摩诃婆罗多 · 章 3.278
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.278.1
उक्तं भगवता जन्म रामादीनां पृथक्पृथक् ।
प्रस्थानकारणं ब्रह्मञ्श्रोतुमिच्छामि कथ्यताम् ॥ ३.२७८.१ ॥
尊者已逐一讲述了罗摩等人的出生。婆罗门啊,我愿听闻他们出发的原因,请讲述。
3.278.2
कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ ।
प्रस्तापितौ वने ब्रह्मन्मैथिली च यशस्विनी ॥ ३.२७८.२ ॥
婆罗门啊,十车王之子两位英勇的兄弟罗摩与罗什曼那,以及名声显赫的弥提罗女(悉多),是如何被送入森林的?
3.278.3
जातपुत्रो दशरथः प्रीतिमानभवन्नृप ।
क्रियारतिर्धर्मरतः सततं वृद्धसेविता ॥ ३.२७८.३ ॥
国王啊,儿子出生后,十车王十分欢喜。他热衷于祭祀仪式,专注于法,常受长者的侍奉。
3.278.4
क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः ।
वेदेषु सरहस्येषु धनुर्वेदेषु पारगाः ॥ ३.२७८.४ ॥
随着时间推移,他那些威力强大的儿子们长大成人,精通吠陀及其秘义,也精通弓箭之术。
3.278.5
चरितब्रह्मचर्यास्ते कृतदाराश्च पार्तिव ।
दृष्ट्वा रामं दशरथः प्रीतिमानभवत्सुखी ॥ ३.२७८.५ ॥
国王啊,他们完成了梵行学习并娶了妻子。十车王见到罗摩,心中欢喜而快乐。
3.278.6
ज्येष्ठो रामोऽभवत्तेषां रमयामास हि प्रजाः ।
मनोहरतया धीमान्पितुर्हृदयनन्दनः ॥ ३.२७८.६ ॥
他们中最年长的是罗摩。他以其迷人的品格使百姓欢喜;这位智慧的人是父亲心中的喜悦。
3.278.7
ततः स राजा मतिमान्मत्वाऽऽत्मानं वयोधिकम् ।
मन्त्रयामास सचिवैर्मन्त्रज्ञैश्च पुरोहितैः ॥ ३.२७८.७ ॥
于是那位聪明的国王自认年事已高,与大臣、谋略之士和祭司商议。
3.278.8
अभिषेकाय रामस्य यावैराज्येन भारत ।
प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः ॥ ३.२७८.८ ॥
婆罗多啊,诸位贤能的大臣都认为,罗摩立为太子、行灌顶之礼的时机已经到来。
3.278.9
लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम् ।
कम्बुग्रीवं महोरस्कं नीलकुञ्चितमूर्धजम् ॥ ३.२७८.९ ॥
眼睛赤红,双臂有力,行走如发情的大象,颈如海螺,胸膛宽阔,乌黑卷曲的头发。
3.278.10
दीप्यमानं श्रिया वीरं शक्रादनवरं बले ।
पारगं सर्वधर्माणां बृहस्पतिसमं मतौ ॥ ३.२७८.१० ॥
光辉照耀的英雄,力量不逊于因陀罗,通晓一切法,智慧与brihaspati相等。
3.278.11
सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम् ।
जितेन्द्रियममित्राणामपि दृष्टिमनोहरम् ॥ ३.२७८.११ ॥
深得万民爱戴,精通一切学问,克制诸根,即使敌人见了也觉得悦目动心。
3.278.12
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् ।
धृतिमन्तमनाधृष्यं जेतारमपराजितम् ॥ ३.२७८.१२ ॥
制服恶人,守护行法之人,坚定不移,不可侵犯,征服者,永不败北。
3.278.13
पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम् ।
संदृश्यपरमां प्रीतिमगच्छत्कुलनन्दनम् ॥ ३.२७८.१३ ॥
国王十车看见使考萨利雅欢喜增长、令家族喜悦的儿子,心中生起无上的欢喜。
3.278.14
चिन्तयंश्च महातेजा गुणान्रामस्य वीर्यवान् ।
अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम् ॥ ३.२७८.१४ ॥
大光明而有力的国王思念罗摩的德行,欢喜地对家中的祭司说:愿你吉祥。
3.278.15
अद् पुष्यो निशि ब्रह्मन्पुण्यं योगमुपैष्यति ।
संभाराः संभ्रियन्तां मे रामश्चोपनिमन्त्र्यताम् ॥ ३.२७८.१५ ॥
婆罗门啊,今夜将迎来富足星宿的吉祥会合;请为我备齐物品,并邀请罗摩。
3.278.16
श्व एवपुष्यो भविता यत्ररामः सुतो मया ।
यौवराज्येऽभिषेक्तव्यः पौरेषु सहमन्त्रिभिः ॥ ३.२७८.१६ ॥
明天便是富足星宿之日,那时我的儿子罗摩将在众臣与民众面前受封为太子。
3.278.17
इति तद्राजवचनं प्रतिश्रुत्याथ मन्थरा ।
कैकेयीमभिगम्येदं काले वचनमब्रवीत् ॥ ३.२७८.१७ ॥
末陀罗听了国王的话,便去见迦迦伊,在适当的时候说了这番话。
3.278.18
अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत् ।
आशीविषस्त्वां संक्रुद्धश्छन्नो दशति दुर्भगे ॥ ३.२७८.१८ ॥
迦迦伊啊,今天国王已宣告你的大不幸;不幸的女人啊,它将像暗中发怒的毒蛇一样咬你。
3.278.19
सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते ।
कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक् ॥ ३.२७८.१९ ॥
考舍利耶确实有福,因为她的儿子将被册立。你的福分在哪里,你的儿子却不能分享王权?
3.278.20
सा तद्वचनमाज्ञाय सर्वाभरणभूषिता ।
वेदी विलग्नमध्येन बिभ्रती रूपमुत्तमम् ॥ ३.२७८.२० ॥
她听了这话,身披一切饰物,腰肢纤细,显现出无上的美貌……
3.278.21
वविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता ।
राजानं तर्जयन्तीव मधुरं वाक्यमब्रवीत् ॥ ३.२७८.२१ ॥
她在私下走近丈夫,仿佛含笑,露出纯净的笑容,仿佛在责备国王,说出了这些甜美的话。
3.278.22
सत्यप्रतिज्ञ यन्मे त्वं काममेकं विसृष्टवान् ।
उपाकुरुष्व तद्राजंस्तस्मान्मुञ्चस्व संकटात्।
तदद्य कुरु सत्यं मे वरं वरद भूपते ॥ ३.२७८.२२ ॥
守誓的人啊,你曾许给我的那一个愿望,王啊,现在就实现它,把我从那困境中解救出来。赐予恩典的人啊,地上之主,今日让我的恩赐成真吧。
3.278.23
वरं ददानि ते हन्त तद्गृहाण यदिच्छसि ।
अवध्यो वध्यतां कोद्य वध्यः कोऽद्य विमुच्यतां ॥ ३.२७८.२३ ॥
我赐你一个恩典,你想要什么就拿去。不该被杀的,就不该被杀;今日谁该被杀,谁该被释放呢?
3.278.24
धनं ददानि कस्याद् ह्रियतां कस्यरवापुनः ।
ब्राह्मणस्वादिहान्यत्रयत्किंचिद्वित्तमस्ति मे ॥ ३.२७८.२४ ॥
我将给予财富;给谁呢,又要夺取谁的财富呢?我在此处或别处拥有的任何财富,都不是婆罗门的财产。
3.278.25
पृथिव्यां राजराजोस्मि चातुर्वर्ण्यस् रिता ।
यस्तेऽभिलपितः कामो ब्रूहि कल्याणि माचिरं ॥ ३.२७८.२५ ॥
我是大地上的王中之王,四种姓秩序的守护者。吉祥的女子啊,你所愿望的,快快说出来吧。
3.278.26
सातद्वचनमाज्ञाय परिगृह्य नराधिपम् ।
आत्मनो बलमाज्ञाय तत एनमुवाच ह ॥ ३.२७८.२६ ॥
她领会了这些话,把握住人主,明了自己的力量,便对他这样说道。
3.278.27
आभिषेचनिकं यत्ते रामार्थमुपकल्पितम् ।
भरतस्तदवाप्नोतु वनं गच्छतु राघवः ॥ ३.२७८.२७ ॥
你为罗摩准备的灌顶之礼,愿婆罗多获得;愿罗怙之子前往森林。
3.278.28
नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः ।
चीराजिनजटाधारी रामो भवतु तापसः ॥ ३.२७८.२८ ॥
十四年间,栖身于檀陀迦森林,身穿树皮衣、鹿皮,头结发髻,愿罗摩成为苦行者。
3.278.29
स तं राजा वरं श्रुत्वा विप्रियं दारुणोदयम् ।
दुःखार्तो भरतश्रेष्ठ न किंचिद्व्याजहार ह ॥ ३.२७८.२९ ॥
婆罗多中最优秀的人啊,国王听到那恩赐——令人不快且后果可怕——因悲痛而煎熬,竟一句话也没有说。
3.278.30
ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान् ।
वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति ॥ ३.२७८.३० ॥
于是罗摩,勇猛而心地正直,知道父亲已如此说了,便动身前往森林,心想:“愿国王的话成真。”
3.278.31
तमन्वगच्छल्लक्ष्मीवान्धनुष्माँल्लक्ष्मणस्तदा ।
सीता च भार्या भद्रं ते वैदेही जनकात्मजा ॥ ३.२७८.३१ ॥
于是光辉的持弓者罗什曼那跟随他,毗提诃公主、遮那迦之女悉多作为妻子也同行。愿你吉祥。
3.278.32
ततो वनं गतेरामे राजा दशरथस्तदा ।
समयुज्यत देहस्य कालपर्यायधर्मणा ॥ ३.२७८.३२ ॥
罗摩入林之后,国王十车王便依时序之法而与身体的终结相合。
3.278.33
रामं तु गतमाज्ञाय राजानं च तथागतम् ।
अनार्या भरतं देवी कैकेयी वाक्यमब्रवीत् ॥ ३.२७८.३३ ॥
得知罗摩已去、国王也已如此离去,不贤的王后吉迦伊便对婆罗多说了这些话。
3.278.34
गतोदशरथः स्वर्गं वनस्थौ रामलक्ष्मणौ ।
गृहाण राज्यंविपुलं क्षेमं निहतकण्टकम् ॥ ३.२७८.३४ ॥
十车王已升天,罗摩与罗什曼那住在林中。请接受这广阔、安定、荆棘已除的王国吧。
3.278.35
तामुवाच स धर्मात्मा नृशंसं बत ते कृतम् ।
पतिं हत्वाकुलं चेदमुत्साद्य धनलुब्धया ॥ ३.२७८.३५ ॥
正法之士婆罗多对她说:"唉!你做了残忍之事。杀了丈夫,毁了这个家族,贪图财富才做了这些。"
3.278.36
अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसने ।
सकामा भव मे मातरित्युक्त्वा प्ररुरोद ह ॥ ३.२७८.३६ ॥
"家族的耻辱啊!你把污名加在我头上,愿你的心愿得偿,母亲!"说完,他痛哭起来。
3.278.37
स चारित्रं विशोध्याथ सर्वप्रकृतिसन्निधौ ।
अन्वयाद्धातरं रामं विनिवर्तनलालसः ॥ ३.२७८.३७ ॥
他在所有臣民面前澄清了自己的行为,跟随兄长罗摩,渴望将他带回。
3.278.38
कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितः ।
अग्रे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ ॥ ३.२७८.३८ ॥
他极为悲伤,先用车驾将考沙利亚、苏弥多罗和吉迦伊送往前方,自己则与设睹卢祇同行。
3.278.39
वसिष्ठवामदेवाभ्यां विप्रैश्चान्यैः सहस्रशः ।
पौरजानपदैः सार्धं रामानयनकाङ्क्षया ॥ ३.२७८.३९ ॥
与婆私瑟陀、婆摩提婆以及成千上万的婆罗门和其他人,与城乡民众一道,渴望将罗摩迎回。
3.278.40
ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम् ।
तापसानामलंकारं धारयन्तं धनुर्धरम् ॥ ३.२७८.४० ॥
他看见罗摩与罗什曼那同住在吉祥山,以苦行者的装饰,手持弓箭。
3.278.41
उवाच प्राञ्जलिर्भूत्वाप्रणिपत्य रघूत्तमम् ।
शशंस मरणं राज्ञः सोऽनाथांश्चापि कोसलान् ॥ ३.२७८.४१ ॥
他合掌向罗摩——罗怙族中最优秀者——致敬,开口陈述国王的死讯,以及失去依靠的憍萨罗人。
3.278.42
नाथ त्वं प्रतिपद्यस्व स्वराज्यमिति चोक्तवान् ॥ ३.२७८.४२ ॥
“主啊,请您继承自己的王国。”他这样说道。
3.278.43
स तस्य वचनं श्रुत्वा रामः परमदुःखितः ।
चकार देवकल्पस्य पितुः स्नात्वोदकक्रियाम् ॥ ३.२७८.४३ ॥
罗摩听了他的话,万分悲痛;沐浴之后,他为如神一般的父亲举行了奉水之礼。
3.278.44
अब्रवीत्स तदारामो भ्रातरं भ्रातृवत्सलम् ।
पादुके मे भविष्येते राज्यगोप्त्र्यौ परंतप।
एवमस्त्विति तं प्राह भरतः प्रणतस्तदा ॥ ३.२७८.४४ ॥
于是罗摩对爱护兄长的弟弟说:"啊,灭敌者,愿我的木屐成为守护王国之物。"于是婆罗多躬身对他说:"就这样吧。"
3.278.45
विसर्जितः स रामेण पितुर्वचनकारिणा ।
नन्दिग्रामेऽकरोद्राज्यं पुरस्कृत्यास्य पादुके ॥ ३.२७८.४५ ॥
他受到遵从父亲之言的罗摩的遣送,在难提村以罗摩的木屐置于前方而治理王国。
3.278.46
रामस्तु पुनराशङ्क्य पौरजानपदागमम् ।
प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति ॥ ३.२७८.४६ ॥
然而罗摩又担心城乡百姓前来,便走进大森林,朝向沙罗般伽的修行处而去。
3.278.47
सत्कृत्य शरभङ्गं स दण्डकारण्यमाश्रितः ।
नदीं गोदावरीं रम्यामाश्रित्य न्यवसत्तदा ॥ ३.२७८.४७ ॥
他敬重沙罗般伽之后,前往檀陀迦森林,依傍美丽的戈达瓦里河而住在那里。
3.278.48
वसतस्तस्य रामस्य ततः शूर्पणखाकृतम् ।
खरेणासीन्महद्वैरं जनस्थाननिवासिना ॥ ३.२७८.४८ ॥
罗摩居住在那里时,因为首哩薄那迦所作之事,与住在罗刹之地的恳罗产生了巨大的仇怨。
3.278.49
रक्षार्थं तापसानां तु राघवो धर्मवत्सलः ।
चतुर्दशसहस्राणि जघान भुवि राक्षसान् ॥ ३.२७८.४९ ॥
为保护苦行者,热爱法的罗怙之子在大地上杀死了一万四千名罗刹。
3.278.50
दूषणं च स्वरं चैवनिहत्य सुमहाबलौ ।
चक्रे क्षेमं पुनर्धीमान्धर्मारण्यं स राघवः ॥ ३.२७८.५० ॥
罗怙之子在杀死威力极大的檀那与羯罗之后,使法林重新恢复了安宁。
3.278.51
हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः ।
ययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर्निवेशनम् ॥ ३.२७८.५१ ॥
那些罗刹被杀之后,鼻子和嘴唇被割断的首波那迦再次前往楞伽,她哥哥的住所。
3.278.52
ततो रावणमभ्येत्य राक्षसी दुःखमूर्च्छिता ।
पपात पादयोर्भ्रातुः संशुष्करुधिरानना ॥ ३.२७८.५२ ॥
于是这位因悲痛而昏厥的罗刹女来到罗波那面前,面容满是干涸的血迹,倒在哥哥的脚下。
3.278.53
तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्च्छितः ।
उत्पपातासनात्क्रुद्धो दन्तैर्दन्तानुपस्पृशन् ॥ ३.२७८.५३ ॥
罗波那见她如此毁容,怒火攻心几近昏厥,愤然从座位上跳起,咬牙切齿。
3.278.54
स्वानमात्यान्विसृज्याथ विविक्ते तामुवाच सः ।
केनास्येवं कृता भद्रे मामचिन्त्यावमत्य च ॥ ३.२७८.५४ ॥
于是他遣退群臣,单独对她说:
3.278.55
कः शूलं तीक्ष्णमासाद्य सर्वगात्रेषु सेवते ।
कः शिरस्यग्निमाधाय विश्वस्तः स्वपते सुखम् ॥ ३.२७८.५५ ॥
谁被尖锐的长矛刺中,在全身忍受着?谁把火放在头上,却安然无惧地睡得香甜?
3.278.56
आशीविषं घोरतरं पादेन स्पृशतीह कः ।
सिंहं केसरिणं मत्तः स्पृष्ट्वा दंष्ट्रासु तिष्ठति ॥ ३.२७८.५६ ॥
谁在此用脚踩触最可怕的毒蛇?谁触碰发狂的鬃毛雄狮,并站在它的獠牙之间?
3.278.57
इत्येवं ब्रुवतस्तस्य नेत्रेभ्यस्तेजसोऽर्चिषः ।
निश्चेरुर्दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः ॥ ३.२७८.५७ ॥
他如此说话时,双眼迸出光焰,如同夜里燃烧的树木从孔洞中冒出火焰。
3.278.58
तस्य तत्सर्वमाचख्यौ भगिनी रामविक्रमम् ।
खरदूषणसंयुक्तं राक्षसानां पराभवम् ॥ ३.२७८.५८ ॥
他的妹妹把罗摩的全部勇武告诉了他,包括与恳罗、突厄那一同的罗刹们的败绩。
3.278.59
ततो ज्ञातिवधं श्रुत्वा रावणः कालचोदितः ।
रामस्य वधमाकाङ्क्षन्मारीचं मनसागमत् ॥ ३.२७८.५९ ॥
于是罗波那听闻亲族被杀,被时运所驱,欲杀罗摩,便在心中前往马利遮那里。
3.278.60
स निश्चित्यततः कृत्यं सागरं लवणाकरम् ।
ऊर्ध्वमाचक्रमे राजा विधाय नगरे विधिम् ॥ ३.२७८.६० ॥
他决定了所要做的事,在城中安排妥当,便向咸海进发。
3.278.61
त्रिकूटं समतिक्रम्य कालपर्वतमेव च ।
ददर्श मकरावासं गम्भीरोदं महोदधिम् ॥ ३.२७८.६१ ॥
他越过三峰山和迦罗山,看见了大海——群鲸之居,水深浩渺。
3.278.62
तमतीत्याथ गोकर्णमभ्यगच्छद्दशाननः ।
दयितं स्तानमव्यग्रं शूलपाणेर्महात्मनः ॥ ३.२७८.६२ ॥
越过之后,十首罗刹来到哥迦尔纳,那是持三叉戟的大神所喜爱、安宁的居所。
3.278.63
तत्राभ्यगच्छन्मारीचं पूर्वामात्यं दशाननः ।
पुरा रामभयादेव तापसं प्रियजीवितम् ॥ ३.२७८.६३ ॥
十首罗刹来到前任大臣摩利者(摩里遮)那里。摩利者因惧怕罗摩,早已成为苦行者,珍惜自己的性命。