Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.280

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.280.1

सखा दशरथस्यासीज्जटायुररुणात्मजः ।
गृध्रराजो महावीरः संपातिर्यस्य सोदरः ॥ ३.२८०.१ ॥

阿如那之子迦吒由是十车王的朋友。他是禿鹫之王,大英雄,其兄弟为桑帕提。

3.280.2

स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम् ।
सक्रोधोऽभ्यद्रवत्पक्षी रावणं राक्षसेश्वरम् ॥ ३.२८०.२ ॥

此时他看见儿媳悉多坐在罗波那的膝上;птица怒气冲冲,扑向罗刹之主罗波那。

3.280.3

अथैनमब्रवीद्गृध्रो मुञ्चमुञ्चेति मैथिलीम् ।
ध्रियमाणे मयि कथं हरिष्यसि निशाचर ॥ ३.२८०.३ ॥

于是那禿鹫对他说:“放开她,放开迈提利!我还活着,你怎能带走她,夜行者?”

3.280.4

न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे वधूम् ।
उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर्भृशम् ॥ ३.२८०.४ ॥

“你若不放开儿媳,只要我活着,你便逃不出我的手。”说罢,它用爪子猛烈地撕扯罗刹之主。

3.280.5

पक्षतुण्डप्रहारैश्च शतशो जर्जरीकृतम् ।
चक्षार रुधिरं भूरि गिरिः प्रस्रवणैरिव ॥ ३.२८०.५ ॥

他被翅膀和喙的数百次击打打得粉碎,大量流血,像一座泉水涌流的山。

3.280.6

स वध्यमानो गृध्रेण रामप्रियहितैषिणा ।
खड्गमादाय चिच्छेद भुजौ तस्य पतत्रिणः ॥ ३.२८०.६ ॥

他被那愿罗摩幸福与福祉的禿鹫击伤,便拔出剑,砍断了那有翼者的双臂。

3.280.7

निहत्य गृध्रराजं स भिन्नाभ्रशिखरोपमम् ।
ऊर्ध्वमाचक्रमे सीतां गृहीत्वाऽङ्केन राक्षसः ॥ ३.२८०.७ ॥

杀死了禿鷲之王后,這個羅剎如被雲層劈開的山峰,將悉多抱在膝上,向上升去。

3.280.8

यत्र यत्र तु वैदेही पश्यत्याश्रममण्डलम् ।
सरो वा सरितो वाऽपि तत्र मुञ्चति भूषणम् ॥ ३.२८०.८ ॥

毗提訶女無論在何處看見一圈圈的修行林、湖泊或河流,便在那裡丟下一件首飾。

3.280.9

सा ददर्श गिरिप्रस्थे पञ्च वानरपुङ्गवान् ।
तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी ॥ ३.२८०.९ ॥

她在山岗高地上看見五隻最傑出的猴子;那位心志高潔的女子在那裡丟下了一件大的神聖衣裳。

3.280.10

तत्तेषां वानरेन्द्राणां पपात पवनोद्धतम् ।
मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा ॥ ३.२८०.१० ॥

被風吹動的那件衣裳落在那五位猴王中間,如同黃光落在閃電與雲層之間。

3.280.11

अचिरेणातिचक्राम खेचरः खे चरन्निव ।
ददर्शाथ पुरीं रम्यां बहुद्वारां मनोरमाम् ॥ ३.२८०.११ ॥

那飛行空中的羅剎很快飛越過去,彷彿在天空中漫遊;隨後他看見了那座有眾多門戶、美麗迷人的城市。

3.280.12

प्राकारवप्रसंबाधां निर्मितां विश्वकर्मणा ।
प्रविवेश पुरीं लङ्कां ससीतो राक्षसेश्वरः ॥ ३.२८०.१२ ॥

羅剎之主帶著悉多,進入了由毗首羯摩所建、城牆與壁壘重重的樓羅卡城。

3.280.13

एवं हृतायां वैदेह्यां रामो हत्वा महामृगम् ।
निवृत्तो ददृशे दूराद्भ्रातरं लक्ष्मणं तदा ॥ ३.२८०.१३ ॥

如此,维代希被掳走后,罗摩杀死了那只大鹿,返回时远远看见了他的兄弟罗什曼那。

3.280.14

कथमुत्सृज्य वैदेहीं वने राक्षससेविते ।
इति तं भ्रातरं दृष्ट्वा प्राप्तोऽसीति व्यगर्हयत् ॥ ३.२८०.१४ ॥

“你抛弃了维代希在这罗刹出没的森林里,怎么还能来?”他见到兄弟便如此责备他。

3.280.15

मृगरूपधरेणाथ रक्षसा सोपकर्षणम् ।
भ्रातुरागमनं चैवाचिन्तयन्पर्यतप्यत ॥ ३.२८०.१५ ॥

他想到那化作鹿形的罗刹的劫掠,以及兄弟的到来,心中痛苦万分。

3.280.16

गर्हयन्नेव रामस्तु त्वरितस्तं समासदत् ।
अपि जीवति वैदेहीमिति पश्यामि लक्ष्मण ॥ ३.२८०.१६ ॥

罗摩仍在责备他,急忙走到他身边说:“罗什曼那,我不知维代希是否还活着。”

3.280.17

तस्य तत्सर्वमाचख्यौ सीताया लक्ष्मणो वचः ।
यदुक्तवत्यसदृशं वैदेही पश्चिमं वचः ॥ ३.२८०.१७ ॥

罗什曼那把悉多所说的那些话全都告诉了他——那些不合适的、最后的话语。

3.280.18

दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम् ।
स ददर्श तदा गृध्रं निहतं पर्वतोपमम् ॥ ३.२८०.१८ ॥

罗摩心如火焚,奔向修行处,此时他看见一只被杀的秃鹫,庞大如山。

3.280.19

राक्षसं शङ्कमानस्तं विकृष्य बलवद्धनुः ।
अभ्यधावत काकुत्स्थस्ततस्तं सह लक्ष्मणः ॥ ३.२८०.१९ ॥

罗刹令他生疑,甘古修之后罗摩拉开强弓,与罗什曼那一同冲向他。

3.280.20

स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौ ।
गृध्रराजोस्मि भद्रं वां सखा दशरथस्य वै ॥ ३.२८०.२० ॥

那位光辉的鸟王对并肩而立的罗摩和罗什曼那说:“我是秃鹫之王。愿你们二人平安。我是十车王的朋友。”

3.280.21

तस्य तद्वचनं श्रुत्वा संगृह्य धनुषी शुभे ।
कोयं पितरमस्माकं नाम्नाऽऽहेत्यूचतुश्च तौ ॥ ३.२८०.२१ ॥

二人听了他的话,握起精美的弓,说道:“这个直呼我们父亲之名的人是谁?”

3.280.22

ततो ददृशतुस्तौ तं छिन्नपक्षद्वयं खगम् ।
तयोः शशंस गृध्रस्तु सीतार्थे रावणाद्वधम् ॥ ३.२८०.२२ ॥

二人随即看见那只双翼被斩断的鸟。秃鹫便告诉他们,罗波那为了悉多而杀了他。

3.280.23

अपृच्छद्राघवो गृध्रं रावणः कां दिशं गतः ।
तस्य गृध्रः शिरःकम्पैराचचक्षे ममार च ॥ ३.२८०.२३ ॥

罗怙之子问秃鹫:“罗波那往哪个方向去了?”秃鹫摇头示意方向,随即死去。

3.280.24

दक्षिणामिति काकुत्स्थो विदित्वाऽस्य तदिङ्गितम् ।
संस्कारं लम्भयामास सखायं पूजयन्पितुः ॥ ३.२८०.२४ ॥

罗摩明白他的手势是指“南方”,便尊敬父亲的朋友,为他举行了火葬仪式。

3.280.25

ततो दृष्ट्वाऽऽश्रमपदं व्यपविद्धबृसीकटम् ।
विध्वस्तकलशं शून्यं गोमायुशतसंकुलम् ॥ ३.२८०.२५ ॥

他们看见那隐修之地,草席散乱,水罐倾覆破碎,空无一人,满是成百上千只豺狼。

3.280.26

दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ ।
जग्मतुर्दण्डकारण्यं दक्षिणेन परंतपौ ॥ ३.२८०.२६ ॥

二人为悲痛所笼罩,为毗提诃公主被劫而痛苦,这两位焚烧敌人者向南前往檀陀迦森林。

3.280.27

वने महति तस्मिंस्तु रामः सौमित्रिणा सह ।
ददर्श मृगयूथानि द्रवमाणानि सर्वशः ॥ ३.२८०.२७ ॥

在那广阔的森林里,罗摩与Saumitri一同看见四面奔逃的鹿群。

3.280.28

शब्दं च घोरं सत्वानां दावाग्नरिव वर्धतः ।
अपश्येतां मुहूर्ताच्च कबन्धं घोरदर्शनम् ॥ ३.२८०.२८ ॥

听到如林火般愈演愈烈的众生惨叫,二人不久便看见了相貌可怖的羯般陀。

3.280.29

मेघपर्वतसंकाशं सालस्कन्धं महाभुजम् ।
उरोगतविशालाक्षं महोदरमहामुखम् ॥ ३.२८०.२९ ॥

他如云如山,肩如娑罗树干,双臂粗大,胸前嵌着巨大的双眼,腹大口宽。

3.280.30

यदृच्छयाथ तद्रक्षः करे जग्राह लक्ष्मणम् ।
विषादमगमत्सद्यः सौमित्रिरथ भारत ॥ ३.२८०.३० ॥

那时,罗刹偶然用手抓住了罗什曼那,婆罗多啊,Saumitri 立刻陷入绝望。

3.280.31

स राममभिसंप्रेक्ष्य कृष्यते येन तन्मुखम् ।
विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमां मम ॥ ३.२८०.३१ ॥

他望见罗摩,被拖向之处,悲伤地对罗摩说:请看我这般处境。

3.280.32

हरणं चैव वैदेह्या मम चायमुपप्लवः ।
राज्यभ्रंशश्च भवतस्तातस्य मरणं तथा ॥ ३.२८०.३२ ॥

毗提诃公主被劫、我此刻的灾难、你失去王国,以及父亲之死。

3.280.33

नाहं त्वां सह वैदेह्या समेतं कोसलागतम् ।
द्रक्ष्यामि प्रथिते राज्ये पितृपैतामहे स्थितम् ॥ ३.२८०.३३ ॥

我将不会见到你与毗提诃重聚、回到拘萨罗,并坐镇父祖的显赫王国。

3.280.34

द्रक्ष्यन्त्यार्यस्य धन्या ये कुशलाजशमीदलैः ।
अभिषिक्तस्य वदनं सोमं शान्तघनं यथा ॥ ३.२८०.३४ ॥

有幸者将见到以吉祥草与阿贾沙米叶受灌顶的尊者之面,如月在静云之间。

3.280.35

एवं बहुविधं धीमान्विललाप स लक्ष्मणः ।
तमुवाचाथ काकुत्स्थः संभ्रमेष्वप्यसंभ्रमः ॥ ३.२८०.३५ ॥

智慧的罗什曼那如此多方哀叹。于是即使在纷乱中也不动心的迦古什塔对他说道。

3.280.36

मा विषीद नरव्याघ्र नैष कश्चिन्मयि स्थिते ।
शक्तो धर्षयितुं वीर सुमित्रानन्दवर्धन।
छिन्ध्यस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः ॥ ३.२८०.३६ ॥

人中之虎啊,不要沮丧;只要我在,无人能够侵犯你。英雄,增添须弥德拉之子欢喜者,斩断他的右臂吧;他的左臂已被我斩断。

3.280.37

इत्येवं वदता तस्य भुजो रामेण पातितः ।
खड्गेन भृशतीक्ष्णेन निकृत्तस्तिलकाण्डवत् ॥ ३.२८०.३७ ॥

他正这样说着,手臂被罗摩砍落;被极锋利的剑斩断的手臂,像芝麻秆一样倒下。

3.280.38

ततोऽस्य दक्षिणं बाहुं खड्गेनाजघ्निवान्बली ।
सौमित्रिरपि संप्रेक्ष्य भ्रातरं राघवं स्थितम् ॥ ३.२८०.३८ ॥

随后,强大的萨乌弥特里(罗什曼那)也用剑击打他的右臂,并看见兄长罗伽婆(罗摩)站立在那里。

3.280.39

पुनर्जघान पार्श्वे वै तद्रक्षो लक्ष्मणो भृशम् ।
गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः ॥ ३.२८०.३९ ॥

罗什曼那又猛击那罗刹的肋侧;那庞大的羯槃陀失去生命,倒在地上。

3.280.40

तस्य देहाद्विनिःसृत्य पुरुषो दिव्यदर्शनः ।
ददृशे दिवमास्थाय दिवि सूर्य इव ज्वलन् ॥ ३.२८०.४० ॥

从他的身体中走出一位容貌神圣的人;他升上天空,在天上像太阳一样闪耀。

3.280.41

पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रब्रूहि पृच्छतः ।
कामया किमिदं चित्रमाश्चर्यं प्रतिभाति मे ॥ ३.२८०.४१ ॥

能言善辩的罗摩问他:“你是谁?请告诉我这个问询者。这是多么奇异的景象,在我眼前显现!”

3.280.42

तस्याचचक्षे गन्धर्वो विश्वावसुरहं नृप ।
प्राप्तो ब्राह्मणशापेन योनिं राक्षससेविताम् ॥ ३.२८०.४२ ॥

他向他说明:“国王啊,我是乾闼婆毗湿婆婆苏。因婆罗门的诅咒,我得到了罗刹所居的生身。”

3.280.43

रावणेन हृता सीता लङ्कायां संनिवेशिता ।
सुग्रीवमभिगच्छस्व स ते साह्यं करिष्यति ॥ ३.२८०.४३ ॥

罗波那劫走了悉多,把她囚禁在楞伽城。你去找须羯哩婆,他会帮助你。

3.280.44

एषा पम्पा शिवजला हंसकारण्डवायुता ।
ऋश्यमूकस्य शैलस्य संनिकर्षे तटाकिनी ॥ ३.२८०.४४ ॥

这是潘帕湖,水质吉祥,充满天鹅与鸭子,位于黑山(Ṛśyamūka)附近的湖泊。

3.280.45

वसते तत्र सुग्रीवश्चतुर्भिः सचिवैः सह ।
भ्राता वानरराजस्य वालिनो हेममालिनः ॥ ३.२८०.४५ ॥

须羯哩婆与四位大臣住在那里。他是身戴金鬘的猴王婆利的兄弟。

3.280.46

तेन त्वं सह संगम्य दुःखमूलं निवेदय ।
समानशीलो भवतः साहाय्यं स करिष्यति ॥ ३.२८०.४६ ॥

你与他相见,把你痛苦的根源告诉他。他与你品性相同,将会帮助你。

3.280.47

एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम् ।
ध्रुवं वानरराजस्य विदितो रावणालयः ॥ ३.२८०.४७ ॥

我们只能说这些:你将见到耆那吉。猴王必定知道罗波那的住处。

3.280.48

इत्युक्त्वाऽन्तर्हितो दिव्यः पुरुषः स महाप्रभः ।
विस्मयं जग्मतुश्चोभौ प्रवीरौ रामलक्ष्मणौ ॥ ३.२८०.४८ ॥

说完这些,那位光辉灿烂的神圣人物便隐没了,英雄罗摩与罗什曼那都感到惊异。