्रददौ वरान् ।
लोकपालोपमान्पुत्रानकैकस्या यथेप्सितान् ॥ ३.२७६.६ ॥
那位世尊、大德对她们心生欢喜,赐予恩惠:如她们所愿,给予如世界护持者一般的儿子,也为迦迦西之子。
3.276.7
पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ ।
कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि ॥ ३.२७६.७ ॥
普什波特卡塔生下两个儿子,皆为罗刹之主:鸠婆羯罗那与十首王,在大地上力量无与伦比。
3.276.8
मालिन जनयामास पुत्रमेकं विभीषणम् ।
राकार्या मिथुनं जज्ञे खरः शूर्पणखा तथा ॥ ३.२७६.८ ॥
摩利尼生一子毗婆沙那;罗迦生一对双生子,祭罗与首波那迦。
3.276.9
विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत् ।
स बभूव महाभागो धर्मगोप्ता क्रियारतिः ॥ ३.२७६.९ ॥
毗婆沙那在容貌上超过一切;他大有福德,是法的守护者,乐于行祭仪。
3.276.10
दशग्रीवस्तु सर्वेषां श्रेष्ठो राक्षसपुङ्गवः ।
महोत्साहो महावीर्यो महासत्वपराक्रमः ॥ ३.२७६.१० ॥
十首王在众中最为卓越,是罗刹中的雄牛;有大勇气、大威力、大力量与大功勋。
3.276.11
कुम्भकर्णओ बलेनासीत्सर्वेभ्योऽभ्यधिको युधि ।
मायावी रणशौण्डश्चरौद्रश्च रजनीचरः ॥ ३.२७६.११ ॥
鸠婆羯罗那在战场上力量超过一切;他精于幻术,善战自负,凶猛,夜行于世。
3.276.12
खरो धनुषि विक्रान्तो ब्रह्मद्विट् पिशिताशनः ।
सिद्धविघ्नकरी चापि रौद्री शूर्पणखा तदा ॥ ३.२७६.१२ ॥
祭罗精于射术,仇视婆罗门,食肉;而首波那迦当时也凶猛,妨碍成就者的修行。
3.276.13
सर्वे वेदविदः शूराः सर्वेसुचरितव्रताः ।
ऊषुः पित्रा सह रता गन्धमादनपर्वते ॥ ३.२७६.१३ ॥
他们都是通晓吠陀的英雄,善守良好品行的誓愿,与父亲一同快乐地居住在乾陀摩陀那山上。
3.276.14
ततो वैश्रवणं तत्र ददृशुर्नरवाहनम् ।
पित्रा सार्धं समासीनमृद्ध्या परमया युतम् ॥ ३.२७६.१४ ॥
他们在那里看见了以人为乘骑的毘沙门(俱毗罗),与父亲一同坐着,具足至上的富贵。
3.276.15
जातामर्षास्ततस्ते तु तपसे धृतनिश्चयाः ।
ब्रह्माणं तोषयामासुर्घोरेण तपसा तदा ॥ ३.२७६.१५ ॥
于是,他们满怀愤恨,坚定地决心修苦行,以猛烈的苦行使梵天欢喜。
3.276.16
अतिष्ठदेकपादेन सहस्रं परिवत्सरान् ।
वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः ॥ ३.२७६.१६ ॥
十首罗刹(罗波那)以风为食,置身五火之中,心神专一,单足而立,历时千年。
3.276.17
अधःशायी कुम्भकर्णो यताहारो यतव्रतः ।
विभीषणः शीर्णपर्णमेकमभ्यवहारयन् ॥ ३.२७६.१७ ॥
睡在地上的鸠槃荼,饮食节制,持戒守誓;毗缚史那则只吃一片枯叶。
3.276.18
उपवासरतिर्धीमान्सदा जप्यपरायणः ।
तमेव कालमातिष्ठत्तीव्रं तप उदारधीः ॥ ३.२७६.१८ ॥
那位有智慧、心地宽厚的人,喜好斋戒,常专注于持诵,便在同样的时间里持续修行那猛烈的苦行。
3.276.19
स्वरः शूर्पणखा चैव तेषां वै तप्यतां तपः ।
परिचर्यां च रक्षां च चक्रतुर्हष्टमानसौ ॥ ३.२७६.१९ ॥
娑罗与首波那迦以欢喜之心,为那些修苦行者服侍与守护。
3.276.20
पूर्णे वर्षसहस्रेतु शिरश्छित्त्वा दशाननः ।
जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः ॥ ३.२७६.२० ॥
满千年时,十首者斩下自己的头,投入火中作供;владыка世界因此欢喜。
3.276.21
ततो ब्रह्मा स्वयं गत्वा तपसस्तान्न्यवारयत् ।
प्रलोभ्यवरदानेन सर्वानेवपृथक्पृथक् ॥ ३.२७६.२१ ॥
于是梵天亲自前往,阻止他们修苦行,以赐予恩惠逐一诱导他们。
3.276.22
प्रीतोऽस्मि वो निवर्तध्वं वरान्वृणुत पुत्रकाः ।
यद्यदिष्टमृते त्वेकममरत्वं तथाऽस्तु तत् ॥ ३.२७६.२२ ॥
我对你们感到欢喜;回去吧,孩子们,请选择恩惠。凡你们所愿,除一件事——不死——便如此吧。
3.276.23
यद्यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया ।
तथैव तानि ते देहे भविष्यन्ति यथेप्सया ॥ ३.२७६.२३ ॥
凡投入火中的一切,以及你伟大的头颅,依你的心愿——这一切都将如你所愿地回到你的身体中。
3.276.24
वैरूप्यं च न ते देहे कामरूपधरस्तथा ।
भविष्यसि रणेऽरीणां विजेता न च संशयः ॥ ३.२७६.२४ ॥
你的身体不会有丑陋,你能随意变化形相;你将在战场上战胜敌人,此事毫无疑问。
3.276.25
गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा ।
सर्पकिंनरभूतेभ्यो न मे भूयात्पराभवः ॥ ३.२७६.२५ ॥
愿我不败于乾闼婆、天神与阿修罗,不败于夜叉与罗刹,也不败于蛇、紧那罗与诸鬼神。
3.276.26
य एते कीर्तिताः सर्वे न तेभ्योस्ति भयं रतव ।
ऋते मनुष्याद्भद्रं ते तथा तद्विहितं मया ॥ ३.२७६.२६ ॥
凡被提及者,你都无所畏惧,唯独人类除外。愿你吉祥;我已如此规定。
3.276.27
एवमुक्तो दशग्रीवस्तुष्टः समभवत्तदा ।
अवमेने हि दुर्बुद्धिर्मनुष्यान्पुरुषादकः ॥ ३.२७६.२७ ॥
十首罗刹被如此告知后,当时便心满意足。那恶意的食人者竟轻视人类。
3.276.28
कुम्भकर्णमथोवाच तथैव प्रपितामहः ।
वरं वृणीष्व भद्रं ते प्रीतोस्मीति पुनःपुनः।
स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः ॥ ३.२७६.२८ ॥
随后祖父同样对鸠摩迦尔纳反复说道:“愿你吉祥,请择一恩典,我已欢喜。”他心神被暗昧所缠,便求了长久的大睡眠。
3.276.29
तथाभविष्यतीत्युक्त्वा विभीषणमुवाच ह ।
वरं वृणीष्व पुत्र त्वं प्रीतोऽस्मीति पुनःपुनः ॥ ३.२७६.२९ ॥
他说“就这样吧”,然后对毗భीषण反复说道:“孩子,请择一恩典,我已欢喜。”
3.276.30
परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत् ।
अशिक्षितं च भगवन्ब्रह्मास्त्रं प्रतिभातु मे ॥ ३.२७६.३० ॥
即便陷入极大的困境,愿我的心也不趋向不法。另外,尊者啊,愿我未曾学过的梵天神箭能显现于我。
3.276.31
यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्शन ।
नाधर्मे धीयते बुद्धिरमरत्वं ददानि ते ॥ ३.२७६.३१ ॥
摧敌者啊!因你生于罗刹之胎,你的心不会执着于非法;我赐予你不死。
3.276.32
राक्षसस्तु वरंलब्ध्वा दशग्रीवो विशांपते ।
लङ्कायाश्च्यावयामास युधि जित्वा धनेश्वरम् ॥ ३.२७६.३२ ॥
人主啊!那十首罗刹获得恩赐,在战中击败财神,将他逐出楞伽城。
3.276.33
हित्वास भगवाँल्लङ्कामाविशद्गन्धमादनम् ।
गन्धर्वयक्षानुगतो रक्षःकिंपुरुषैः सह ॥ ३.२७६.३३ ॥
那位世尊离开楞伽,与乾闼婆、夜叉、罗刹及紧那罗一同进入乾陀摩陀那山。
3.276.34
विमानं पुष्पकं तस्य जहाराक्रम्य रावणः ।
शशाप तं वैश्रवणो न त्वामेतद्वहिष्यति ॥ ३.२७६.३४ ॥
罗波那强行夺取了他的飞车普什帕卡;毗首罗诅咒他说:“此车不会载你。”
3.276.35
यस्तु त्वां समरे हन्ता तमेवैतद्वहिष्यति ।
अवमत्य गुरुं मां च क्षिप्रं त्वंनभविष्यसि ॥ ३.२७६.३५ ॥
在战中杀你的人才会乘它;你轻视师长与我,很快就会消亡。
3.276.36
विभीषणस्तु धर्मात्मा सतां मार्गमनुस्मरन् ।
अन्वगच्छन्महाराज श्रिया परमया युतः ॥ ३.२७६.३६ ॥
然而心怀正法的毗毗沙那,念及善人之道,怀着至高的光荣,跟随他而去,大王啊。
3.276.37
तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः ।
सैनापत्यं ददौ धीमान्यक्षराक्षससेनयोः ॥ ३.२७६.३७ ॥
财神世尊对他十分满意,把统领夜叉与罗刹军队的统帅之权授予了他的兄弟,那位智者。
3.276.38
राक्षसाः पुरुषादाश्च पिशाचाश्च महाबलाः ।
सर्वे समेत्य राजानमभ्यषिञ्चन्दशाननम् ॥ ३.२७६.३८ ॥
罗刹、食人者与毕舍遮,皆大力者,齐聚一堂,为这位十首之王行灌顶之礼,立他为王。
3.276.39
दशग्रीवश्चदैत्यानां दानवानां बलोत्कटः ।
आक्रम्य रत्नान्यहरत्कामरूपी विहंगम ॥ ३.२७६.३९ ॥
十首罗刹在提迭与檀那婆中力量最强,他突袭夺取了宝物;他能随意变化形貌,哦,鸟儿。
3.276.40
रावयामास लोकान्यत्तस्माद्रावण उच्यते ।
दशग्रीवः कामबलो देवानां भयमादधत् ॥ ३.२७६.४० ॥
因为他使世界哀号,故被称为罗波那。十颈者、意愿之力者,使诸天生起恐惧。