Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.284

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.284.1

ततस्तत्रैवरामस्य समासीनस्य तैः सह ।
समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात्तदा ॥ ३.२८४.१ ॥

那时,罗摩与他们坐在那里,依照须羯哩婆的话,猴中之最好者聚集而来。

3.284.2

वृतः कोटिसहस्रेण वानराणां तरस्विनाम् ।
श्वशुरो वालिनः श्रीमान्सुषेणो राममभ्ययात् ॥ ३.२८४.२ ॥

被千千万万迅捷的猴子环绕,婆利之岳丈、光荣的苏舍那走近了罗摩。

3.284.3

कोटीशतवृतोवाऽपिगजो गवय एव च ।
वानरेन्रौ महावीर्यौ पृथक्पृथगदृश्यताम् ॥ ३.२८४.३ ॥

被数亿猴众环绕的两位大力猴王,迦阇与高婆,各自被人看到。

3.284.4

षष्टिकोटिसहस्राणि प्रकर्षन्प्रत्यदृश्यत ।
गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः ॥ ३.२८४.४ ॥

率领六万亿猴众而来,大王啊,金尾猴与形貌可怖的牛眼猴被人看到。

3.284.5

गन्धमादनवासी तु प्रथितो गन्धमादनः ।
कोटीशतसहस्राणि हरीणां समकर्षत ॥ ३.२८४.५ ॥

居于乾陀摩陀山而闻名的乾陀摩陀,率领数十万亿猴众而来。

3.284.6

पनसो नाम मेधावी वानरःसुमहाबलः ।
कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति ॥ ३.२८४.६ ॥

名叫波那娑的聪慧而大力的猴子,率领一千万、一千二百万与三千五百万猴众。

3.284.7

श्रीमान्दधिमुखो नाम हरिवृद्धोऽतिवीर्यवान् ।
प्रचकर्ष महासैनयं हरीणां भीमतेजसाम् ॥ ३.२८४.७ ॥

光辉的达提穆卡是一位年长而极其勇武的猴王,他率领光芒可怖的猴群大军出发。

3.284.8

कृषणानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम् ।
कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति ॥ ३.२८४.८ ॥

他率领十、十二、三十五俱胝的熊,它们黑色、面带标记,行事凶猛。

3.284.9

एते चान्ये च बहवो हरियूथपयूथपाः ।
असङ्ख्येया महाराज समीयू रामकारणात् ॥ ३.२८४.९ ॥

这些以及众多其他猴群统领,大王啊,为了罗摩而聚集,数不胜数。

3.284.10

गिरिकूटनिभाङ्गानां सिंहानामिव गर्जताम् ।
श्रूयते तुमुलः शब्दस्तत्रतत्रप्रधावताम् ॥ ३.२८४.१० ॥

到处都听得见猴群的喧嚣之声,它们像狮子般咆哮奔驰,身躯如山峰。

3.284.11

गिरिकूटनिभाः क्नचित्केचिन्महिषसन्निभाः ।
शरदभ्रप्रतीकाशाः केचिद्धिङ्गुलकाननाः ॥ ३.२८४.११ ॥

有的如山峰,有的如水牛,有的如秋天的云,有的如丁古罗树林。

3.284.12

उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः ।
उद्धुन्वन्तोऽपरे रेणून्समाजग्मुः समन्ततः ॥ ३.२८४.१२ ॥

猴子们跳跃、跌落、翻腾,另一些抖落尘土,从四面八方聚拢而来。

3.284.13

सवानरमहासैन्यः पूर्णसागरसन्निभः ।
निवेशमकरोत्तत्रसुग्रीवानुमते तदा ॥ ३.२८४.१३ ॥

率领庞大的猴军,如满溢的大海,那时在那里经须羯哩婆同意扎营。

3.284.14

ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः ।
तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते ॥ ३.२८४.१४ ॥

那时,众猴之王从四面聚集,在吉祥的月日、吉祥的星宿与受尊崇的时刻,

3.284.15

तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव ।
प्रययौ राघवः श्रीमान्सुग्रीवसहितस्तदा ॥ ३.२८४.१५ ॥

以那列阵的大军,仿佛举起诸世界,光辉的罗怙之裔便与须羯哩婆一同启程。

3.284.16

मुखमासीत्तु सैन्यस्य हनूमान्मारुतात्मजः ।
जघनं पालयामास सौमित्रिरकुतोभयः ॥ ३.२८४.१६ ॥

军队的前锋是风之子哈奴曼,而无惧于任何方向的萨米特里守护后方。

3.284.17

बद्धगोधाङ्गुलित्रणौ राघवौ तत्रजग्मतुः ।
वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव ॥ ३.२८४.१७ ॥

两位罗怙之裔手指缚着蜥蜴皮护套前往那里,被众猴大臣环绕,如同被行星环绕的日月。

3.284.18

प्रबभौ हरिसैन्यं तत्सालतालशिलायुधम् ।
सुमहच्छालिभवनं यथा सूर्योदयं प्रति ॥ ३.२८४.१८ ॥

那支以娑罗树、棕榈树与岩石为武器的猴军,闪耀如同朝向日出的巨大谷仓。

3.284.19

नलनीलाङ्गदक्राथमैन्दद्विविदपालिता ।
ययौ सुमहती सेना राघवस्यार्थसिद्धये ॥ ३.२८४.१९ ॥

由那罗、尼罗、安伽陀、克拉陀、摩因陀和双毗陀守护的庞大军队前进,以成就罗怙之裔的使命。

3.284.20

विविधेषु प्रशस्तेषु बहुमूलफलेषु च ।
प्रभूतमधुमांसेषु वारिमत्सु विवेषु च ॥ ३.२८४.२० ॥

在各处优美之地,根茎与果实丰饶,蜂蜜与肉类充足,多水之处及林中,大军驻扎。

3.284.21

निवसन्ती निराबाधा तथैवगिरिसानुषु ।
उपायाद्धिरिसेना सा क्षारोदमथ मागरम् ॥ ३.२८४.२१ ॥

同样在山坡上无阻地驻扎,那支猴军前往咸海。

3.284.22

द्वितीयसागरनिमं तद्बलंबहुलध्वजम् ।
वेलावनं समासाद् निवासमकरोत्तदा ॥ ३.२८४.२२ ॥

那支军队如同第二片大海,旌旗众多,抵达海滨林中并在那里安营。

3.284.23

ततो दाशरथिः श्रीमान्सुग्रीवं प्रत्यभाषत ।
मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः ॥ ३.२८४.२३ ॥

于是,光荣的十车王之子在众猴首领之中,对须羯那说出了这番适时的话。

3.284.24

उपायः कोनु भवतां मतः सागरलङ्घने ।
इयं हि महती सेना सागरश्चातिदुस्तरः ॥ ३.२८४.२४ ॥

“你们认为渡过大海应当用什么办法?此军浩大,而大海极难渡过。”

3.284.25

तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः ।
समर्था लङ्घने सिन्दोर्न तत्कृत्स्नस्य वानराः ॥ ३.२८४.२५ ॥

此时,其他自认为聪明的猴子说:“我们能够跃过信度河,但并非所有猴子都能完全渡过。”

3.284.26

केचिन्नौभिर्व्यवस्यन्ति केचिच्च विविधैः प्लवैः ।
नेति रामस्तु तानसर्वान्सान्त्वयन्प्रत्यभाषत ॥ ३.२८४.२६ ॥

有的决定乘船渡过,有的则用各种筏子。然而罗摩安抚了他们所有人,回答道:“不。”

3.284.27

शतयोजनविस्तारं न शक्ताः सर्ववानराः ।
क्रान्तुं तोयनिधिं वीरानैषा वो नैष्ठिकी मतिः ॥ ३.२८४.२७ ॥

宽达百由旬的大海,并非所有猴子都能渡过。勇士们,这不应是你们最终的决定。

3.284.28

नावो न सन्ति सेनाया बह्व्यस्तारयितुं तथा ।
वणिजामुपघातं च कथमस्मद्विधश्चरेत् ॥ ३.२८४.२८ ॥

没有足够的船只可以将军队渡过。像我们这样的人,又怎能去伤害商人呢?

3.284.29

विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेण वै परः ।
प्लवोडुपप्रतारश्चनैवात्रमम रोचते ॥ ३.२८४.२९ ॥

我军绵延分散,敌人可能从缝隙中攻击我们。用浮具和筏子渡河,在此我并不赞同。

3.284.30

अहं त्विमं जलनिधिं समारप्स्याम्युपायतः ।
प्रतिशेष्याम्युपवसन्दर्शयिष्ति मां ततः ॥ ३.२८४.३० ॥

而我将以计谋开始制服这大海。我将禁食躺下,那时它便会向我显现。

3.284.31

न चेद्दर्शयिता मार्गं धक्ष्याम्यनमहं ततः ।
महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः ॥ ३.२८४.३१ ॥

若他不指路,我便以不可抵挡的大神兵将他焚毁,其光胜过火与风。

3.284.32

इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः ।
प्रतिशिस्ये जलनिधं विधिवत्कुशसंस्तरे ॥ ३.२८४.३२ ॥

说罢,罗ghava与萨乌米特里漱水净身,依仪轨躺在吉祥草床上,靠近大海。

3.284.33

सागरस्तु ततः स्वप्ने दर्शयामास राघवम् ।
देवो नदनदीमर्ता श्रीमान्यादोगणैर्वृतः ॥ ३.२८४.३३ ॥

此时,那位光辉的诸河之主大海神,被水族群围绕,在梦中向罗摩显现。

3.284.34

कौसल्यामातरित्येवमाभाष्य मधुरं वचः ।
इदमित्याह रत्नानामाकरैः शतशो वृतः ॥ ३.२८४.३४ ॥

他以温和的话语说道:“憍萨罗之子啊,”他被成百上千的宝矿环绕,说了这些话。

3.284.35

ब्रूहि किं तेकरोम्यत्रसाहाय्यं पुरुषर्षभ ।
ऐक्ष्वाको ह्यस्मि ते ज्ञाती राम सत्यपराक्रमः।
एवमुक्तः समुद्रेण रामो वाक्यमथाब्रवीत् ॥ ३.२८४.३५ ॥

“人中之雄啊,请说,我在此可为你做什么?真勇之罗摩,我是甘蔗王族之裔,是你的同族。”大海如此说后,罗摩便说了这些话。

3.284.36

मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते ।
येन गत्वादशग्रीवं हन्याम कुलपांसनम्।
राक्षसंसानुबन्धं तं मम भार्यापहारिणम् ॥ ३.२८४.३६ ॥

“诸河之主啊,我愿为我的军队求得一条道路,使我们得以前往,诛杀那十首罗刹——家族的耻辱,掳走我妻子的罪人,连同他的部众。”

3.284.37

यद्येवं याचतो मार्गं न प्रदास्यति मे भवान् ।
शरैस्त्वां शोषयिष्यामि दिव्यास्त्रयतिमन्त्रितैः ॥ ३.२८४.३७ ॥

若你如此请求之后仍不给我让路,我将以承载神性兵器咒语的箭矢使你干涸。

3.284.38

इत्येवंब्रुवतः श्रुत्वारामस्य वरुणालयः ।
उवाचव्यथितोवाक्यमितिबद्धाञ्जलिःस्थितः ॥ ३.२८४.३८ ॥

闻听罗摩如此之言,婆罗那的居所大海心生忧虑,合掌而立,说出了这些话。

3.284.39

नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव ।
शृणु चेदं वचोराम श्रुत्वा कर्तव्यमाचर ॥ ३.२८४.३९ ॥

我并不想阻挠你,也不是你的障碍。罗摩啊,请听这话,听后便做应当做的事。

3.284.40

यदि दास्यामि ते मार्गं सैन्यस् व्रजतोऽऽज्ञया ।
अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषोबलात् ॥ ३.२८४.४० ॥

若我因命令而为你和你的军队让路,其他人也会以弓箭之力如此命令我。

3.284.41

अस्तित्वत्रनलो नाम वानरः शिल्पिसंमतः ।
त्वष्टुः काकुत्स्थ तनयो बलवान्विश्वकर्मणः ॥ ३.२८४.४१ ॥

啊,甘古斯塔之后,这里有一只名叫难陀的猴子,在工匠中备受推崇;他是特瓦斯特里之子,毗首羯摩的强健后裔。

3.284.42

स यत्काष्ठं तृणं वाऽपिशिलां वा क्षेप्स्यते मयि ।
सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति ॥ ३.२८४.४२ ॥

无论他投向我的是木材、草,还是石头,我都将承载;那便会成为你的桥梁。

3.284.43

इत्युक्त्वाऽन्तर्हिते तस्मिन्रामो नलमुवाच ह ।
कुरु सेतुं समुद्रे त्वंशक्तो ह्यसि मतो मम ॥ ३.२८४.४३ ॥

他说完便隐没了。罗摩对那罗说:“你去在海上架桥吧,依我看你是有能力的。”

3.284.44

तेनोपायेन काकुत्स्थः सतुबन्धमकारयत् ।
दशयोजनविस्तारमायतं शतयोजनम् ॥ ३.२८४.४४ ॥

罗摩(迦恭特ha后裔)以此法让人建造了桥梁,宽十由旬,长百由旬。

3.284.45

नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि ।
रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसंनिभः ॥ ३.२८४.४५ ॥

它被称为那罗桥,至今仍闻名于世;遵从罗摩的命令,它如山岳般被牢固地保存着。

3.284.46

तत्रस्थं स तु धर्मात्मा समागच्चद्विभीषणः ।
भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह ॥ ३.२८४.४६ ॥

此时,正直的毗毗沙那——罗刹王之弟——与四位大臣一同来到此地。

3.284.47

प्रतिजग्राह रामस्तं स्वागतेन महामनाः ।
सुग्रीवस्य तु शङ्काऽभूत्प्रणिधिः स्यादिति स्मह ॥ ३.२८४.४७ ॥

心胸宽广的罗摩以欢迎之礼接纳了他;但须羯哩婆心中生出疑虑,恐怕此人是间谍。

3.284.48

राघवः सत्यचेष्टाभिः सम्यक्व चरितेङ्गितैः ।
यदा तत्त्वेन तुष्टोऽभूत्तत एनमपूजयत् ॥ ३.२८४.४८ ॥

罗怙之后以他真诚的行为和举止的迹象充分考察了他;当他确实满意时,便尊敬了他。

3.284.49

सर्वराक्षसराज्येचाप्यभ्यपिञ्चद्विभीषणम् ।
चक्रे च मन्त्रसचिवं सहृदंलक्ष्मणस् च ॥ ३.२८४.४९ ॥

他又在整个罗刹王国为毗缚沙那举行灌顶,任他为谋议大臣;罗什曼那也以他为友。

3.284.50

विभीषणमते चैव सोऽत्यक्रामन्महार्णवम् ।
ससैन्यः सेतुना तेन मार्गेणैव नराधिपः ॥ ३.२८४.५० ॥

依毗缚沙那之议,那位人主率军经由那座桥梁,穿越大海。

3.284.51

ततो गत्वासमासाद्य लङ्कोद्यानान्यनेकशः ।
भेदयामास कपिभिर्महान्ति च बहूनि च ॥ ३.२८४.५१ ॥

于是他前往,抵达楞伽的诸多园林,与猴众一起毁坏了其中大大小小的许多园林。

3.284.52

तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ ।
चरौ वानररूपेण तौ जग्राह विभीषणः ॥ ३.२८४.५२ ॥

那里有罗波那的两位大臣,罗刹舍竭与萨罗那,化作猿猴形态充当间谍;毗缚沙那擒住了他们。

3.284.53

प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ ।
दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत् ॥ ३.२८४.५३ ॥

当那两位夜行者显现罗刹之形后,罗摩将他们示于大军,之后便释放了他们。

3.284.54

निवेश्योपवने सैन्यं स शूरः प्राज्यवानरम् ।
प्रेषयामास दुत्येन रावणस्य ततोऽङ्गदम् ॥ ३.२८४.५४ ॥

那位勇士将大军驻扎在园林之中,随后从众多猴众中遣派安迦达作为使者前往罗波那处。