Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.28

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.28.1

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च ॥ ३.२८.१ ॥

此处人们也引用这段古老的故事——毗卢遮那之子钵利与胜光之间的对话。

3.28.2

असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम् ।
बलिः पप्रच्छ दैत्येनद्रं प्रह्लादं पितरं पितुः ॥ ३.२८.२ ॥

钵利询问阿修罗之王、大智慧者、通晓法度的、众达蹉之主、其父之父钵罗诃罗陀。

3.28.3

क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत ।
एतन्मे संशयं तात यथावद्ब्रूहि पृच्छते ॥ ३.२८.३ ॥

'父亲,忍耐更好,还是威力更好?或者二者之中何者带来福祉?请如实解答我的疑惑,我在请教。'

3.28.4

श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम् ।
करिष्यामि हि तत्सर्वं यथावदनुशासनम् ॥ ३.२८.४ ॥

通晓法度者啊,请毫无疑惑地告诉我此中何为善。那一切教诲我都会照做。

3.28.5

तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः ।
सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते ॥ ३.२८.५ ॥

被如此询问后,祖父将这一切都向他说明。通晓一切定论的智者完全理解了提问者的疑惑,便作答。

3.28.6

न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा ।
इति तात विजानीहि द्वयमेतदसंशयम् ॥ ३.२८.६ ॥

'孩子,威力并非总是善的,忍耐也并非永远更好。这两者你要毫无疑惑地领会。'

3.28.7

यो नित्यं क्षमते तात बहून्दोषान्स विन्दति ।
भृत्याः परिभवन्त्येनमुदासीनास्तथाऽरयः ॥ ३.२८.७ ॥

常常宽恕的人,亲爱的孩子,会招致许多过失;仆人轻慢他,冷漠者和敌人也一样。

3.28.8

सर्वभूतानि चाप्यस् न नमन्ते कदाचन ।
तस्मान्नित्यं क्षमा तात पण्डितैरपि वर्जिता ॥ ३.२८.८ ॥

一切众生从不屈服;因此,亲爱的孩子,即使智者也总是避开忍让。

3.28.9

अवज्ञाय हितं भृत्या भजन्ते बहुदोषताम् ।
आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः ॥ ३.२८.९ ॥

仆人无视利益,沾染诸多过错;心胸狭隘者想夺取他的财富。

3.28.10

यानं वस्त्राण्यलंकाराञ्शयनान्यासनानि च ।
भोजनान्यथ पानानि सर्वोपकरणानि च ॥ ३.२८.१० ॥

车乘、衣服、饰物、床榻和座席、饮食,以及一切器具。

3.28.11

आददीरन्नधिकृता यथाकाममचेतसः ।
प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात् ॥ ३.२८.११ ॥

受命的无知之人随意取用,即使主人有命,也不肯交付应当给予的东西。

3.28.12

न चैनं भर्तृपूजाभिः पूजयन्ति कदाचन ।
अव्रज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम् ॥ ३.२८.१२ ॥

他们从不以主人应得的礼敬尊重他;在这个世间,不敬比死亡更为可耻。

3.28.13

क्षमिणं तादृशं तांत ब्रुवन्ति कटुकान्यपि ।
प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः ॥ ३.२८.१३ ॥

对这样宽容的人,亲爱的孩子,人们也会说刻薄的话;仆人、儿子和雇工也会变得态度冷淡。

3.28.14

अप्यस्य दारानिच्छन्ति परिभूय क्षमावतः ।
दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः ॥ ३.२८.१४ ॥

людей轻视这宽容之人,甚至贪图他的妻子;而他的妻子也不加思虑,随心所欲地行事。

3.28.15

तथा च नित्यमुदिता यदि नाल्पमपीश्वरात् ।
अकृतोपद्रवः कश्चिन्महानपि न पूज्यते। ॥ ३.२८.१५ ॥

同样,即使是一位总是欢欣的伟大之人,若从主人那里一无所得,又不作任何扰乱,也不会受到尊敬。

3.28.16

पूजयन्ति नरा नागान्न तार्क्ष्यं नामघातिनम् ।
एते चान्ये च बहवो नित्यं दोषाः क्षमावताम्। ॥ ३.२८.१६ ॥

人们敬奉蛇,却不敬奉毁灭名声的金翅鸟(迦卢荼)。这些以及许多其他过失,总是存在于宽容之人身上。

3.28.17

अथ वैरोचने दोषानिमान्विद्ध्यक्षमांवताम् ।
अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम् ॥ ३.२८.१७ ॥

现在,毗卢遮那之子啊,应知这些过失属于不宽容之人。现在,毗卢遮那之子啊,应知这些过失属于不宽容之人。

3.28.18

अस्थाने यदि वा स्थाने सततं रजसावृतः ।
क्रुद्धो दण्डान्प्रणयति विविधान्स्वेन तेजसा ॥ ३.२८.१८ ॥

无论有无理由,常被激情所蒙蔽之人,愤怒之下便以自身威势施加种种惩罚。

3.28.19

मित्रैः सह विरोधं च प्राप्नुते तेजसाऽऽवृतः ।
आप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा ॥ ३.२८.१९ ॥

被威势(tejas)所笼罩的人,即使与朋友也会结怨,并为世人和自己的亲族所憎恶。

3.28.20

सोऽवमानादर्थहानिमुपालम्भमनादरम् ।
संतापद्वेषमोहांश्च शत्रूंश्च लभते नरः ॥ ३.२८.२० ॥

此人因受辱而失去财富,招致责难、轻慢、烦恼、憎恨、迷惑,并且结下仇敌。

3.28.21

क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषोऽनयात् ।
भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि ॥ ३.२८.२१ ॥

人若因愤怒而不义地对众人施以种种刑罚,便会很快失去权位、性命,甚至失去自己的亲族。

3.28.22

योपकर्तॄश्च हर्तॄश्च तेजसैवोपगच्छति ।
तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ॥ ३.२८.२२ ॥

对待施恩者与劫掠者都只以威势相向的人,因此世人惧怕他,如同蛇进入了屋中。

3.28.23

यस्मादुद्विजतेलोकः कथं तस्य भवो भवेत् ।
अन्तरं तस्य दृष्ट्वैव लोको विकुरुते ध्रुवम् ॥ ३.२८.२३ ॥

世人既然惧怕他,他怎能兴盛?一旦看到他的弱点,世人必定会背叛他。

3.28.24

तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत् ।
कालेकाले तु संप्राप्ते मृदुस्तीक्ष्णोपि वा भवेत् ॥ ३.२८.२४ ॥

因此,不应过度释放威势,也不应永远柔和;时机到来时,当柔和则柔和,当严厉则严厉。

3.28.25

काले मृदुर्यो भवति काले भवति दारुणः ।
स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च ॥ ३.२८.२५ ॥

在适当的时候温和、在适当的时候严厉的人,在此世和彼世都能获得幸福。

3.28.26

क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान् ।
ये ते नित्यमसंत्याज्या यथा प्राहुर्मनीषिणः ॥ ३.२८.२६ ॥

我将讲述忍耐的时机;请详细听我说,那些永远不可放弃的时机,正如智者所言。

3.28.27

पूर्वोपकारी यस्ते स्यादपराधे गरीयसि ।
उपकारेण तत्तस्य क्षन्तव्यमपराधिनः ॥ ३.२८.२७ ॥

若曾先施恩于你的人犯下重罪,应当因他先前的恩惠而宽恕这位过错者。

3.28.28

अबुद्धिमाश्रितानां तु क्षन्तव्यमपराधिनाम् ।
न हि सर्वत्र पाण्डित्वं सुलभं पुरुषेण वै ॥ ३.२८.२८ ॥

对于依附愚昧的过错者应当宽恕,因为智慧在任何地方对人来说都不易获得。

3.28.29

अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम् ।
पापान्स्वल्पेऽपि तान्हन्यादपराधे तथाऽनृजून् ॥ ३.२८.२९ ॥

但若他们明知有意而做,却说是出于愚昧,那么即使是轻微的过错,也应惩罚那些邪恶和奸诈之人。

3.28.30

सर्वस्यैकोपराधस्ते क्षन्तव्यः प्राणिनो भवेत् ।
द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत् ॥ ३.२८.३० ॥

众生的一次过错应当宽恕;若第二次再犯,即使只是轻微的伤害,他也可能应当被处死。

3.28.31

अजानता भवेत्कश्चिदपराधः कृतो यदि ।
क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया ॥ ३.२८.३१ ॥

若有人无知而犯了过错,人们说应当宽恕,但须经过仔细审察。

3.28.32

मृदुना दारुणं हन्ति मृदुना हन्त्यदारुणम् ।
नासाध्यं मृदुना किंचित्तस्मात्तीव्रतरं मृदु ॥ ३.२८.३२ ॥

以柔和可以制服刚强者,也可以制服柔顺者;没有什么是柔和做不到的,所以柔和才是最锋利的。

3.28.33

देशकालौ तु संप्रेक्ष्य बलाबलमथात्मनः ।
अन्वीक्ष्यकारणं चैव कार्यं तेजः क्षमापि वा ॥ ३.२८.३३ ॥

仔细审视地点与时机,权衡自身的强弱,并考察事情的起因之后,才应行动——或以刚猛之力,或以宽恕之心。

3.28.34

नादेशकाले किंचित्स्याद्देशकालौ प्रतीक्षताम् ।
तथा लोकभयाच्चैव क्षन्तव्यमपराधितम् ॥ ३.२८.३४ ॥

在不适宜的地点与时机不可妄行,应等待合适的地点与时机。同样,出于对众人的畏惧,也应当宽恕犯错之人。

3.28.35

एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः ।
अतोऽन्यथाऽनुवर्तत्सु तेजसः काल उच्यते ॥ ३.२८.३५ ॥

这样的时机被宣说为宽恕之时;而对于那些反其道而行的人,则说这是展现刚猛之力的时机。

3.28.36

तदहं तेजसः कालं तव मन्ये नराधिप ।
धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु ॥ ३.२८.३६ ॥

因此,人主啊,我认为你展现刚猛之力的时机已经到来——针对持续加害于你的、贪婪的持国之子。

3.28.37

न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति ।
तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि ॥ ३.२८.३७ ॥

今日对俱卢人已无宽恕之时。既然刚猛之时已至,你就应当发挥你的威势。

3.28.38

मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः ।
काले प्राप्ते द्वयं चैतद्यो वेद स महीपतिः ॥ ३.२८.३८ ॥

温和者受人轻视,严厉者令人畏惧远离。时机到来之时,懂得这两者的人,才是地上之王。